महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:

महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय

Maharshi Panini Sanskrit Evam Vedic Vishwavidyalaya

Formerly Maharshi Panini Sanskrit Vishwavidyalaya, A Public State University under Madhya Pradesh Act No. XV of 2008
Dewas Road, Ujjain, Madhya Pradesh (India) – 456010

Teaching-Learning and Evaluation

Teaching-Learning and Evaluation

2.1.1 Average percentage of students from other States and Countries during the last five yearsविगतेषु पञ्चसु वर्षेषु अन्येभ्यः राज्येभ्यः राष्ट्रेभ्यश्च प्रविष्टानां छात्राणां मध्यमानस्य प्रतिशततायाः मानम्।

Answer: 2.79

2.1.1.1 Number of students from other states and Countries, year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु अन्येभ्यः राज्येभ्यः राष्ट्रेभ्यश्च प्रविष्टानां छात्राणां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
27 12 4 7 6

 

File DescriptionDocument
List of students (other states and countries) छात्रसूची (अन्येभ्यः राज्येभ्यः/ राष्ट्रेभ्यश्च) View Document
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Copy of the domicile certificate/passport from respective countries) अधिवासप्रमाणपत्रम् /आज्ञापत्रम् (सम्बद्धदेशानां) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.1.2 Demand Ratio (Average of last five years)अभियाचनायाः अनुपातः (विगतानां पञ्चानां वर्षाणां मध्यमानम्)

Answer: 88.91

2.1.2.1 Number of eligible applications received for admissions to all the Programmes year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु प्रचालितेषु सर्वेषु कार्यक्रमेषु प्राप्तार्हतानाम् आवेदनपत्राणां वार्षिकक्रमेण सम्पूर्णा सङ्ख्या

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
217 240 205 176 162

 

2.1.2.2 Number of seats available year-wise during the last five years.विगतेषु पञ्चसु वर्षेषु प्रतिवर्षम् उपलब्धानां स्थानानां सङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
275 260 205 195 195

 

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.1.3 Average percentage of seats filled against seats reserved for various categories (SC, ST, OBC, Divyangjan, etc.) as per applicable reservation policy during the last five yearsविगतेषु पञ्चसु वर्षेषु, आरक्षणनीत्यनुसारेण, नानाप्रवर्गेभ्यः (अनुसूचितजातिः, अनुसूचितजनजातिः, अन्य-अप्रगतजातिः, दिव्याङ्गजनाः, इत्यादयः) निर्दिष्टेषु आरक्षितस्थानेषु, सम्पूरितानाम् आरक्षितस्थानानां प्रतिशतं मध्यमानस्य प्रतिशतता।

Answer: 29.7

2.1.3.1 Number of actual students admitted from the reserved categories year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु प्रतिवर्षम् आरक्षितप्रवर्गेभ्यः प्राप्तप्रवेशानां छात्राणां सङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
49 33 24 36 27

 

2.1.3.2 Number of seats earmarked for reserved category as per GOI/State Govt. rule year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु  भारतशासनस्य अथवा राज्यशासनस्य नियमानुरूपम् आरक्षितप्रवर्गेभ्यः निर्दिष्टानां स्थानानां वार्षिकी सङ्ख्या

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
138 130 103 98 98

 

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

2.2.1 The institution assesses the learning levels of the students, after admission and organises special programmes (including spoken Sanskrit shibirams/ camps/ workshops/ summer schools etc.) for advanced learners and slow learnersछात्राणां प्रवेशानन्तरं संस्था तेषाम् अधिगमस्तरान् परीक्षते, अग्रसराधिगन्तॄणां मन्दाधिगन्तॄणां च कृते विशिष्टान् शैक्षिकपाठ्यक्रमान् (संस्कृतसम्भाषणशिबिराणि/ आवासीयशिबिराणि/ कार्यशालाः/ ग्रीष्मकालिकशिबिराणि इत्यादि) आयोजयति।

Answer:

“मुण्डे मुण्डे मतिर्भिन्ना” इत्यनेन सुभाषितेन सिद्धयति यत् सर्वे छात्राः समस्तरीयाः न भवन्ति। तथा कक्षानुगुणेनापि एवमनुभूतं यत् महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये विभिन्नपृष्ठभूमीनां विभिन्नक्षेत्राणामप्रगतसमुदायानां छात्राणामावश्यकतानुगुणम्(आवश्यकतां परिपूरयितुम्) अनेकविधोपायान् कल्पयति। -

    विश्वविद्यालयस्य छात्राः एव मूलधनं सन्ति। छात्राणां सर्वतोमुखी विकासः एव विश्वविद्यालयस्य शिक्षकाणां च मूलमुद्देश्यं भवति।

विद्यार्थिनां मूल्याङ्कनम्-

    प्रथमतः यत्र शिक्षणे गुरुकुलपद्धत्याः आदर्शेषु यथा- संवादशैल्यामध्यापनम्, प्रश्नप्रोत्साहनम्, सरलोदाहरणमाध्यमेन विषयस्य स्पष्टीकरणञ्चेत्यादयः प्रयोगाः क्रियन्ते। द्वितीयं कक्षायाः बाह्यप्रकृतिः, समाजादिना शिक्षणमुत्कृष्टं कर्तुं प्रयोगाः अपि क्रियन्ते।

प्रगतच्छात्राणाङ्कृते –

  1. वाक्यार्थपरिषत्- विश्वविद्यालयीयाः अध्यापकाः शास्त्रीयमेकं विषयमवलम्ब्य आदर्शरूपेण वाक्यार्थं कुर्वन्ति। परिषदः अधिवेशने उपस्थिताः छात्राः शास्त्रवाक्यार्थप्रणालीम् अभ्यस्यन्ति। विश्वविद्यालये अधिगमप्रणालीयम् आचर्यते।
  2. स्पर्धानाम् आयोजनम्- काले काले शैक्षिकाः सांस्कृतिकाश्च विविधाः स्पर्धाः आयोज्यन्ते। भारतीयविद्यास्थानानां बोधनार्थाय स्फूर्तिस्पर्धा आयोज्यते। अग्रसराध्येतारः छात्राः तत्र भागमूढ्वा प्रयोजनं लभन्ते । राज्यस्तरीयस्पर्धायां भागग्रहणाय प्रशिक्षणं प्रदीयते छात्राणाङ्कृते। विश्वविद्यालये कालिदासदिवसप्रसङ्गे प्रतियोगितायाः अपि आयोजनं क्रियते।
  3. विशिष्टव्याख्यानम्- विश्वविद्यालये विशिष्टव्याख्यानानि आयोज्यन्ते। शास्त्राणां, संस्कृतभाषायाः, भारतीयसंस्कृतेः अन्येषु मौल्यप्रतिपादकेषु विषयेषु व्याख्यानानि आयोजितानि भवन्ति। आमन्त्रिताः विशिष्टाः विद्वांसः व्याख्यानं कुर्वन्ति। छात्राः तत्र लाभं प्राप्नुवन्ति ।
  4. प्रतियोगितासु मार्गदर्शनम्- शैक्षिक/सांस्कृतिक/क्रीडास्पर्धासु राज्यस्तरीयासु राष्ट्रस्तरीयासु भागग्रहणाय मार्गदर्शनं क्रियते। छात्राः बहिः प्रवर्तमानासु प्रतियोगितासु सोत्साहं भागं गृह्णन्ति।
  5. प्रोत्साहनम् अभिप्रेरणा- राज्यस्तरीयराष्ट्रस्तरीयस्पर्धासु प्राप्तपुरस्काराणां छात्राणां विश्वविद्यालयपक्षतः अभिनन्दनं क्रियते। सामाजिकजालपुटेषु वार्ता प्रसार्यते। विश्वविद्यालयस्य पत्रिकायां पाणिनिधारा इत्यत्र पुरस्कारवृत्तान्तः प्रकाश्यते। एतादृशैः उत्साहवर्धकैः कार्यैः अन्येऽपि छात्राः प्रेरिताः भवन्ति।
  6. सभासञ्चालनम्- विश्वविद्यालये विविधकार्यक्रमाणां सञ्चालनं स्वागतकथनम्, धन्यताविष्करणम् इत्यादिकौशलं प्राप्तुम् अवसरः कल्प्यते ।
  7. शास्त्रार्थप्रशिक्षणवर्गः- छात्रेषु शास्त्रीयं विशिष्टं ज्ञानम् आधातुं विश्वविद्यालयद्वारा शास्त्रार्थप्रशिक्षणवर्गः आयोज्यते। विश्वविद्यालयस्तरे चिताः अग्रेसराध्येतारः छात्राः प्रशिक्षणवर्गे भागं गृह्णन्ति ।

मन्दाध्येतॄणां कृते-

  1. आवासीयशिबिरम्- लेखनकौशलवर्धनाय आवासीयशिबिरं चाल्यते।
  2. प्रशिक्षणवर्गेषु भागग्रहणार्थं प्रोत्साहनम्- अन्यसंस्थाद्वारा प्रचाल्यमानेषु भाषाबोधनवर्गः, वेदशिक्षणम्, शास्त्रार्थप्रशिक्षणवर्गः, सम्भाषणशिबिरम् इत्यादिप्रशिक्षणवर्गेषु भागग्रहणाय छात्राणां कृते अवसरः कल्प्यते।
  3. प्रवेशपरीक्षाणां मार्गदर्शनम्- विशिष्टाध्ययनार्थम् विभिन्नपाठ्यक्रमेषु प्रवेशं लब्धुं NET, SET/SLET इत्यादिपरीक्षासु छात्राणां कृते मार्गदर्शनं क्रियते। विश्वविद्यालयीयाः छात्राः स्नातक/ स्नातकोत्तरपाठ्यक्रमस्य अवधौ एतन्मार्गदर्शनं प्राप्य उन्नताध्ययने प्रवेशं लभन्ते।
  4. लघुचलच्चित्रनिर्माणे मार्गदर्शनम्- संस्कृते लघुचलच्चित्रनिर्माणार्थम् अवसरः कल्प्यते। विश्वविद्यालये लघुचलच्चित्रस्पर्धाम् आयोजयति।
  5. पर्यटनकार्यक्रमाः- छात्राणां विशिष्टानुभवप्राप्तये विश्वविद्यालयः पर्यटनकार्यक्रमान् आयोजयति। विश्वविद्यालये विश्वपर्यटनदिवसस्य अवसरे विशेषाः कार्यक्रमाः “चलें गाँव की चौखट पे” इत्यादिरूपेण क्रियन्ते।

संस्कृतसम्भाषणकौशलप्रशिक्षणवर्गः-

  1. संस्कृतशिक्षणप्रशिक्षणाय विश्वविद्यालये स्वतन्त्रं केन्द्रं स्थापितं वर्तते, यत् काले काले वर्गमाणाम् आयोजनं करोति। एतेषु वर्गेषु न केवलं सामान्यभाषणस्य प्रशिक्षणं भवति, अपितु सन्धिः, समासः, करकम् इत्यादिविषयाधारितस्वतन्त्रवर्गाणामपि सम्पादनं क्रियते।
  2. Covid 19 इत्यस्य कालेऽपि ऑनलाइन कक्षायाः आयोजनं कृत्वा छात्रान् समाजेन सह योजयितुं कार्यं कृतम् ।

कर्मकाण्डकार्यक्रमाः-

कर्मकाण्डं संस्कृतक्षेत्रसम्बद्धः बृहद् विषयः अस्ति । सर्वेषां छात्राणां कृते विशेषतः पौरोहित्यस्य वेदविषयस्य च छात्राणां कृते सरस्वतीपूजा,गणेशोत्सवः, रुद्राभिषेकम् इत्यादीनां माध्यमेन छात्रान् कर्मकाण्डेन सह प्रयोगात्मकरूपेण संयोजयितुं अवसराः प्रदीयन्ते। महालक्ष्मीपूजाविधानसदृशाः विशेषप्रशिक्षणकार्यशालाः अपि आयोज्यन्ते।

विशेषकार्यक्रमाणामायोजनम्-

संस्कृतस्य छात्राः विज्ञानेन अपि परिचिताः भवेयुः इति निश्चित्य संस्कृतविज्ञानपरिसंवादः, गणितदिवसः इत्यादयः कार्यक्रमाः आयोज्यन्ते ।

 सङ्गोष्ठी –

विश्वविद्यालये अनेकाः अन्ताराष्ट्रियसङ्गोष्ठ्याः राष्ट्रियगोष्ठ्याः, विशेषव्याख्यानानि, प्रशिक्षणकार्यक्रमाश्च अत्यधिकतया आयोज्यन्ते। येन छात्राः विषयविशेषज्ञानानाम् व्याख्यानानि श्रुत्वा स्वज्ञानवर्धनम्, अद्यतनीकरणं च कर्तुं शक्नुवन्ति।

वेधशालायाः भ्रमणम्-

उज्जयिन्यां ज्योतिषकालगणनायाः क्रेन्द्रभूतं वेधशालाद्वयं विद्यते। तत्र एका जीवाजीवेधशाला अपरा च डोंगलावेधशाला। अत्र ज्योतिषः छात्राः समयानुसारं वेधशालाभ्रमणं कुर्वन्ति।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Provide link for additional information अतिरिक्तसूचनानां सन्धानम् View Document

 

2.2.2 Student - Full time teacher ratioछात्राणां पूर्णकालिकाध्यापकानां च अनुपातः

Answer: 16.5

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document

 

Other Upload Files
1 View Document

2.3.1 Student centric methods, such as experiential learning, participative learning and learning through dialogue mode and use of hermeneutics in the teaching of knowledge texts and Kavyas, problem solving methodologies are used for enhancing learning experiences.अनुभवात्मकः अधिगमः, सहभागी अधिगमः, संवादपद्धत्या अधिगमः इत्यादयः छात्रकेन्द्रितविधयः, वादपद्धत्या शिक्षणं, शास्त्राणां काव्यानां च पाठने टीकाभाष्यादिपद्धतयः समस्यापरिष्कारविधिविज्ञानानि च अधिगमानुभवसमभिवर्धनाय उपयुज्यन्ते।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये भारतीयज्ञानशाखानां सुसम्पन्ना पठनपाठनपरम्परा विद्यते। शिक्षकः छात्राणां स्तरं ज्ञात्वा एव पाठनीयं विषयमुपयुक्तविधिना पाठयति। काले पर्यवेक्षते परीक्षते च। तत्र छात्रकेन्द्रिताः विधयः-

  1. अनुभवात्मकाधिगमः- संस्कृतसाहित्ये शृङ्गारादिनवरसानां परिचयं कक्षायां छात्राः प्राप्नुवन्ति। फलितज्योतिषे जातकस्य कुण्डल्यां फलादेशविचारःपाठ्यते। विद्यार्थिनः स्वकीयानुभवद्वारा फलादेशविज्ञानं जानन्ति। योगविभागस्य छात्रैः समाजाय सौजन्ययोगप्रशिक्षणस्य उपक्रमः क्रियते।  
  2. सहभागि-अधिगमः-  पादं सब्रह्मचारिभ्यः अनेन हेतुना छात्राः सहपाठिभिः  साकं पाठ्यांशमभ्यस्यन्ति। व्याकरणशास्त्रीयाः छात्राः पाठितानि सूत्राणि सहपाठिनः परस्परं पाठं चिन्तयन्ति। सिद्धान्तज्योतिषगणितविज्ञानप्रक्रियामपि एकत्रीभूय अभ्यस्यन्ति। तथा च फलितज्यौतिषे न्यायदर्शने, संस्कृतसाहित्ये, अद्वैतवेदान्तदर्शने, द्वयोः त्रयाणां च समूहं कृत्वा प्रत्येकस्य कृते एकैकः विषयः प्रदीयते। ते समूहरूपेण अभ्यस्यन्ति।
  3. संवादपद्धत्याधिगमः- विद्यार्थिनः व्याकरणशास्त्रे स्फोटवादस्य, साहित्ये काव्यप्रकाशस्य पाठ्यांशानां संवादं कुर्वन्ति। वेदान्तशास्त्रे ईशावास्योपनिषदं संवादात्मकतया अधिगच्छन्ति। ज्योतिषे, चिन्तनाधिगमस्य अवसरमधिकतया प्राप्नुवन्ति।

छात्रकेन्द्रितविधयः-

  1. प्रश्नविधिः- अयं प्राचीनः विधिः। प्रश्नोपनिषदि “ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं  प्रश्नान् पृच्छत” यदि विज्ञास्यामः सर्वं ह वो वक्ष्यामः इति निर्देशः प्राप्यते। कालांशे कश्चन कालः विद्यार्थिनां जिज्ञासाशान्त्यर्थं प्रदीयते। विद्यार्थिनः प्रश्नाः कुर्वन्ति। पाठितविषयस्य अध्ययनकाले समुत्पन्नाः प्रश्नाः आगामिकक्षायां पृच्छन्ति। ततः शिक्षकैः समाधानं क्रियते।
  2. प्रयोगपूर्वकं शिक्षणम्- संस्कृतसाहित्ये नाटकस्य, ज्यौतिषशास्त्रे फलादेशविज्ञानस्य, वेदे कर्मकाण्डस्य तथा च योगशास्त्रे आसनानां प्रायोगिकं ज्ञानं प्रदीयते।
  3. कण्ठस्थप्रोत्साहनविधिः- विश्वविद्यालये शब्दरूपपाठः, धातुरूपपाठः, अमरकोशः, सूक्तिपाठः, सूत्रपाठः, इत्यादिमाध्यमेन छात्रेषु शास्त्रकण्ठस्थीकरणाय अध्यापकैः  प्रोत्साहनं प्रदीयते।
  4. दृष्टान्तविधिः- व्याकरणे स्फोटः, वर्णनित्यत्वम्, वेदान्ते अध्यासः, भ्रमः, साहित्ये वृत्तयः, (लौकिकन्यायानाम् उपयोगः) एवं नैकेषां विषयाणां पाठने च एषः विधिः प्रयुज्यते। प्रदीयमानेन दृष्टान्तेन दार्शनिकसिद्धान्तस्य सुलभावगतिः भवति।
  5. अध्यारोप-अपवादविधिः- सोपानक्रमेण विषयोपन्यासेन अध्यापनम् । स्थूलात् सूक्ष्मं  प्रति अज्ञातात् ज्ञातं प्रति, इन्द्रियगम्याद् अतीन्द्रियं प्रति विषयं क्रमेण बोधयितुम् एषः विधिः आश्रीयते। अद्वैतवेदान्ते ब्रह्मणः स्वरूपकथनादौ प्रयुज्यते।
  6. आदर्शवाचनविधिः- पुराणानि, वेदमन्त्राः, काव्यानि इत्येतेषां पाठनाय विश्वविद्यालये प्राचुर्येण असौ विधिः स्वीक्रियते।
  7. समस्यासमाधानविधिः- शास्त्रीयविषयाणां पाठनसमये आदौ संशयः ततः समाधानं पुनः संशयः ततः समाधानम् इत्येवं क्रमेण सिद्धान्तस्य स्थापनं क्रियते। विश्वविद्यालयस्य पाठ्यक्रमेषु अत्यन्तोपयोगिनाम् एनं विधिम् आश्रयन्ते अध्यापकाः ।
  8. परीक्षाविधिः- शास्त्राणां दृढावगतिसम्पादनाय शलाकाप्रतियोगिता क्रियते। अवान्तरविषये पाठिते घटकपरीक्षा क्रियते।

वादपद्धत्या शिक्षणम्-

  1. वादविधिः- “वादे वादे जायते तत्त्वबोधः” इति उक्त्यनुसारेण शास्त्रीयग्रन्थेषु दर्शनग्रन्थेषु च प्रमेयविचारः वादसरण्या प्रतिपादितो वर्तते। अतः वेदान्ते न्याये व्याकरणे  साहित्ये च अध्यापकाः अमुं विधिम् आश्रयन्ते। वाक्यार्थपरिषदि अध्यापका विशेषतः अनेन विधिना प्रमेयं प्रतिपादयन्ति ।
  1. टीकाभाष्यपद्धतिः- विभिन्नपाठ्यक्रमेषु विद्यमानानां शास्त्रीयग्रन्थानां पाठनाय टीकापद्धतिः अत्यन्तम् उपादेया वर्तते ।
  2. व्याख्यानविधिः- प्रसिद्धोऽयं विधिः समान् शास्त्रविषयान् च बोधयितुम् अवलम्ब्यते। एतैः विधिभिः सह अध्यापितान् विषयान् अधीयानाः विद्यार्थिनः स्वस्यानुसन्धानदृष्टिं दृढीकुर्वन्ति।

सांस्कृतिकभ्रमणम्-

    सांस्कृतिकभ्रमणेन छात्राः उज्जैनस्य विशिष्टसांस्कृतिकन्यासं पश्यन्ति। तथा उज्जयिन्याः अनतिदूरे स्थितानां पुरातात्विकस्थलानां महिदपुरदुर्गस्य, पुरातत्त्वीयोत्खननस्थलस्य, भस्मटेकरीत्याख्यस्य, स्वातन्त्र्यान्दोलनेन सह सम्बद्धस्थलानां च भ्रमणं कुर्वन्ति। विश्वविद्यालयः पारम्परिकगुरुकुलैः सह सम्बद्धा अस्ति। येषां माध्यमेन छात्राः गुरुकुलपरम्परायाः सम्पर्कं प्राप्नुवन्ति। यथा योगविभागस्य छात्राः हरिद्वारगुरुकुलस्य भ्रमणं कृतवन्तः । इतोऽपि अतिरिक्तं छात्राः जीवाजीवेधशाला, डोंगलावेधशाला, मानवसंग्रहालयः,  ठाकुरपर्वतसिंहसंग्रहालयः इत्यादिस्थानानां भ्रमणं कुर्वन्ति। अन्येषु विश्वविद्यालयेषु अपि अत्रत्याः छात्राः गच्छन्ति। यथा - शोधविदुषां दलेन कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य रामटेकस्य शैक्षणिकभ्रमणं कृत्वा तत्र पाण्डुलिपिन्यासोऽपि अवलोकितः। एतेषु भ्रमणस्थलेषु छात्राणां प्रथमहस्तसूचना प्राप्यते । एतत् छात्राणां कृते स्वस्य पारस्परिककौशलं वर्धयितुं गहनतरम् अन्वेषणं विकसितुं च मञ्चं प्रदाति।

 

File DescriptionDocument
Upload any additional information अतिरिक्तसूचनानां कृते सन्धानम् View Document
Link for Additional Information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document

 

2.3.2 Percentage of teachers using ICT for effective teaching with Learning Management Systems (LMS), E-learning resources etc.अधिगम-प्रबन्धन-प्रणाली(अ.प्र.प्र)-वैद्युत-अधिगम-संसाधन(वै.अ.स)-प्रभृतिभिः सह सूचना-संप्रेषण-प्राविधिकीं (सू.सं.प्रा) प्रभाविशिक्षणार्थम् उपयुञ्जताम् अध्यापकानां प्रतिशतता।

Answer: 46.43

2.3.2.1 Number of teachers using ICTसूचना-सम्प्रेषण-प्राविधिकीम् (सू.सं.प्रा) उपयुञ्जताम् अध्यापकानां सङ्ख्या

Answer: 13

File DescriptionDocument
Upload List of teachers (using ICT for teaching) based on Data Template दत्तांशप्रारूपाधारेण सूचना-संप्रेषण-प्राविधिकी (सू.सं.प्रा) (अ.प्र.प्र., वै.अ.सं) उपयुञ्जताम् अध्यापकानां सूची उपारोपणीया View Document
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Provide link for webpage describing the " LMS/ Academic management system" जालपुटस्य सन्धानं दीयतां यत्र अधिगम-प्रबन्धन-प्रणाली (अ.प्र.प्र) वैद्युत-अधिगम-संसाधनानां (वै.अ.स) विवरणं लभ्यते View Document

 

2.3.3 Ratio of mentor to students for academic and stress related issues (preceding academic year data)शैक्षिकसमस्याविषये, उद्वेगविषये च छात्राणां कृते उपलब्धानाम् उपदेष्टॄणाम् अनुपातः (प्रगतवर्षस्य दत्तांशः)

Answer: 16.5

2.3.3.1 Number of mentorsमार्गदर्शकानां सङ्ख्या

Answer: 28

File DescriptionDocument
Upload year-wise list of number of students, full time teachers and mentor/mentee ratio <br> छात्राणां तथा पूर्णकालिकाध्यापकानां वार्षिकी सूची तथा उपदेष्टृ-उपदेश्यानामनुपातश्च उपारोपणीयः View Document

 

2.3.4 University encourages the Grurukula method of teaching/ Pathashalas/ Traditional Oriental Learning System (TOLS)/ Gurukula/ Shastrapeethasविश्वविद्यालयः गुरुकुलपद्धत्या अध्यापनं/ पाठशालाः/ परम्परागतप्राच्याधिगमप्रणालीः/ गुरुकुलानि/ शास्त्रार्थपीठानि च पोषयति।

Answer:

विश्वविद्यालस्यास्य पाठ्यक्रमाः अनुसन्धानस्य व्यापकतां परिवर्धयन्ति। अत्रत्यः पाठनविधिः आधुनिकविधिना सह गुरुकुलविधिमपि अनुसरति। विश्वविद्यालये परम्परानुगमकप्राच्यसरण्याः अवलम्बनेन शास्त्राध्ययनं जायते।  विश्वविद्यालयः प्रकृत्यानुगुणं जीवनयापनाय गुरुकुलपद्धति-एवं-परम्परागतप्राच्याधिगमप्रणाल्यादीन् स्वविधानेन सम्पोषयति।

गुरुकुलपद्धत्या अध्यापनम्-

    विश्वविद्यालयः विश्वविद्यालयानुदानायोगस्य निर्देशने छात्राणां सरलावगमनाय कक्षादिकं सञ्चालयति। तेन सह प्राच्यभारतीयगुरुकुलपद्धत्या न्यायादिमूलपारम्परिकशास्त्रशिक्षणे अवसरं प्रकल्पयति।

पाठशालापोषणम्- विश्वविद्यालयः मध्यप्रदेशान्तरगतसमस्तस्वसम्बद्धपाठशालासु  पाठ्यक्रमादीनां निर्धारणं कृत्वा  कालानुगुणं निर्देशनप्रदानेन तेषां पोषणं करोति।

परम्परागतप्राच्याधिगमप्रणाल्याः सम्पोषणम्-

  विश्वविद्यालये वाक्यार्थसभा, शास्त्रार्थसभा, शास्त्रपरीक्षा, शास्त्रस्पर्धा, संस्कृतकविसमवायः, इत्यादयः रचनात्मककौशलवर्धकाः, अनुसन्धाने च प्रेरणादायकाश्च कार्यक्रमाः विश्वविद्यालयद्वारा समायोज्यन्ते। अनेन आयोजनेन प्राच्यपरम्परागताधिगमप्रणाल्यादीनां पोषणं तथा शास्त्रार्थपीठादीनां प्रतिष्ठायाः संरक्षणं संवर्धनञ्च भवति।

    विश्वविद्यालये प्रतिवर्षं आयोजिते युवमहोत्सवे वाक्यार्थविषयमाश्रित्य एका विशिष्टा प्रतियोगिता आयोज्यते। तत्र विषयानुगुणं  पृथक् पृथक् विषयमाश्रित्य वाक्यार्थप्रस्तुतिः जायते। व्याकरणे, न्यायदर्शने, वेदान्तदर्शने, साहित्यशास्त्रे च छात्राः विशेषरूपेण वाक्यार्थं प्रस्तुवन्ति। श्रेष्ठप्रदर्शनाय छात्राः स्वर्णपदकेन पुरस्क्रियन्ते।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Link for additional Information अतिरिक्तसूचनानां कृते सन्धानम् View Document

2.4.1 Average percentage of full time teachers against sanctioned posts during the last five yearsअनुमोदितानि पदानि लक्ष्यीकृत्य गतेषु पञ्चसु वर्षेषु नियुक्तानाम् अध्यापकानां मध्यमानस्य प्रतिशतता।

Answer: 68.67

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.2 Average percentage of full time teachers with Ph.D. during the last five yearsगतेषु पञ्चसु वर्षेषु, विद्यावारिधिः (पीएच.डी) इत्युपाधिमतां पूर्णकालिकाध्यापकानां मध्यमानस्य प्रतिशतता।

Answer: 74.19

2.4.2.1 Number of full time teachers with Ph.D. year-wise during the last five yearsविगतपञ्चवर्षेषु, विद्यावारिधिः (पीएच्.डी) इत्युपाधिमतां पूर्णकालिकाध्यापकानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
21 15 13 14 13

 

File DescriptionDocument
List of number of full time teachers with PhD and number of full time teachers for 5 years (Data Template) गतेषु पञ्चसु वर्षेषु विद्यावारिधिमतां पूर्णकालिकाध्यापकानां तथा पूर्णकालिकाध्यापकानाञ्च सूची View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.3 Average teaching experience of full time teachers in number of yearsपूर्णकालिकाध्यापकानाम् अध्यापनानुभवस्य वर्षप्रमाणेन मध्यमानम्

Answer: 4.79

2.4.3.1 Total experience of full-time teachersपूर्णकालिकाध्यापकानां सम्पूर्णः अध्यापनानुभवः

Answer: 134

File DescriptionDocument
List of Teachers including their PAN, designation, dept and experience details (Data Template) आयकरसङ्ख्या-पदवी-विभाग-अनुभवानां विवरणसहिता अध्यापकसूची View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.4 Average percentage of full time teachers who received awards, recognition, fellowships at State, National, International level from Government recognised bodies during the last five yearsविगतपञ्चवर्षेषु राज्य-राष्ट्र-अन्ताराष्ट्रस्तरेषु, सर्वकार-सर्वकाराभिज्ञातनिकायैः पुरस्कारं प्राप्तवतां पूर्णकालिकाध्यापकानां मध्यमानस्य प्रतिशतता।

Answer: 18.81

2.4.4.1 Number of full time teachers receiving awards from state/ national/ international level from Government recognised bodies year-wise during the last five yearsविगतपञ्चवर्षेषु राज्य-राष्ट्र-अन्ताराष्ट्रस्तरेषु, सर्वकार-सर्वकाराभिज्ञातनिकायैः पुरस्कारं प्राप्तवतां पूर्णकालिकाध्यापकानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
05 04 09 0 01

 

File DescriptionDocument
Institutional data: as per Data Template सांस्थानिकदत्तांशः देयः (दत्तांशप्रारूपम्) View Document
e-copies of award letters (scanned or soft copy) पुरस्कारसम्बद्धानां पत्राणां वैद्युतप्रतिलिपयः View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.5 Average percentage of full time teachers from other States against sanctioned posts during the last five yearsविगतपञ्चवर्षेषु अनुमोदितेषु पदेषु अन्यराज्येभ्यः नियुक्तानां पूर्णकालिकाध्यापकानां मध्यमानस्य प्रतिशतता।

Answer: 29.33

2.4.5.1 Number of full time teachers from other states year-wise during the last five years -विगतपञ्चवर्षेषु अन्यराज्येभ्यः नियुक्तानां पूर्णकालिकाध्यापकानां वार्षिकसङ्ख्या -

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
14 10 07 06 07

 

File DescriptionDocument
List of full time teachers from other state and state from which qualifying degree was obtained (Data Template) अन्यराज्येभ्यः नियुक्तानां पूर्णकालिकाध्यापकानां सूची। राज्यस्य नामसहिता यतः तैः प्रमाणपत्रं प्राप्तम्। (दत्तांशप्रारूपम्) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.6 University has devised a mechanism to enable the young faculty to learn shastras under learned Gurus. Specify the names of Gurus from whom the teachers/ faculty members have studied Shastras/ Veda Shakhas.विश्वविद्यालयः युवाध्यापकान् वरिष्ठविदुषां सन्निधौ शास्त्राध्ययनाय प्रोत्साहयति। गुरूणां नामानि सूचयन्तु येभ्यः अध्यापकाः शास्त्राणां वेदशाखानां वा पारम्परिकम् अध्ययनमकुर्वन्।

Answer:

युवाध्यापकान् शास्त्राध्ययनाय प्रोत्साहनम्-

शास्त्राणां वेदशाखानां च अध्ययनम्, अध्यापनम्, अनुसन्धानम्, प्रसारः इत्यादिभिः क्रियाभिः भारतीयज्ञानशाखानां सामाजिकोपयोगः सिद्ध्यति। संस्कृतवाङ्मयस्य नयनेन समाजेन सह संस्कृतवाङ्मयस्य सम्बन्धः दृढो भवति। तेन समाजे शान्तिः, सौहार्दम, स्वास्थ्यम्, धर्मश्च सन्तिष्ठते। एतदुद्देश्येन महर्षिपाणिनिसंस्कृवैदिकविश्वविद्यालयः नैकान् विधीन् अनुसरति। विश्वविद्यालये विविधसङ्कायेषु कार्यरताः अध्यापकाश्च विशिष्टाः विद्वांसः वर्तन्ते। गुरूणां सन्निधौ अधीतशास्त्राः वरिष्ठाः युवानश्च अध्यापकाः वर्तन्ते। विश्वविद्यालये कार्यरताः युवानः अध्यापकाः वरिष्ठानां विदुषां सन्निधौ शास्त्राध्ययनम् अन्ववर्तयन्/ अनुवर्तयन्ति।  युवाध्यापकाः वरिष्ठेभ्यः आचार्येभ्यः शास्त्राणामध्यययनमकार्षुः।

विश्वविद्यालयस्याध्यापकाः येषां सन्निधौ अध्ययनमकार्षुः तेषां नामानि-

क्र.

अध्यापकस्य नाम

गुरोः/ मार्गनिर्देशकस्य नाम

शास्त्रं/शास्त्राणि

01

डॉ. अखिलेशकुमारद्विवेदी

प्रो. राममनोहरमिश्रः

व्याकरणम्

02

डॉ. उपेन्द्रभार्गवः

प्रो. हंसधरझा

सिद्धान्तज्योतिषम्

03

डॉ. सङ्कल्पमिश्रः

प्रो. सुदेशकुमारशर्मा

वेदः

04

डॉ.पूजाउपाध्यायः

1. प्रो. विद्याप्रसादमिश्रः

2. श्री देवदत्तपाटिलः

भारतीयदर्शनम्

05

डॉ. शुभम्-शर्मा

प्रो. केदारनारायणजोशी

ज्योतिषम् (ज्योतिर्विज्ञानम्)

06

श्री  अमितशर्मा

प्रो. ब्रजभूषणओझा

नव्यव्याकरणम्

07

डॉ. धर्मेन्द्रशर्मा

प्रो. नीलाभतिवारी

शिक्षाशास्त्रम्

08

डॉ. विजयकुमारः

1. डॉ.अशोकथपलियालः

2. डॉ.पी.वी.बी. सुब्रह्मण्यम

वास्तुशास्त्रम्

ज्योतिषम्

09

श्री मुदितकुमारपाण्डेयः

प्रो. नीलाभतिवारी

शिक्षाशास्त्रम्

10

डॉ. अङ्कितशाण्डिल्यः

प्रो. मिथिलाप्रसादत्रिपाठी

वेदः, साहित्यम्

11

डॉ. विनोदकुमारपाण्डेयः

प्रो. गिरजाशङ्करशास्त्री

ज्योतिषम्

12

डॉ. रामकुमारी

प्रो. ललितपटेलः

साहित्यम्

13

डॉ. योगेशकुमारशर्मा

प्रो. वासुदेवशर्मा/ डॉ. अशोकथपलियालः

ज्योतिषम्

14

डॉ. अखिलेशकुमारपाण्डेयः

प्रो. प्रभादेवीचौधरी

शिक्षाशास्त्रम्

15

डॉ. शैलेन्द्रपाण्डेयः

प्रो. जे.भानुमूर्ति:

शिक्षाशास्त्रम्

16

डॉ. दिनेशचौबे

प्रो. आजादमिश्रः

व्याकरणम्

17

डॉ. कृष्णकुमारत्रिपाठी

डॉ. शान्तिलालसालवी

साहित्यम्

18

डॉ. अविनाशमिश्रः

प्रो. विनयकुमारपाण्डेयः

ज्योतिषम्

19

डॉ. गङ्गाशरणः

डॉ. कृपाशङ्करशर्मा

साहित्यम्

20

श्रीशिवानन्दमिश्रः

डॉ. मनोजमिश्रः

साहित्यम्

21

श्री आयुषदीक्षितः

प्रो. सनन्दनकुमारत्रिपाठी

साहित्यम्

22

डॉ. पतञ्जलिकुमारपाण्डेयः

डॉ. वाल्मीकिप्रसादमिश्रः

वेदः

23

डॉ. मुनीशमिश्रः

प्रो. राजारामशुक्लः

न्यायः

24

डॉ. श्रेयसकोरान्ने

डॉ. राजेश्वरशास्त्रीमुसलगाँवकरः

साहित्यम्

 

File DescriptionDocument
Upload any additional information अतिरिक्तसूचनानां कृते सन्धानम् View Document
Link for additional Information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document

 

2.4.7 Qualified faculty are available for new programmes/ emerging areas of study (computational linguistics, Computational Sanskrit, Translation Studies, Comparative Philosophy, Comparative Aesthetics, Yogic Science, Yoga Darshan, Samskrit Journalism, Sanskrit manuscriptology, Management, Jurisprudence, Cultural tourism, Temple Culture and Administration, Vastushastra, Medicinal Astrology etc.)नूतनपाठ्यक्रमाणाम् उदयमान-क्षेत्राणां (सङ्गणकीय-भाषाशास्त्रं, सङ्गणकीय-संस्कृतम्, अनुवादाध्ययनं, तुलनात्मकदर्शनं, तुलनात्मकं सौन्दर्यशास्त्रं, योगविज्ञानम्, योगदर्शनं, संस्कृतपत्रकारिता, संस्कृतमातृकाशास्त्रम्, प्रबन्धनशास्त्रं, विधिशास्त्रं, सांस्कृतिकयात्रिकं, देवालयसंस्कृतिः प्रशासनं च, भैषज्यज्योतिषं, वास्तुशास्त्रम् इत्यादीनाम्) अध्यापनाय योग्यतावन्तः अध्यापकाः उपलभ्यन्ते।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये मूल्याङ्कनकाले नूतनकार्यक्रमेषु/उदीयमानक्षेत्रेषु अध्यापनार्थं योग्याः शिक्षकाः उपलभ्यन्ते । विषयक्षेत्राधारितसूची यथा-

क्र.

अध्यापकस्य नाम

उदीयमानक्षेत्रस्य नाम

1.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

परियोजना

2. 

डॉ. तुलसीदासपरौहा

डॉ. अखिलेशकुमारद्विवेदी

परामर्शः

3.

डॉ. तुलसीदासपरौहा

डॉ. सङ्कल्पमिश्रः

डॉ. अखिलेशकुमारद्विवेदी

डॉ. दिनेशचौबे

 प्रशिक्षणानुभवः

4.

डॉ. तुलसीदासपरौहा

डॉ. सङ्कल्पमिश्रः

डॉ. शुभम्-शर्मा

धर्मशास्त्रम्

5.

डॉ.  शुभम्-शर्मा

डॉ.  विजयकुमारः

डॉ. विनोदकुमारपाण्डेयः

सांस्कृतिकपर्यटनम्

6.

डॉ. सङ्कल्पमिश्रः

डॉ. उपेन्द्रभार्गवः

डॉ. विनोदकुमारपाण्डेयः

डॉ. धर्मेन्द्रशर्मा

डॉ. विजयकुमारः

सङ्गणकीयसंस्कृतम्

7.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्याय:

डॉ. अखिलेशकुमारद्विवेदी

डॉ. विजयबहादुरत्रिपाठी

डॉ. रामकुमारी

डॉ. धर्मेन्द्रशर्मा

श्रीअमितशर्मा

अनुवादाध्ययनम्

8.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. अखिलेशकुमारद्विवेदी

डॉ. सन्दीपशर्मा

तौलनिकदर्शनम्

9.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. विजयबहादुरत्रिपाठी

तौलनिकसौन्दर्यशास्त्रम्

10.

डॉ. पूजाउपाध्यायः

डॉ. भानुप्रतापबुन्देला

श्री शुभमगेहलोतः

डॉ. वरुणआहूजा

सुश्रीईशापाटीदारः

योगविज्ञानम्

11.

डॉ. पूजाउपाध्यायः

डॉ. भानुप्रतापबुन्देला

योगदर्शनम्

12.

डॉ. तुलसीदासपरौहा

डॉ. उपेन्द्रभार्गवः

डॉ. विजयकुमारः

डॉ. दिनेशचौबे

संस्कृतपत्रकारिता

13.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. सङ्कल्पमिश्रः

डॉ. शुभम्-शर्मा

संस्कृतमातृकाशास्त्रम्

14.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. सङ्कल्पमिश्रः

डॉ. शुभम्-शर्मा

प्रबन्धनशास्त्रम्

15.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. उपेन्द्रभार्गवः

विधिशास्त्रम्

16.

डॉ. शुभम्-शर्मा

डॉ. सङ्कल्पमिश्रः

डॉ. विजयकुमारः

डॉ. अङ्कितशाण्डिल्यः

देवालयसंस्कृतिः एवं प्रशासनम्

17.

डॉ. शुभम्-शर्मा

डॉ. विनोदकुमारपाण्डेयः

 डॉ. विजयकुमारः,

डॉ. मनीषशर्मा,

डॉ. योगेशशर्मा

भैषज्यज्योतिषम्

18.

डॉ. शुभम्-शर्मा,

डॉ. उपेन्द्रभार्गवः

डॉ. विनोदकुमारपाण्डेयः

डॉ. विजयकुमारः

डॉ. मनीषशर्मा,

डॉ. योगेशशर्मा

वास्तुशास्त्रम्

उपर्युक्ताः शिक्षकाः सम्बन्धितविषयेषु प्रशिक्षणं, पारम्परिकज्ञानं, प्रयोगात्मकं सर्वेक्षणं, अन्तरविषयशिक्षणम् इत्यादीनां माध्यमेन समये समये एतेषु विषयेषु स्वज्ञानम् अद्यतनं कुर्वन्ति।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Link for additional Information अतिरिक्तसूचनानां कृते सन्धानम् View Document

 

2.4.8 Specify the names of Shastra-Chudamani/ Emeritus/ Adjunct Faculty/ Fellows/ Visiting Professors/ Post Doctoral Fellows on the rolls of the University.विश्वविद्यालयेन सह सम्बद्धानां शास्त्रचूडामणिविदुषां, राष्ट्रस्तरीयाचार्याणाम्, अतिथ्याचार्याणां, संयोजिताचार्याणां, प्रतिष्ठिताचार्याणां, विद्यावारिध्युत्तरशोधरतानां विदुषां च नामानि सूचयन्तु।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः शास्त्रार्थचूडामणिपण्डितानां राष्ट्रस्तरीयविदुषाम्, अतिथ्याचार्यादीनां कार्यशालासङ्गोष्ठीसम्मेलनादिद्वारा लाभमाप्नोति।

विगतेषु पञ्चवर्षेषु महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये नैकाः शास्त्रार्थचूडामणिपण्डितानां राष्ट्रस्तरीयाचार्याणाम्, आतिथ्याचार्याणां पथप्रदर्शनमभूत्। तेषां केषाञ्चित् पण्डितानां नामानि अत्र प्रस्तूयन्ते-

क्र.

नाम

पदनाम

संस्थानाम

01

 बालकृष्णशर्मा

 पूर्वकुलपतिः

विक्रमविश्वविद्यालयः उज्जयिनी म.प्र.

02

डॉ. निरञ्जनमिश्रः

विभागाध्यक्षः साहित्यविभागः

भगवानदासआदर्शसंस्कृतमहाविद्यालयः हरिद्वारम्, उ.ख.

03

प्रो. रमाकान्तपाण्डेयः

निदेशकः

केन्द्रीयसंस्कृतविश्वविद्यालयः भोपालपरिसरः

04

प्रो. ललितपटेलः

पूर्वकुलपतिः

श्रीसोमनाथसंस्कृतविश्वविद्यालयः वेरावलम् गुज.

05

डॉ. ब्रजभूषणओझा

सहाचार्यः, व्याकरणविभागः

काशीहिन्दूविश्वविद्यालयः वाराणसी उ.प्र.

06

डॉ. प्रदीपपाण्डेयः

सहाचार्यः  व्याकरणविभागः

केन्द्रीयसंस्कृतविश्वविद्यालयः भोपालपरिसरः म.प्र.

07

प्रो. रामसलाहीद्विवेदी

व्याकरणविभागाध्यक्षः

लालबहादुरशास्त्रीकेन्द्रीयसंस्कृतविश्वविद्यालयः नवदेहली

08

प्रो. मिथिलाप्रसादत्रिपाठी

पूर्वकुलपतिः

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयःउज्जयिनी म.प्र.

09

प्रो. विरूपाक्षजड्डीपालः

सचिवः

महर्षिसान्दीपनिवेदविद्याप्रतिष्ठानम्, उज्जयिनी म.प्र.

10

प्रो. मनोजमिश्रः

विगाध्यक्षः वेदविभागः

केन्द्रीयसंस्कृतविश्वविद्यालयः रणवीरपरिसरः जम्बू.

11

प्रो. हरेकृष्णशतपथी

कुलपतिः

कलिंगइन्स्टीट्यूटऑफसोशलसाइंसभुवनेश्वरम्, उडीसा

12

प्रो. हरेरामत्रिपाठी

कुलपतिः

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः रामटेकनागपुरम्

13

प्रो. विनयकुमारपाण्डेयः

ज्योतिषविभागाध्यक्षः

काशीहिन्दूविश्वविद्यालयः वाराणसी उ.प्र.

14

प्रो. राजारामशुक्लः

कुलपतिः

सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी

15

श्रीचमूकृष्णशास्त्री

सहसंस्थापकः

संस्कृतभारती

16

प्रो. पी. एन. शास्त्री

पूर्वकुलपतिः

राष्ट्रियसंस्कृतसंस्थानम्, नईदिल्ली

17

प्रो. गोपबन्धुमिश्रः

कुलपतिः

श्रीसोमनाथसंस्कृतविश्वविद्यालयः, गुज.

18

प्रो.भगवतशरणशुक्लः

विभागाध्यक्षः, व्याकरणविभागः

काशीहिन्दूविश्वविद्यालयः, वाराणसी उ.प्र.

19

डॉ. देवदत्तपाटिलः

संस्थापकः

श्रीविद्यापाठशालाः, गोवा

20

प्रो. रामकुमारशर्मा

आचार्यः, साहित्यम्

केन्द्रीयसंस्कृतविश्वविद्यालयः, जयपुरपरिसरः, जयपुरम्

21

प्रो. विष्णुपदमहापात्रः

आचार्यः, न्यायदर्शनम्

श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नईदिल्ली

22

प्रो. रामकिशोरत्रिपाठी

आचार्यः, वेदान्तदर्शनम्

सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी

23

प्रो. हंसधरझा

आचार्यः, सिद्धान्तज्योतिषम्

केन्द्रीयसंस्कृतविश्वविद्यालयः भोपालपरिसरः भोपालम्

24

प्रो. परागजोशी

आचार्यः, साहित्यम्

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः रामटेक, नागपुरम्

25

प्रो. उमावैद्यः

पूर्वकुलगुरुः

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः रामटेक, नागपुरम्

 

File DescriptionDocument
Upload any additional information अतिरिक्तसूचनानां कृते सन्धानम् View Document
Link for additional Information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document

 

2.4.9 Specify the systems adopted to recharge academically and rejuvenate teachers (e.g. learning with traditional Gurus, providing research grants, study leave, nomination to national/ international conferences/ seminars, in-service training, organizing national/ international conferences, vakyartha-Sadhas, Shastrtha-Sabha, Shastra-Pareeksha, Shastra-spardha/ Samskrita-Kavi-Samavaya (Sanskrit Poets’ Meet) etc.)अध्यापकान् शैक्षिकरूपेण पुनर्नवीकर्तुम् अभिगृहीताः व्यवस्थाः सूचयतु- यथा- पारम्परिकगुरूणां सविधे अध्ययनम्, अनुसन्धानानुदानप्रदानम्, अध्ययनावकाशप्रदानम्, राष्ट्रिय/ अन्ताराष्ट्रियसम्मेलने नामनिर्देशनम्/ सेवारतप्रशिक्षणं, राष्ट्रिय/ अन्ताराष्ट्रियसम्मेलनस्य आयोजनं, वाक्यार्थसभाः, शास्त्रार्थसभाः, शास्त्रपरीक्षाः, शास्त्रस्पर्धाः, संस्कृतकवि-समवायः इत्यादयः।

Answer:

विश्वविद्यालयः शिक्षकाणां गुणवत्तां वर्धयितुं तेषां ज्ञानस्य अभिमुखीकरणाय च निरन्तरं प्रयत्नं करोति। अस्मिन् राष्ट्रियान्तर्राष्ट्रियशोधसङ्गोष्ठी, सम्मेलनं, काव्यगोष्ठी, वादविमर्शः, इत्यादिषु सहभागितायै नियमानुसारेण शैक्षणिककर्तव्यावकाशः प्रदीयते। अपि च तेषां शैक्षिकनवीनीकरणं दृष्ट्या प्रतिवर्षं बहवः कार्यक्रमाः आयोज्यन्ते। एतेषु शिक्षकप्रशिक्षणकार्यक्रमाः, राष्ट्रिय/अन्तर्राष्ट्रीयशोधगोष्ठी/सम्मेलनं/सङ्गोष्ठी/कार्यशाला, शास्त्रार्थसभा, संस्कृतकविसमवायः इत्यादयः प्रमुखाः कार्यक्रमाः सन्ति। 

अध्यापकानां शैक्षणिकरूपेण पुनर्नवीकरणम्-

विश्वविद्यालयः शिक्षकान् वरिष्ठशिक्षकाणां सन्निधौ अधिगमायापि प्रोत्साहयति। संस्कृतस्य आचार्यः केदारनाथशुक्लः, ज्योतिषक्षेत्रे वरिष्ठपञ्चाङ्गकारः आचार्यः आनन्दशङ्करव्यासः, वास्तुकला एवं इतिहासक्षेत्रे वरिष्ठपुरातत्त्ववित्, पद्मश्री आचार्यः भगवतीलालराजपुरोहितः, साहित्यशास्त्रक्षेत्रे च आचार्यः केदारनारायणजोशी, आचार्यः बालकृष्णशर्मा, आचार्या अजितात्रिवेदी, आचार्यः सूर्यप्रकाशव्यासः सदृशाः विभूतयः  उज्जयिन्यां निवसन्ति। आचार्यजनाः तेभ्यः सततं प्रत्यक्षतया सम्पर्कं कृत्वा तेभ्यः तत्तद्विषयाणां गूढज्ञानं प्राप्नुवन्ति।

पारम्परिकगुरूणां सविधेः अध्ययनम्-

स्वावकाशदिवसेषु प्राध्यापकाः भारतस्य अन्यवरिष्ठविदुषां निकटं गत्वा तेभ्यः प्रत्यक्षतया अधिगमं कुर्वन्ति।  उदाहरणाय विश्वविद्यालस्य प्राध्यापिका डॉ. पूजाउपाध्यायः स्वसन्ततिपालनावकाशस्यावधौ विश्वप्रसिद्धनैयायिकस्य आचार्यदेवदत्तपाटिलमहोदयस्य समीपमुषित्वा न्यायशास्त्रस्याध्ययनमकार्षीत्। इतोऽपि इतरे विश्वविद्यालयस्य आचार्याः अपि आधुनिकदूरसञ्चारयुक्तिभिः तथा अन्तर्जालादिमाध्यमैः दूरस्थेभ्यः आचार्येभ्यः मार्गदर्शनं प्राप्नुवन्ति। 

राष्ट्रियान्ताराष्ट्रियायोजनानि-

2019-20 तमे वर्षे अखिलभारतीयशास्त्रार्थसभायाः  आयोजनं बृहद्रूपेण जातम् । 2021-22 तमे वर्षे राष्ट्रियशिक्षानीतौ भाषाणां क्रियान्वयनविषये राष्ट्रियसंगोष्ठ्याः आयोजनमभवत्। अस्मिन् वर्षद्वये कोविड इत्यस्य प्रथमद्वितीयचरणकारणात् यदा सर्वकारीयदिशानिर्देशेन ​​ भौतिकरूपेण कार्यक्रमस्य आयोजनं कर्तुं न शक्यते । तदा संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसंवर्धनकेन्द्रद्वारा विविधविभागैश्च आनलाईनकार्यक्रमाः आयोजिताः अभूवन्। 2021-22 तमे वर्षे विविधाः शोधगोष्ठी/संगोष्ठी/व्याख्यानानि/प्रशिक्षणादिकार्यक्रमाः आयोजिताः अभवन्। येषु अन्यसंस्थाभिः अपि सम्बन्धः योजितः आसीत्।

  • एतेषां गतविधीनां समन्वये विश्वविद्यालयस्य प्राध्यापकानां महती भूमिका आसीत् । विशेषव्याख्यानेषु आचार्यसहिताः सर्वे श्रोतारः संस्कृते विज्ञानं, मृगपक्षिविज्ञानं, नाट्य-अनुभवं, यन्त्र-मण्डल-चक्रादिविषयेषु नवीनं ज्ञानं प्राप्तवन्तः।
  • 2022-23 सत्रे शिक्षाशास्त्रविभागेन गुरुपूर्णिमायां राष्ट्रियशोधसङ्गोष्ठी आयोजिता तथा महाराजाविक्रमादित्यशोधपीठेन सह ज्योतिषज्योतिषविभागेन वास्तुशास्त्रनगरनियोजनविषये तथा राजाभोजविषये अन्तार्राष्ट्रीयशोधसङ्गोष्ठी आयोजिता। अस्मिन् कालखण्डे योगविभागेन, दर्शनविभागेन च विशेषानुष्ठानानि अपि आयोजितानि ।
  • विश्वविद्यालयेन 13/01/2020 तमे दिनाङ्के मध्यप्रदेशराजभवने शास्त्रार्थसभा समायोजिता, यस्यां देशस्य मूर्धन्यविद्व्भिः सह  विश्वविद्यालयस्य आचार्याः अपि सहभागितामकार्षुः। वरिष्ठविदुषां तर्कान् श्रुत्वा सर्वेषां ज्ञाने वृद्धिः परिष्कारश्च जातः।
  • विश्वविद्यालयः निरन्तरं शास्त्रीयसामाजिकसांस्कृतिकविषयेषु  राष्ट्रीय-अन्तर्राष्ट्रीय-शोधसङ्गोष्ठीसम्मेलनं परिसंवादः कार्यशाला चेद्यादीनां  आयोजनं करोति। प्रमुखेषु आयोजनेषु सत्रे 2018-19 साहित्यविभाग द्वारा, वेद-एवं-व्याकरणविभागद्वारा 2018-19 सत्रे विषये वेदाङ्गशिक्षाशास्त्रालोके उच्चारणविज्ञानम्, एवमेव अन्यैः विभागैः अपि एतादृशायोजनं कृतम्। यथा- ज्योतिष-एवं-ज्योतिर्विज्ञानद्वारा देवालयवास्तोः विविधायामविषये आयोजिताः राष्ट्रीयशोधसङ्गोष्ठ्याः, विशिष्टसंस्कृतविभागद्वारा छन्दशास्त्रविमर्शः इति विषये कार्यशालाः इत्यादयः कार्यक्रमाः विशेषरूपण आयोजिताः।

संस्कृतकविसमवायः-

विश्वविद्यालयः अनेकवर्षैः अखिलभारतीयकालिदाससमारोहे संस्कृतकविसमवायस्य सहायोजकोऽस्ति। यत्र डॉ. तुलसीदासपरौहामहोदयस्य सञ्चालने विश्वविद्यालयस्य अन्याः आचार्याः अपि स्वकाव्यप्रतिभायाः प्रदर्शनं कुर्वन्ति। तथा वरिष्ठकवीनां काव्यपाठं श्रुत्वा  तेभ्यः संवादं कृत्वा काव्यसृजनस्य सूक्ष्मयुक्तीनां ज्ञानं प्राप्नुवन्ति। विश्वविद्यालयद्वारा संस्कृतशिक्षकप्रशिक्षणकार्यक्रमाणामपि आयोजनं जातम्।  

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Link for additional Information अतिरिक्तसूचनानां कृते सन्धानम् View Document

 

2.4.10 Specify the names of faculty imparting indepth shastra knowledge/ Avadhana/ shastrartha to the students and encouraging them to take various shastra exams conducted by different organisations in addition to regular teaching.नित्याध्यापनातिरिक्तत्वेन च्छात्राणां कृते विविधसंस्थाभिः सञ्चालितासु शास्त्रार्थपरीक्षासु स्पर्धासु च भागं ग्रहीतुं शास्त्रार्थेषु अवधानकलायां विशेषप्रशिक्षणं प्रददताम् अध्यापकानां विषये विवरणं प्रयच्छत।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयद्वारा आयोजितेषु  नित्याध्यापनातिरिक्तेषु नैकेषु कार्यक्रमेषु स्पर्धासु च अत्रत्याः  शिक्षकाः छात्रान् सततं प्रोत्साहयन्ति।  तेषां नामानि यथा-

  1. डॉ. तुलसीदासपरौहा-                                साहित्यम्
  2. डॉ. अखिलेशकुमारद्विवेदी-                         व्याकरणम्
  3. डॉ. उपेन्द्रभार्गवः-                                     ज्योतिषम्
  4. डॉ. सङ्कल्पमिश्रः-                                  वेद:
  5. डॉ.पूजाउपाध्यायः-                                   साहित्यम् दर्शनं च
  6. डॉ. शुभम्-शर्मा-                                       ज्योतिर्विज्ञानम्
  7. डॉ. सन्दीपशर्मा-                                       न्यायशास्त्रम्
  8. डॉ. विजयकुमारः-                                    ज्योतिषम्
  9. डॉ. अङ्कितशाण्डिल्यः-                           वेद:
  10. डॉ. रामकुमारी-                                        साहित्यम्
  11. डॉ. दिनेशचौबे -                                      व्याकरणम्
  12. डॉ. कृष्णकुमारत्रिपाठी-                              साहित्यम्
  13. डॉ. अविनाशमिश्रः-                                  ज्योतिषम्
  14. डॉ. गङ्गाशरणः-                                     साहित्यम्
  15. श्रीअनुरुद्धकुमारत्रिपाठी-                            व्याकरणम्

    साधारणाध्यापनेन सह अत्रत्याः प्राध्यापकाः छात्रान् प्रोत्साहयितुं शास्त्रकलास्पर्धां, शास्त्रार्थसभां, श्लोकन्त्याक्षरीस्पर्धां, अष्टाध्यायीसूत्रान्ताक्षरीस्पर्धां, च नियमेन परिचालयन्ति। शिक्षकाः संस्कृतशास्त्रस्पर्धाभ्यः छात्रान् सज्जीकर्तुं सततं प्रयासं कुर्वन्ति। विश्वविद्यालयः शास्त्रकण्ठपाठे शास्त्रभाषणे, शास्त्रशलाकायां, वाक्यार्थादिषु भागं ग्रहीतुं छात्रान् सर्वदा प्रेरयन्ति।अखिलभारतीयस्तरे विश्वविद्यालयः संस्कृतनाटकगानपरिप्रच्छान्ताक्षर्यादिविविधस्पर्धासु प्रतिवत्सरं भागमग्रहीत्। विद्यार्थिनः अन्यसंस्कृतविश्वविद्यालयद्वारा सञ्चालितसंस्कृतवर्गे ग्रीष्मावकाशकाले संस्कृतप्रशिक्षुतायां, शास्त्रप्रशिक्षणे भागमगृह्णन्। साधारणाऽध्यापनातिरेकेण विश्वविद्यालयः छात्रेभ्यः शास्त्रपरीक्षाः  अवधानसंस्कृतवर्गसंस्कृतप्रशिक्षणसंस्कृताभ्यासशालादिविविधाभ्यासकार्यक्रमान्, स्पर्धाः च आयोजयति।

यूजीसी नेट/जेआरएफ/स्लेट प्रशिक्षणशिबिरे प्राध्यापकानां योगदानम्-

    महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य प्लेस्मेन्टसेल  इत्यनेन यूजीसी नेट/ जेआरएफ/ स्लेट/ सेट प्रशिक्षणकेन्द्रस्य आयोजनम् 2018-19 तः अद्यावधिपर्यन्तं प्रचलति। यत्र सर्वेऽपि अत्रत्याः प्राध्यापकाः नित्याध्यापनातिरिक्तसमये अध्यापकत्वेन सहयोगं कुर्वन्ति। अत्र येषां प्राध्यापकानां योगदानमासीत् तेषां नामानि- डॉ. मुदितपाण्डेयः, डॉ. पूजाउपाध्यायः, डॉ. अखिलेशकुमारद्विवेदी, डॉ. विनोदकुमारपाण्डेयः, डॉ. विजयकुमारः, डॉ. रामकुमारी, डॉ. पतञ्जलिकुमारपाण्डेयः, डॉ. गङ्गाशरणः, श्रीअनुरुद्धत्रिपाठी, श्रीशिवानन्दमिश्रः, श्रीप्रवीणजोशी इत्यादयः अध्यापकाः समर्पिताः आसन्।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Link for additional Information अतिरिक्तसूचनानां कृते सन्धानम् View Document

2.5.1 Average number of days from the date of last semester-end/ year-end examination till the declaration of results during the last five yearsविगतपञ्चवर्षेषु, षाण्मासिक्याः वार्षिक्याः च परीक्षायाः अन्तिमदिनाङ्कात् परीक्षापरिणामघोषणादिनाङ्कं यावत् दिनानां सङ्ख्यायाः मध्यमानम् -

Answer: 21.8

2.5.1.1 Number of days from the date of last semester-end/ year-end examination till the declaration of results year-wise during the last five years.विगतपञ्चवर्षेषु, षाण्मासिक्याः वार्षिक्याः च परीक्षायाः अन्तिमदिनाङ्कात् परीक्षापरिणामघोषणादिनाङ्कं यावत् दिनानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
25 16 25 11 32

 

File DescriptionDocument
List of Programmes and date of last semester and date of declaration of results (Data Template) पाठ्यक्रमसूची, अन्तिमषाण्मासिक्याः दिनाङ्कः, परीक्षापरिणामघोषणदिनाङ्कश्च (दत्तांशप्रारूपम्) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.5.2 Average percentage of student complaints/ grievances about evaluation against total number appeared in the examinations during the last five years.विगतपञ्चवर्षेषु, परीक्षासु सम्मिलितेषु छात्रेषु मूल्याङ्कनविषये अभियाच्ञाम्/ अभियोगं वा कृतवतां छात्राणां मध्यमानस्य प्रतिशतता।

Answer: 0.36

2.5.2.1 Number of complaints/ grievances about evaluation year-wise during the last five years.विगतपञ्चवर्षेषु, परीक्षासु सम्मिलितेषु छात्रेषु मूल्याङ्कनविषये अभियाच्ञाम्/ अभियोगं वा कृतवतां छात्राणां वार्षिकी सङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
4 0 0 0 2

 

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.5.3 Average percentage of applications for revaluation leading to change in marksपुनर्मूल्याङ्कनाय प्राप्तानाम् आवेदनानां प्रतिशतं मध्यमानस्य मानं, यत्र अङ्कानां परिवर्तनं जातम्।

Answer: 5

2.5.3.1 Number of applications for revaluation leading to change in marks year-wise during the last five yearsविगतपञ्चवर्षेषु पुनर्मूल्याङ्कनाय प्राप्तानाम् आवेदनानां वार्षिकी सङ्ख्या, यत्र अङ्कानां परिवर्तनं जातम्।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
01 00 00 00 00

 

2.5.3.2 Number of revaluation applications year-wise during the last five years.विगतपञ्चवर्षेषु पुनर्मूल्याङ्कनाय प्राप्तानाम् आवेदनानां वार्षिकी सङ्ख्या

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
04 00 00 00 02

 

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.5.4 Positive impact of reforms on the examination procedures and processes including IT integration and continuous internal assessment on the examination management system.परीक्षाप्रबन्धनप्रणाल्याः परीक्षापद्धतेः सूचनाप्रविधेश्च निरन्तरम् आन्तरिकपरीक्षणस्य च अनुकूलः प्रभावः अनुभूयते।

Answer:

पाठ्यक्रमाणाम् अङ्गं भवति परीक्षापद्धतिः। महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य परीक्षापद्धतिः, तन्त्रज्ञानसम्पत्तेः सहकारेण सूचनाप्रविधिसंयोजनेन परीक्षासम्बन्धिकार्याणि निर्वहति। परीक्षापद्धतिः, आन्तरिकपरीक्षाप्रणाली, आन्तरिकमूल्याङ्कनं यथाकालं समन्वयति।

विश्वविद्यालयद्वारा शास्त्री, बी.ए. आनर्स, बी.ए. योगः, शास्त्रिशिक्षाशास्त्री (BA.Bed), इत्येते स्नातकपाठ्यक्रमाः राष्ट्रियशिक्षानीतिदिशा सज्जीकृताः चतुर्वार्षिकाः पाठ्यक्रमाः सन्ति। एतेषां पाठ्यक्रमाणां परीक्षापद्धतिः वार्षिकी । अत्र प्रति प्रश्नपत्रं त्रिंशद् अङ्कानां आन्तरिकमूल्याङ्कनं सप्तत्यङ्कानां च बाह्यपरीक्षा भवति। एवमेव आचार्य-एम.ए.पाठ्यक्रमाः चतुर्षु सत्रार्द्धेषु विभक्ताः सन्ति। अत्र प्रति सत्रार्द्धं पञ्चप्रश्नपत्राणि भवन्ति। तत्र पञ्चमं पत्रं वैकल्पिकं भवति। यत्र सी.बी.सी.एस. पद्धत्या स्वविषयमतिरिच्य स्वरुच्या अन्यं विषयं स्वीकृत्य छात्राः अधीयते। अत्र 40 अङ्कानामान्तरिकमूल्याङ्कनं 60 अङ्कानां बाह्यमूल्याङ्कनं भवति। एवमेव विद्यावारिधिपाठ्यक्रमः, प्रमाणपत्रीयपाठ्यक्रमाश्च सञ्चाल्यन्ते। उपर्युक्तानां पाठ्यक्रमाणां परीक्षावेदनं विश्वविद्यालयस्य वेवसाईट(Website) सद्यस्कमाध्यमेन (Online) सञ्चाल्यते।

परीक्षायाः पूर्वप्रक्रिया-

  • प्रत्येकं प्रश्नपत्राय प्रश्नपत्रद्वयं निर्मातुं परीक्षकनामानि स्वीकृत्य प्रश्नपत्राणां सज्जीकरणं विधीयते।
  • परीक्षाविभागेन विषयानुगुणं प्रश्नपत्रसज्जीकरणाय कार्यालयादेशाः क्रियन्ते ।
  • समयपत्रकम् अन्तर्जालमाध्यमेन, पत्रमाध्यमेन च प्रसार्यते ।
  • आवेदनपत्रम् अन्तर्जालमाध्यमेन प्रपूर्य कक्षा-विभाग-विषयानुगुणं वर्गीकरणं क्रियते।
  • परीक्षाशुल्कं विश्वविद्यालयस्य वित्तकोषे अन्तर्जालमाध्यमेनैव स्वीक्रियते ।
  • विषयानुगुणं प्रश्नपत्राणां टङ्कणं, पूर्वफलसंशोधनम्, आवश्यकतानुगुणं प्रतिलिपिं कृत्वा तत्तत्परीक्षाकेन्द्रेभ्यः प्रश्नपत्राणि, रिक्ताः उत्तरपुस्तिकाः, आवश्यकाः कर्गदाश्च प्रेष्यन्ते।

परीक्षासमये प्रक्रिया-

  • परीक्षाक्रेन्द्राणां निर्धारणं क्रियते।
  • परीक्षासूची(परीक्षासमयसारिणी)निर्धारणं क्रियते।
  • आवश्यकप्रपत्राणां प्रश्नपत्रादीनां च सम्प्रेषणम्।
  • परीक्षानिरीक्षणमण्डलानि प्रेष्यन्ते ।

केन्द्रीयकृतमूल्याङ्कनस्य प्रक्रिया

  • परीक्षाकेन्द्रेभ्यः आगतानाम् उत्तरपुस्तिकानां दिवस-कक्षा-विषयानुगुणं वर्गीकरणं क्रियते।
  • मूल्याङ्कनकर्तृणां नामानि परीक्षासमितिना स्वीक्रियन्ते। ततः बाह्यमूल्याङ्कनं कर्तुमुत्तरपुस्तिकानां विवरणं परीक्षाविभागद्वारा क्रियते।
  • स्नातकस्तरस्य आधारपरीक्षापाठ्यक्रमपरीक्षामूल्याङ्कनम् ओ.एम. आर. पत्रकसङ्गणकमाध्यमेन क्रियते।

 परीक्षापरिणामस्य प्रक्रिया-

  • परीक्षकैः पर्णं (फाईल) प्रपर्णं (काउन्टरफाईल) प्राप्यते।
  • परीक्षापरिणामः सङ्गणकमाध्यमेन सज्जीक्रियते ।
  • परीक्षापरिणामः विश्वविद्यालयस्य अन्तर्जालमाध्यमेन उद्घोष्यते ।
  • परीक्षापरिणामस्य सूचनां विश्वविद्यालयस्य वेवसाईट (Website) माध्यमेन महाविद्यालयाः अवगच्छन्ति।
  • पासलिस्ट” (उत्तीर्णसूची) अपि विश्वविद्यालयेन उद्घोष्यते।

परीक्षापद्धतौ पारदर्शिता-

  • परीक्षायाः कृते आवेदनपत्राणि महाविद्यालयानां कृते अणुसङ्केतमाध्यमेन प्रेष्यन्ते, तथा च परीक्षाशुल्कम् अन्तर्जालमाध्यमेन पूरयितुं सौविध्यं प्रदीयते, येन समयस्य कर्गदानां च रक्षणं भवति।
  • प्रश्नपत्राणां गोपनीयतां रक्षयितुं प्रश्नपत्राणाम् उपरि विश्वविद्यालयस्य विशेषचिह्नयुतः कर्गदः स्थाप्यते।
  • परीक्षायां प्रश्नपत्राणां बन्धस्य उ‌द्घाटनं छात्राणाम् उपस्थितौ क्रियते, अपि च प्रत्येक प्रश्नपत्रबन्धस्य उपरि छात्रद्वयस्य हस्ताक्षरमपि स्वीक्रियते, येन परीक्षाप्रश्नपत्रस्य बन्धः सुरक्षितः अस्ति इति निश्चेतुं शक्यते।
  • समग्रमूल्याङ्कनप्रक्रियायां विद्यार्थिनः परिचयः गुप्तः भवेत्, एतत् सुनिश्चितं क्रियते।
  • परीक्षापरिणामः मासावधिं यावद्विश्वविद्यालयस्य अन्तर्जाले प्रकाश्यते। येन छात्राः स्वयमेव यत्र कुत्रापि स्थित्वा परीक्षापरिणामं द्रष्टुं शक्नुवन्ति ।
  • विद्यार्थिनां हिताय अन्तिमसत्रीयविद्यार्थिनां कृते पूरकपरीक्षायाः आयोजनं क्रियते। पूरक,ATKT, अन्तिमावसररूपेण विद्यार्थिनां परीक्षायोजनं क्रियते। स्नातके पुनर्मूल्याङ्कनं भवति। स्नातकोत्तरे पुनर्गणना भवति।
  • विद्यार्थिभ्यः विशिष्टकर्गदयुक्ता (Watter proof) अङ्कतालिका (Mark sheet) प्रदीयते ।
  • विकल्पाश्रितश्रेयोऽङ्कप्रणाल्या सञ्चालितानां कार्यक्रमाणां परीक्षापद्धतौ विश्वविद्यालय-अनुदान-आयोगस्य निर्देशानुसारं SGPA/ सञ्चितश्रेण्यङ्कसाधारणमानम् (CGPA) पद्धत्यानुगुणम् श्रेणीपत्रिकान्विता (ग्रेड) अङ्कतालिका प्रदीयते।
  • महाविद्यालयाः स्वस्य आईडीपासवर्ड इत्यस्य उपयोगं कृत्वा स्वयमेव आन्तरिकमूल्याङ्कनपरीक्षायाः प्रदत्ताङ्कं सम्पूरयन्ति। अनेन समयस्य रक्षणं/सदुपयोगो भवति।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Provide link for Additional Information अतिरिक्तसूचनानां सन्धानम् View Document

 

2.5.5 Status of automation of Examination division along with approved Examination Manual-परीक्षाविभागस्य यान्त्रिकीकरणेन सह अङ्गीकृतायाः परीक्षामार्गदर्शिकायाः स्थितिः -

Answer: A. 100% automation of entire division & implementation of Examination Management System (EMS) (अ. सम्पूर्णविभागस्य 100% यान्त्रिकीकरणम्, परीक्षा-प्रबन्धन-प्रणाल्याः कार्यान्वयनं च ।)

File DescriptionDocument
Current Manual of examination automation system परीक्षा-यान्त्रिकीकरण-प्रणाल्याः अधुनातनी दर्शिका View Document
Any additional information अतिरिक्ताः सूचनाः View Document
Annual reports of examination including the present status of automation (Data Template) अधुनातन्याः यान्त्रिकीकरणस्थित्या सहितं परीक्षायाः वार्षिकं वृत्तम् (दत्तांशप्रारूपम्) View Document

 

2.5.6 Use of Sanskrit as a medium for Question Paper setting and Answering in Examination.विश्वविद्यालयः परीक्षाप्रश्नपत्राणां निर्माणे उत्तरलेखने च संस्कृतमाध्यममनुसरति।

Answer:

विश्वविद्यालयोऽयं संस्कृतमाध्यमेन सञ्चालितो भवति। भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति भणतिमनुस्मरन् महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः उज्जयिन्याः महर्षिसान्दीपनि-कविकुलगुरुकालिदास-भर्तृहर्यादीनां प्राचीनभारतीयशास्त्रपरम्परायाः संरक्षणं करोति। अत्र शास्त्रि-आचार्यादिपाठ्यक्रमेषु समस्तपाठ्यक्रमाणां प्रश्नपत्रनिर्माणम् उत्तरपुस्तिकालेखनञ्च संस्कृतमाध्यमेनैव भवति।   

  • स्नातकस्नातकोत्तरपरीक्षायां पारम्परिकविषयाणां परीक्षासु संस्कृतभाषा प्रयुज्यते। 
  • पाठ्यक्रमे ये भाषासम्बन्धिनः विषयाः सन्ति, तेषां परीक्षा तया भाषया एव भवति।
  • शास्त्रिशिक्षाशास्त्रिसदृश-आधुनिकपाठ्यक्रमेऽपि अध्ययनाध्यापनं प्रश्नपत्रनिर्माणमुत्तरलेखनञ्चेति संस्कृतमाध्यमेनैव भवति।

अतः छात्राणां संस्कृतभाषायाः समुचितोन्नत्यै अपि संस्कृतमाध्यममनुसरति।

 

File DescriptionDocument
Upload any additional information (अतिरिक्ताः सूचनाः) View Document
Upload a few answer papers of some programs written in Sanskrit. (संस्कृतमाध्यमेन लिखितोत्तराणां केषाञ्चित् पाठ्यक्रमाणां कानिचित् उत्तरपत्राणि।) View Document
Provide link for Additional Information (अतिरिक्तसूचनानां सन्धानम्) View Document

2.6.1 Programme outcomes, Programme specific outcomes and course outcomes for all Programmes offered by the institution are stated and displayed on website and communicated to teachers and students.संस्थाद्वारा परिचालितानां सर्वेषां पाठ्यक्रमाणां परिणामाः, पाठ्यक्रमाणां विशिष्टपरिणामाः,पाठ्यपत्राणां परिणामाः च संस्थाजालस्थाने निर्दिश्यन्ते, प्रदर्श्यन्ते च, छात्राणां शिक्षकाणां च कृते प्रेष्यन्ते।

Answer:

अस्मिन् विश्वविद्यालये सञ्चाल्यमानानां सर्वेषां कार्यक्रमाणां परिणामाः राष्ट्रिय-अध्यापक-शिक्षा-परिषत् (NCTE), विश्वविद्यालय-अनुदान आयोगः (UGC), मध्यप्रदेश-सर्वकारः इत्यादिसंस्थानां मार्गदर्शनानुसारं नियमानुगुणं च निर्धार्यन्ते। एते कार्यक्रमपरिणामाः, कार्यक्रमविशिष्टपरिणामाः, पाठ्यक्रमपरिणामाः च वैश्विकस्तरीयाः भवेयुः अथ च नियोक्तृणाम् अभियाचनानुसारं भवेयुः एतद्विषये महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः  अधोलिखितां प्रक्रियाम् अनुसरति।

  1. विश्वविद्यालयस्य अभ्यासक्रमसमितिद्वारा पाठ्यक्रमनिर्माणसमये तत्तत्कार्यक्रमस्य परिणामविषये, विशिष्टपरिणामविषये, पाठ्यक्रमपरिणामविषये च विशदं चिन्तनं क्रियते। सामान्यतया पाठ्यक्रमस्य परिणामः तत्तत्कार्यक्रमस्य परिणामस्य तथा च तत्तत्कार्यक्रमविशिष्टस्य परिणामस्य आधारेण निश्चीयते। अतः कार्यक्रमपरिणामस्य निर्माणानन्तरं कार्यक्रमविशिष्ट परिणामः, पाठ्यक्रम परिणामः च निर्धार्यते।
  1. एतेषु कार्यक्रमेषु प्रत्येक कार्यक्रमस्य उद्देश्यानि, विषयाङ्गानि, अन्वित्याधारेण विभाजनम्, पाठ्यपुस्तकस्य नाम, सन्दर्भपुस्तकानां नामानि, व्याख्यानस्य रूपरेखा, मूल्याङ्कनविधिः इत्यादिविषयाणां समावेशः भवति। प्रत्येक सङ्कायस्य प्राध्यापका विषयविशेषज्ञाः च स्वकीयविषयसम्बद्धस्य कार्यक्रमस्य स्वरूपं निर्माय अभ्यासक्रमसमितौ प्रस्तुवन्ति, अभ्यासक्रमसमितेः सदस्याः तत्तद्विषयाणां विशेषज्ञाः भवन्ति। ते एतेषां सर्वेषां परिणामानां विषये चिन्तनं कुर्वन्ति।
  2. अभ्यासक्रमसमितिद्वारा यथासमयम् उपविश्य कार्यक्रमपरिणामेषु नावीन्यं सम्पाद्यते। ततः परं कार्यक्रमाणां परिणामाः, कार्यक्रमाणां विशिष्टपरिणामाः, पाठ्यक्रमाणां च परिणामाः विश्वविद्यालयस्य तत्तत्सङ्कायेषु प्रस्तूयन्ते, तत्र एतेषाम् अनुमोदनानन्तरं विश्वविद्यालयस्य विद्यारिषदि, कार्यपरिषदि च प्रस्तुत्य अनुमतिः स्वीक्रियते। ततः प्राप्तायाम् अनुमत्यां सत्याम् इमे परिणामाः विश्वविद्यालयस्य जालपुटे, अध्यापकेषु, विद्यार्थिषु च प्रदर्शनपुरस्सरं सम्प्रेष्यन्ते।

कार्यक्रमविशिष्टपरिणामानांपाठ्यक्रमापरिणामानां च कार्यक्रमपरिणामानांसम्प्रेषणकार्यतन्त्रस्य विवरणम्

1. कार्यक्रमेषु तत्परिणामेषु च कालानुगुणं नावीन्यं सम्पादनार्थम् अभ्यासक्रमसमितिसदस्याः सङ्कायप्राध्यापकैः प्रस्तुतस्य कार्यक्रम-परिणामस्य अवलोकनं विधाय कार्यक्रम-परिणामम् अनुमन्यते। ततः अयं कार्यक्रम-परिणामः विश्वविद्यालयस्य विद्यापरिषदि (Academic Council), कार्यपरिषदि (Executive Council) च अनुमोदनार्थं प्रस्तुतः क्रियते । ततः अनुमोदनानन्तरं कार्यक्रम-परिणामः सर्वेषां प्राध्यापकानां कृते, विश्वविद्यालयसंलग्नमहाविद्यालयानां कृते च प्रेष्यते। यस्य आधारेण सर्वत्र अध्यापनं भवति।

2. एतेषां कार्यक्रमपरिणामानां, कार्यक्रमविशिष्टपरिणामानां, पाठ्यक्रमपरिणामानां च उद्योजनं विश्वविद्यालयस्य अन्तर्जालेऽपि क्रियते। ततः छात्राः, अध्यापकाः, लाभग्राहिणः च एतान् परिणामान् ज्ञातुं शक्नुवन्ति ।

3. नूतनसत्रस्य आरम्भे विश्वविद्यालये प्रचालितानां कार्यक्रमाणां परिचयात्मिका एका गोष्ठी आयोज्यते यत्र सर्वेऽपि छात्राः, अध्यापकाः च भागं गृह्णन्ति। अस्यां गोष्ठ्यां शास्त्री, आचार्य, इत्यादीनां कार्यक्रमाणां कार्यक्रमविशिष्टानां च परिचयः प्रदीयते। अपि च अत्रैव अमीषां कार्यक्रमपरिणामानां, कार्यक्रमविशिष्टपरिणामानां च विषयेऽपि छात्राः अध्यापकाश्च सूच्यन्ते ।

4. कार्यक्रमपरिणामविषये तत्तत्सङ्कायस्य अध्यक्षाः गोष्ठ्यां स्वसङ्कायान्तर्गतान् अध्यापकान् एतद्विषये बोधयन्ति। ततः परं तत्तत्सङ्कायस्य प्राध्यापकैः अस्य कार्यक्रमस्य उद्देश्यानि, विषयाङ्गानि परिणामाः च छात्राणां कृते कक्ष्यासु नूतनसत्रारम्भे बोध्यन्ते।

6. अस्य विश्वविद्यालयस्य एतेषां आन्तरिकगुणवत्ताऽऽश्वासनकेन्द्रमपि कार्यक्रमपरिणामानां, कार्यक्रमविशिष्टपरिणामानां, पाठ्यक्रमापरिणामानां च विषये चर्चा करोति ।

7. इमे कार्यक्रमाणां परिणामाः, कार्यक्रमाणां विशिष्टपरिणामाः, पाठ्यक्रमाणां परिणामाः च विश्वविद्यालयस्य परीक्षाविभागेन अपि अन्तर्जालमाध्यमेन सर्वेषां लाभग्राहिणां कृते सम्प्रेष्यन्ते । इत्थं कार्यक्रमस्य स्वरूपं, तस्य निर्माणं, मूल्याङ्कनप्रक्रिया, स्वाध्यायकार्य, आन्तरिकपरीक्षा इत्यादिविषयाणां विश्वविद्यालयेन सम्प्रेषणं क्रियते ।

विश्वविद्यालयस्य सर्वेषां कार्यक्रमाणां P.O. (पाठ्यक्रमपरिणामाः) P.S.O. (कार्यक्रमाणां विशिष्टपरिणामाः ) पाठ्यक्रमाणां परिणामाः http://www.mpsvv.ac.in/ इति वेबसाईटमध्ये  प्रदर्शिताः ।

 

File DescriptionDocument
Upload POs, PSOs, COs for all courses सर्वेषां पाठ्यक्रमाणां परिणामाः पाठ्यक्रमाणां विशिष्टपरिणामाः, पाठ्यपत्राणां परिणामाः च संस्थाजालस्थाने उपारोपणीयाः। View Document
Upload a description of Mechanism of Communication सम्प्रेषणकार्यतन्त्रस्य विवरणम् उपारोपणीयम्। View Document
Provide the URL जालस्थानसन्धानं निर्दिशन्तु View Document

 

2.6.2 Attainment of Programme outcomes, Programme specific outcomes and course outcomes are evaluated by the institutionएतेषां सर्वेषां पाठ्यक्रमपरिणामानां, पाठ्यक्रमविशिष्टपरिणामानां, पाठ्यपत्रपरिणामानां निष्पत्तीनां च मूल्याङ्कनं संस्था करोति।

Answer:

महर्षिपाणिनिसंस्कतवैदिकविश्वविद्यालयस्य  पाठ्यक्रमाः भारतीयज्ञानपरम्पराश्रिताः वर्तन्ते। भारतीयपरम्परा, संस्कृतिः, वेदेषु शास्त्रेषु च निहिताः विचारधाराः इत्येते बिन्दवः पाठ्यक्रमेषु प्रतिबिम्बिताः भवन्ति। पाठ्यक्रमाणां निर्माणम्, निष्पत्तिः, परिणामानां मूल्याङ्कनम्, निष्पत्तेः मूल्याङ्कनम्, मापनम् इतीमानि चाक्रिककार्याणि यथाकालं क्रियन्ते।

  • महर्षिपाणिनिसंस्कतवैदिकविश्वविद्यालयः सर्वेषां कार्यक्रमविशिष्टपरिणामानां, पाठ्यक्रमपरिणामानां च निष्पत्तीनां मूल्याङ्कनं करोति। तदर्थं विश्वविद्यालये निष्पत्तिमापनस्य विश्वसनीया मापनपद्धतिः वर्तते। विश्वविद्यालयस्य संस्थागतसंस्कृतिः शैक्षणिकक्षेत्रेषु छात्राणां सर्वोत्तमप्रदर्शनार्थं निरन्तरं प्रयासरता वर्तते।
  • अस्य विश्वविद्यालयस्य सर्वेऽपि कार्यक्रमाः, विशिष्टाश्च कार्यक्रमाः “संस्कृतं नाम दैवी वाक्” इति विश्वविद्यालयस्य ध्येयवाक्यम् अभिमुखीकृत्य छात्राणां समग्रविकासार्थं निर्धारिताः सन्ति। अतः विद्यार्थिनां दैनन्दिनव्यवहारेण, विभिन्नप्रतियोगितासु प्रदर्शनमाध्यमेन, परीक्षायां प्राप्ताङ्क‌माध्यमेन च एतेषां परिणामानां निष्पत्तीनां च मापनं विश्वविद्यालयेन क्रियते।
  • एतेषां कार्यक्रमाणां परिणामस्य आधारेण सत्रान्तपरीक्षायाः अनन्तरं विद्यार्थिनां कृते विश्वविद्यालयेन उपाधिः प्रदीयते। एतस्याः परीक्षायाः आधारेण एतत् सुनिश्चितं क्रियते यत् विभिन्नकार्यक्रमाणां, कार्यक्रमविशिष्टानां, पाठ्यक्रमपत्राणां च परिणामाः छात्रैः कियता परिमाणेन प्राप्ताः सन्ति। परीक्षायाः एतन्महत्त्वाधारेण विश्वविद्यालये एका समीचीना परीक्षाप्रक्रिया अस्ति। यत्र विश्वसनीया परीक्षापद्धतिः, विश्वसनीया मूल्याङ्कनप्रणाली, यथासमयं परीक्षापरिणामस्य उद्घोषणा इत्यादिकम् अस्याः उद्देश्यानि सन्ति। अयं विश्वविद्यालयः एतानि उद्देश्यानि पूरयितुं सर्वविधां व्यवस्थां करोति।
  • प्रत्येकं वर्षे सततमूल्याङ्कनमाध्यमेन सङ्कायगोष्ठीमाध्यमेन च कार्यक्रमाणां मूल्याङ्कनं विधीयते।
  • कार्यक्रमविशिष्टस्य परिणामस्य मूल्याङ्कनं प्रत्येकस्मिन् सत्रे क्रियते। तथैव पाठ्यक्रमस्य मूल्याङ्कनमपि प्रत्येकं सत्रस्य अन्ते क्रियते ।
  • पाठ्यपत्रस्य परिणामनिष्पत्तेः मूल्याङ्कनं सततरूपेण आन्तरिकमूल्याङ्कनमाध्यमेन तत्तद्विभागस्य अध्यापकाः कुर्वन्ति।
  • कार्यक्रमस्य विशिष्टपरिणामनिष्पत्तेः मूल्याङ्कनं तत्तद्विभागस्य अध्यक्षाः कुर्वन्ति। तथा च कार्यक्रमाणां परिणामनिष्पत्तेः मूल्याङ्कनं कुलपतिः, विद्यापरिषदः सदस्याः, कार्यपरिषदः सदस्याः च कुर्वन्ति ।

पाठ्यक्रमपरिणामनिष्पत्तीनां फलोदयः-

  • शैक्षिकवर्षम् 2018 आरभ्य अस्य विश्वविद्यालयस्य त्रिंशत्यधिकाः छात्राः विश्वविद्यालय- अनुदान-आयोगस्य राष्ट्रियपात्रतापरीक्षां, कनिष्ठ-शोधाध्येतृवृत्तिं, राज्यपात्रतापरीक्षां च उत्तीर्णवन्तः। तत्र त्रयः छात्राः कनिष्ठ-शोध-अध्येतृवृत्तिं (Junior research Fellowship), द्वे छात्रे राष्ट्रिय-जनजातीय-शोधवृत्तिं (National Tribal Fellowship), त्रयः छात्राः मध्यप्रदेशसर्वकारस्य शोधवृत्तिं (Scheme Of Developing High quality research) प्राप्तवन्तः ।
  • अस्य विश्वविद्यालयस्य बहवः छात्राः केन्द्रीयसंस्कृतविश्वविद्यालयेन तथा अन्यैः विश्वविद्यालयैः प्रायोजितायां राज्यस्तरीय-शास्त्रीयस्पर्धायां, विभिन्नसंस्थाभिः आयोजितासु प्रतियोगितासु भागं गृहीत्वा भाषण-शलाका-काव्यरचना-स्फूर्तिस्पर्धादिषु स्वर्णादिपुरस्कारैः सभाजिताः भवन्ति ।

परिणामस्य निष्पत्तेः मापनार्थं छात्राणां सततरूपेण आन्तरिकमूल्याङ्कनम् -

  • सर्वेषां परिणामानां मूल्याङ्कनं कर्तुं विश्वविद्यालयः छात्राणां सततरूपेण आन्तरिकं मूल्याङ्कनं करोति। प्रत्येकं पाठ्यक्रमस्य आन्तरिकमूल्याङ्कने विश्वविद्यायलेन सम्पूर्णरूपेण पारदर्शिता परिपाल्यते। यत्र उपस्थितेः आधारेण प्रदत्तस्वाध्यायकार्यस्य आधारेण, लिखितपरीक्षायाः आधारेण च अङ्काः प्रदीयन्ते ।
  • कार्यक्रमस्य परिणामनिष्पत्तेः मूल्याङ्कनाय प्रतिपुष्टिप्रणाली विद्यते, यत्र विश्वविद्यालयः संरचित-प्रतिपुष्टिप्रणाल्या छात्रेभ्यः, अध्यापकेभ्यः, वृत्तिदातृभ्यः, पूर्वच्छात्रेभ्यः, अभिभावकेभ्यश्च प्रतिपुष्टिं स्वीकृत्य समीक्षां करोति। प्रतिपुष्टिं प्राप्य छात्राणां स्वस्थमानसिकतानिर्माणम्, सेवा-त्याग-राष्ट्रभावनायाः निर्माणम्, विविधप्रान्तेभ्यः आगतानां छात्राणां भाषाकौशलविकासाय च  अयं विश्वविद्यालयः सततरूपेण प्रयासरतोऽस्ति ।
  • एतेषां परिणामानां प्राप्तौ बाधकतत्त्वानि अभिज्ञाय विश्वविद्यालयेन तेषां निराकरणार्थं विभिन्नाः शैक्षणिकाः उपक्रमाः आयोज्यन्ते। तद्यथा मन्दाधिगन्तृणां छात्राणां कृते अतिरिक्ताः वर्गाः, वैयक्तिकं मार्गदर्शनम्, पूरकपरीक्षायाः अवसरः इत्यादीनि। अग्रेसराधिगन्तारः छात्राः कार्यक्रमस्य परिणामाधारेण अभिज्ञायन्ते, ततः तेषां संवर्धनगतिविधीनां माध्यमेन सम्पोषणं क्रियते येन एते छात्राः योग्याः नागरिकाः भवेयुः।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Provide link for Additional Information अतिरिक्तसूचनानां सन्धानम् View Document

 

2.6.3 Average pass percentage of studentsछात्राणाम् उत्तीर्णताप्रतिशततायाः मध्यमानम्

Answer: 98.64

2.6.3.1 Total number of final year students who passed the university examinationsविश्वविद्यालयस्य परीक्षासु उत्तीर्णानाम् अन्तिमवर्षीयाणां छात्राणां सङ्ख्या

Answer: 145

2.6.3.2 Total number of final year students who appeared for the examinationsअन्तिमवर्षपरीक्षासु सम्मिलितानां छात्राणां योगः

Answer: 147

File DescriptionDocument
Upload list of Programmes and number of students passed and appeared in the final year examination (Data Template) पाठ्यक्रमसूची, परीक्षायाम् उत्तीर्णानां छात्राणां सङ्ख्या, आन्तिमवर्षपरीक्षायां सम्मिलितानां छात्राणां योगः च उपारोपणीयाः(दत्तांशप्रारूपम्) View Document
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Provide link for the annual report वार्षिकप्रतिवेदनस्य सन्धानम्। View Document

 

2.6.4 The Institution has mechanism to evaluate the performance of students through the vakyartha/ shastrartha-Sabhas, Shalaka-Pareeksha, Shastra-Pareeksha (Oral), Shastra-spardha, Writing Sanskrit-Slokas/ Padya/ Poetry etc.संस्था वाक्यार्थ/शास्त्रार्थसभा-शलाकापरीक्षा-शास्त्रपरीक्षा(मौखिकं)-शास्त्रस्पर्धा-संस्कृतश्लोक-पद्य-काव्यादिभिः छात्राणां प्रस्तुतेः मूल्याङ्कनार्थं किमपि कार्यतन्त्रमनुसरति।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन छात्राणां प्रदर्शनस्य मूल्यांकनाय विविधाः पद्धतयः उपयुज्यन्ते। यथा- वाक्यार्थ-सभा, शास्त्रार्थसभा, शलाकापरीक्षा, शास्त्रपरीक्षा, शास्त्रस्पर्धा, संस्कृतपद्यरचना, वाग्वर्धिनीपरिषदि छात्राणां विषयप्रस्तुतिः इत्यादिभिः पद्धतिभिः छात्राणां प्रस्तुतेः मूल्याङ्कनार्थं कार्यतन्त्रमनुसरति।

वाक्यार्थ-सभा/ शास्त्रार्थसभा-

  • महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः  छात्राणां संस्कृतभाषया वक्तृत्वकलायाः प्रदर्शनस्य मूल्यांकनाय, संस्कृतभाषया प्रस्तुतिकलायाः प्रदर्शनस्य मूल्यांकनाय, छात्राणाम् आत्मविश्वासस्य मूल्यांकनं कर्तुं, छात्राणाम् प्रतिभाप्रदर्शनस्य मूल्यांकनं कर्तुं वाग्वर्धिनी- सभाम् आयोजयति। यत्र सर्वेऽपि छात्राः छात्र्यश्च स्वकीयं शास्त्रीयं वक्तव्यं प्रस्तुवन्ति । अत्र सभासञ्चालनादिकस्य दायित्वमपि छात्राः एव सञ्चालयन्ति, येन छात्रेषु नेतृत्वगुणो विकसति। अत्र परिषदि मूल्याङ्कनपद्धतेः भाषा-शुद्धिः, विषय-वस्तु विषय- प्रस्तुतिश्चेत्यादीनि मूलभूतानि तत्त्वानि सन्ति ।

संस्कृतपद्यरचना-

  • विश्वविद्यालयेऽस्मिन् भाषण-छन्दोरचनादिक्षेत्रेषु अपि तत्तन्नियमानुगुणं मूल्याङ्कनं क्रियते । अस्मिन् छात्राः विविधानां संस्कृतकवीनां काव्यपाठं श्रुत्वा पद्यनिर्माणे निपुणाः भवन्ति।
  • इतः परं छात्राणां प्रदर्शनस्य मूल्यांकनाय अत्र विश्वविद्यालये प्रतिवर्षं श्रावणीपूर्णिमायां संस्कृत-सप्ताहोत्सवे विविधाभिः स्पर्धाभिः छात्राणां विविधक्षेत्रेषु सुषुप्तावस्थायां स्थितप्रतिभायाः जाग्रतिः। आभिः स्पर्धाभिः विश्वविद्यालयस्यास्य छात्राणां क्षमताप्रदर्शनस्य मूल्यांकनं निम्नलिखितरूपेण भवति।

क्र.

स्पर्धानाम

छात्राणां कौशलप्रदर्शनस्य मूल्याङ्कनम्

01

स्तोत्रकण्ठपाठस्पर्धा

उच्चारणस्य गानस्य च

02

समूहगानस्पर्धा

सहभावस्य समूहे गानाभ्यासस्य कण्ठस्थीकरणस्य च

03

वक्तृत्वस्पर्धा

निर्भयतायाः वक्तृत्वकलायाः विषयज्ञानस्य विषयसमर्थनस्य च

04

समस्यापूर्तिः

समस्यायाः समाधानस्य वाक्पटुताचिन्तनशक्तेः,

05

निबन्धलेखनस्पर्धाः

वषयज्ञानम्, भाषाशुद्धिः, समाजज्ञानम्, लेखनकौशलस्य

06

कथाकथनस्पर्धा

विषयोपस्थानस्य, कल्पनाशक्तेः

07

रङ्गवल्लीस्पर्धा

चित्रकलायाः प्रदर्शनक्षमतायाश्च

08

आशुभाषणम्

झटिति कार्यसम्पादनस्य, चिन्तनशक्तेः विषयज्ञानस्य च

  • संस्कृतसप्ताहोऽयं विश्वविद्यालयेषु पठितानां समेषां संस्कृतच्छात्राणां कृते आयोज्यते।
  • छात्राः यथासमयं विविधासु शैक्षणिक-शास्त्रीय-स्पर्धासु भागग्रहणाय केन्द्रीयसंस्कृतविश्वविद्यालयं प्रति तथा आन्ध्र-प्रदेशस्य तिरुपतिस्थं राष्ट्रीय-संस्कृतविश्वविद्यालयं च गच्छन्ति, पदकानि च प्राप्नुवन्ति । अतः आसु स्पर्धासु भागग्रहणद्वारा छात्राणां शास्त्रीयज्ञानस्य, आशुस्पर्धासु (क्विज्) भागग्रहणद्वारा प्रत्युत्पन्नमतेः क्षमतायाः मूल्याङ्कनं भवति।
  • प्रतिवर्षं युवमहोत्सवे विश्वविद्यालयस्य तथा च तत्सम्बद्धमहाविद्यालयानां छात्राः छात्र्यश्च शैक्षिक-चित्र-सांस्कृतिक-क्रीडादिस्पर्धासु भागं गृह्णन्ति। अन्ययुवमहोत्सव इव अस्मिन्नपि युवमहोत्सवे रङ्गवल्ली, एककसंस्कृतगीतम्, एककशास्त्रीयगानम्, एककशास्त्रीयवादनम्, एककशास्त्रीयनृत्यम्, सङ्घनृत्यम्, एकपात्राभिनयः, संस्कृतसुभाषितकण्ठपाठः, वादविवादस्पर्धा, स्फूर्तिस्पर्धा, साहित्यरचना, आशुभाषणम्, आशुचित्रणम्, व्यङ्गचित्रम्, योगासनम्, धावनम्, कबड्डी, दीर्घकूर्दनम्, उच्चैकूर्दनम्, चतुरङ्गम्, क्षेपणम्, हस्तकन्दुकम्, इत्यादिस्पर्धाः आयोज्यन्ते। आसु स्पर्धासु सर्वेऽपि स्पर्धकाः स्वकौशलं प्रदर्श्य प्रथमादिस्थानं प्राप्नुवन्ति। अस्य युवमहोत्सवस्य उद्‌घाटनसत्रायोजनद्वारा उद्घाटनं तथा समापनसत्रायोजनद्वारा समापनं भवति। उद्घाटनसमापनसत्रयोः विशिष्टाः अतिथयः आहूयन्ते। विजेतॄणां कृते प्रमाणपत्राणां पदकानाञ्च व्यवस्था क्रियते। युवमहोत्सवे आयोजितासु स्पर्धासु सर्वाधिकान् अङ्कान् सम्प्राप्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये उपर्युक्तस्पर्धासु भागग्रहणेन तत्तत्स्पर्धासम्बन्धिक्षमताप्रदर्शनस्य मूल्याकनं भवति।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Provide link for Additional Information अतिरिक्तसूचनानां सन्धानम् View Document

2.7.1 Online student satisfaction survey regarding teaching learning process.अध्यापन-अधिगमयोः प्रक्रियाविषये अधितन्त्रि छात्रसन्तुष्टेः सर्वेक्षणम्।

Answer: 3.91