4.1.1 The institution has adequate facilities for teaching- learning. viz., classrooms, laboratories, computing equipment, etc.कक्ष्याप्रकोष्ठः, प्रयोगशाला, सङ्गणकयन्त्रादीनि शिक्षणाधिगमसम्बन्धीनि भौतिकसौविध्यानि संस्थायामुपलभ्यन्ते।
Answer:
- विश्वविद्यालयोऽयं भारतीयज्ञानशाखानामध्ययनमध्यापनम्,गवेषणम्, प्रकाशनमित्येतैः मुख्यैः कार्यैः अग्रेसरो वर्तते। विश्वविद्यालयस्य पञ्चवटीति स्थाने प्राशासनिकानि, परीक्षासम्बन्धीनि च कार्याणि प्रवर्तन्ते। छात्राणां जिज्ञासोपशमनाय ग्रन्थालयो वर्तते। भवनेषु जलव्यवस्था, शौचालयव्यवस्था, पर्याप्तप्रकोष्ठाः, वातायनानि च सन्ति। दिव्याङ्गानां कृते अपेक्षिता व्यवस्थापि कल्पिता वर्तते। विश्वविद्यालये पुरुषाणां महिलानाञ्च कृते सुविधाकक्षस्यापि व्यवस्था पृथक्पृथक् वर्तते। व्यायामेन स्वास्थ्यं रक्ष्यते। अपेक्षिताभिः सामग्रीभिः उपेता व्यायामशाला छात्राणां शारीरिकसौख्यवर्धनाय स्थापितास्ति। सुखासनयुक्ताः कक्ष्याप्रकोष्ठाः छात्रप्रियाः वर्तन्ते।
- Covid 19 विषमपरिस्थित्यां नूतनाः तन्त्रागमाः उपक्रान्ताः अभूवन्। अध्यापने अधिगमे च नवीनानि विधानानि अलभन्त। सद्यस्कमाध्यमेन अध्यापनविधिः लोकप्रियतामाप्नोत्। विश्वविद्यालयः चतुरस्रैः सम्भारैः समेतः सन् पुनःप्रतिष्ठायै पदं निदधाति। शिक्षानुसन्धानक्षेत्रे कालानुगुणं तन्त्रोपकरणैः अलङ्क्रियमाणो वर्तेते। किञ्च प्राचीननवीनयोः भारतीयशैक्षिकपरिपाट्योः सम्बन्धसेतुश्च वर्तते। कक्ष्याप्रकोष्ठाः विद्यार्थिनां सुखाय सन्ति। कृष्णफलकानि, श्वेतफलकानि, व्यजनानि, विद्युद्दीपाः, गवाक्षाः इत्येतैः उपकरणैः समुपेताः वर्तन्ते। कक्ष्याप्रकोष्ठेष्वनुकूलः वायुः, प्रकाशः च छात्रान् समाकर्षति सानन्दाधिगमे प्रेरयति च। अनिवार्यविषयककक्ष्याणां वैकल्पिकविषयककक्ष्याणां च यथापेक्ष-परिमाणेन प्रकोष्ठाः निर्मिताः सन्ति। प्रतिदिनं स्थलशुद्धिः अपरिहार्यं कार्यं कर्मचारिभिः क्रियते। एतद्व्यवस्थया सङ्गोष्ठी, अन्तर्जालसङ्गोष्ठी, सम्मेलनमुपवेशनमित्यादीनां क्रियाकलापानामायोजनाय आनुकूल्यं कल्पितं वर्तते। एतदर्थं विश्वविद्यालयस्य श्रीकृष्णयोगभवनमिति सभागारो वर्तते।
- अत्र अनेकधा सांस्कृतिक-कार्यक्रमाः सञ्चाल्यन्ते। अपि च विश्वविद्यालयस्य राष्ट्रीयोत्सवः, युवमहोत्सवः इत्यादयः लोकप्रसिद्धाः उत्सवाः अस्यां वेदिकायां वर्तन्ते। विश्वविद्यालयस्य ग्रन्थालयः ई-ग्रन्थालयेन समन्वितो वर्तते। सुप्रचलितटीकायुक्तशास्त्रैः सुव्यवस्थितःसुसज्जितो ग्रन्थालयः पठनशीलछात्रान् अध्येतुमाकर्षति। विश्वविद्यालये विभागशः अपि ग्रन्थानां समारोपणं विद्यते। ग्रन्थान्वेषणे छात्राणां सौकर्यं भवति। ग्रन्थालयेषु पुस्तकानि, मातृकाः च यथाविधि रक्षिताः सन्ति। छात्राणामध्यापकानाम्, कर्मचारिणां च पुस्तकप्राप्तौ ग्रन्थालये सरलावसरः कल्पितो वर्तते। अत्र गूढचारचक्षूंषि (CCTV) संयोजितानि। तेन दक्षता संवर्धिता। तेन उच्चाधिकारिणः कक्षे स्थित्वैव कार्यालयकार्याणि दृष्टुं शक्नुवन्ति। अतः छात्राः जागरूकतां वहन्ति। शोधच्छात्राणां पृथक्तया प्रकोष्ठव्यवस्था वर्तते। विश्वविद्यालयद्वारा प्रकल्पितानि सङ्गणकयन्त्रम्, Wi-Fi, मुद्रणयन्त्रम् च तेषाम् अनुसन्धानकर्मणि गुणोत्कर्षमाधातुं सहकारीणि भवन्ति। कार्यालयः उत्कृष्टोपकरणानि उत्पीठिकादीनि, सङ्गणकयन्त्राणि, मुद्रणयन्त्रम्, अन्तर्जालव्यवस्था, प्रतिकृतियन्त्रम् (Xerox Machine) इत्यादिना सौकर्येण समन्वितो वर्तते। विश्वविद्यालयस्य प्रकल्पितानि क्रीडाङ्गणमन्तर्देवशाला, पङ्क्तिबद्धवृक्षारोपणम् इत्यादीनि सौकर्याणि अध्येतॄणां कृते गेहप्रीतिं जनयन्ति।
- पठनपाठनविषये विश्वविद्यालये विद्यमानानि पर्याप्तसौविध्यानि, यथा कक्ष्याः, प्रयोगशालाः सङ्गणकसामग्र्यादीनां क्रमशःविवरणम् ।
प्रतिक्रिया-
- विश्वविद्यालयः अत्याधुनिकसौविध्ययुक्ताध्ययनाध्यापनविषयकवस्तुभिः पर्याप्तसौविध्यसंयुक्तः परिकल्पितः। छात्रेभ्यः अध्यापकेभ्यश्च कक्ष्याः, प्रयोगशालाः सङ्गणकसामग्री इत्यादीनि अवसररचनासंयुतानि तेषां शोधकार्यार्थञ्च उपलभ्यन्ते।। विश्वविद्यालयस्य नूतनभवने नूतनविभागाः नूतनतन्त्रांशवैज्ञानिकोपकरणसौविध्यसंयुक्ताः निर्मिताः। सम्पूर्णविश्वविद्यालयः उज्जयिनीनगरभूप्रदेशे क्रीडाक्षेत्रसंयुतं पञ्चवटीपरिसर इत्यादिभिः त्रिभवनसंयुतं विद्यते। समग्रविश्वविद्यालयपरिसरः10 हेक्टेयर-भूभागे च विराजते।
नूतनभवनानि-शैक्षणिक/शोध क्रीडा-योगः/ छात्रावासः-
- विगतपञ्चवर्षे विशेषतः संस्कृतद्वारा शास्त्राणामध्ययनाध्यापनार्थं वेदव्याकरणज्योतिषज्योतिर्विज्ञानादिविभागानां कृते भवननिर्माणमभवत्। विश्वविद्यालयस्थानानां सर्वविभागानां कृते ग्रन्थालयः, बहूपयोगी सभागारः, मनोरञ्जनकेन्द्रमत्याधुनिकावसंरचनासंयुतभवननिर्माणं चाभवत्। सुव्यवस्थितचलसामग्रीणां व्यवस्था परिकल्पिता वर्तते।
कक्षाः -
- विश्वविद्यालयस्य निखिलभवनेषु प्रकोष्ठानां परिगणनायां सत्यां (36) कक्षाः सन्ति तेषु एकः कक्षः सङ्गणकप्रयोगशालायाः कृते, एकः मनोविज्ञानप्रयोगशालायाः कृते, त्रयोदशकक्षाः अत्याधुनिककक्षायाः कृते, इत्यादिरूपेण सुसज्जिताः सन्ति।
सभागारः-
- सांस्कृतिककार्यक्रमाणां सौष्ठवेन सम्पादनार्थं विश्वविद्यालये योगेश्वरश्रीकृष्णभवनं नाम सभागारो विद्यते ।
सभामञ्चस्य सौविध्यम्-
- सभामञ्च: सर्वविधः अवसंरचनासंयुक्तः, सांस्कृतिककार्यक्रमार्थमपि तथा सामाजिककार्यार्थमपि उपयोगी अस्ति। छात्राणामध्यापकानां सामाजिकानां च सर्वविधसंवर्धनकार्यस्योपयोगाय भवति।
पी ए प्रणाली सौविध्यम्-
- पी ए प्रणाली सौविध्यमत्र आवश्यकैः अन्यसौविध्यैः युक्तः दृश्यश्रव्यमाध्यमयुक्तः LCD अन्तर्जालसम्पर्कः, ध्वनिवर्धकादियुक्तः च अस्ति। अपि च सर्वविधा अवसंरचनायुक्तः सांस्कृतिककार्यक्रमार्थमपि तथा सामाजिककार्यार्थमपि उपयोग्यः अस्ति। छात्राणामध्यापकानां सामाजिकानां च सर्वविधसंवर्धनकार्यस्य उपयोगः भविष्यति ।
मुक्तविस्तारसभागृहम् -
1.विश्वविद्यालये मुक्तविस्तारसभागृहं सौविध्येन संयुक्तः अस्ति। इदं छात्राणाम् अध्यापकानां कृते सांस्कृतिककार्यक्रमाणां मञ्चनार्थम्, अध्ययनोत्कर्षसम्बन्धार्थं चर्चा सङ्गोष्ठ्यादीनां प्रचलनार्थम् उपयोगाय प्रकल्पितं वर्तते ।
विश्वविद्यालये विद्यमानानि अन्यसौविध्यानि-
- सामान्यप्रतिदानेनैव छात्रावासीयव्यवस्था ।
- बहिस्थछात्राभ्यः आवासव्यवस्था ।
- CCTV, 1 GBPS अन्तर्जालसौविध्यं वैद्यकीयसौविध्यं च महिलाछात्राणामभिवृद्ध्यर्थं निर्मिता।
2. भोजनकक्षः -
- कर्मकरेभ्यः अतिथिभ्यश्च सौविध्यार्थम् अयं प्रकल्पितः।
3. जलपानपेयगृहम् -
- कर्मकरेभ्यः अतिथिभ्यश्च सुविधाजनकम् इदं जलपानगृहं कल्पितम्।
प्रयोगशालाः
1. मनोविज्ञानप्रयोगशाला-
मनोविज्ञानप्रयोगशाला सकलसौविध्येन छात्राणां मानसिकसामाजिकस्थैर्यसंवर्धनाय कार्यरता अस्ति। मनोविज्ञानं भिन्नभिन्नस्तरे क्षेत्रे च शोधार्थिभ्यः सहायकं भवति ।
सूचना-संप्रेषणप्रौद्यौगिकावसंरचना-सौविध्यानि-
- अस्य उद्देश्यम् अस्ति यत् सूचनासंप्रेषणप्रौद्यौगिकस्य सुचारुरूपतया विश्वव्यापकत्वेन च प्रसारणम्, अनेनान्तर्जालः तथा जालपटस्य सौविध्यप्रकल्पनद्वारा पाठने शोधकार्ये च साहाय्यं विधातुं वर्तते । अनेन ई-पुस्तकम्, ई- पत्रिकाः इत्यादिनां सुलभतया प्राप्तुं ई-अध्ययनार्थं कौशलविकासार्थम्, उद्योगान्वेशणप्राप्त्यर्थं च सहायकं भवति। अनेनाधुना कालेन स्फूर्थ -कक्षार्थमपि सहायी भवति।
File Description | Document |
---|---|
Any additional information अतिरिक्तसूचनानां सन्धानम् | View Document |
Link for additional information अतिरिक्ताः सूचनाः | View Document |
4.1.2 The institution has adequate facilities for1. Seminar/ Conference Hall with infrastructural facilities2. Auditorium for cultural activities3. Laboratory for Functional Sanskrit4. Yajnashala5. Observatory6. Language Laboratory7. Psychology Laboratory8. Meditation Centre9. Sports, games (indoor, outdoor, gymnasium, etc)10. Artifacts Museum Ancient Arts/ Objects’ Museum11. Heritage Museum12. Manuscript Resource Centre (MRC)13. Manuscript Conservation Centre(MCC)14. Recording Studio/ e-P.G.Pathshala Facilities15. Yoga Training and or Therapy Centre with modern equipments16. Liasion with Bharat Vani Portal17. Sanskrit-Science/ Agama Exhibition Facilitiesसंस्थायाम् अधोनिर्दिष्टानि सौविध्यानि पर्याप्तानि सन्ति।1. मूलसौविध्ययुतं सङ्गोष्ठीभवनम्2. सांस्कृतिकादिकार्यक्रमाणां कृते सभागृहम्3. प्रायोगिकसंस्कृतप्रकोष्ठः।4. यज्ञशाला।5. वेधशाला।6. भाषाप्रयोगशाला।7. मनोविज्ञान-प्रयोगशाला।8. ध्यानकेन्द्रम्।9. क्रीडासौविध्यानि (अन्तर्द्वार-बहिर्द्वार-देहदार्ढ्यादिकम्)10. कलाकृतिसङ्ग्रहालयः। (प्राचीनकलानां/ वस्तूनां सङ्ग्रहालयः)11. प्राचीनशिल्पकलासङ्ग्रहालयः12. पाण्डुलिपिसंसाधनकेन्द्रम् (एम्.आर्.सि.)13. पाण्डुलिपिसंरक्षणकेन्द्रम् (एम्.सि.सि.)14. ध्वनिमुद्रणालयः/ इ-पी.जी-पाठशालासुविधाः।15. योगशिक्षणकेन्द्रम्/ आधुनिकोपकरणयुक्तं योगचिकित्साकेन्द्रञ्च।16. भारतवाणीपोर्टल् इत्यनेन सहयोगः।17. संस्कृतविज्ञान-आगमप्रदर्शनसुविधाः।
Answer:
- विश्वविद्यालये संस्कृतस्य /शास्त्राणाम् अध्ययनाय अध्यापनाय च सन्ति बहव्यः सुविधाः। पाठ्यसहगामिक्रियाणां निष्पत्तये च सौविध्यानि वर्तन्ते।
- मूलसौविध्ययुतं सङ्गोष्ठीभवनम्-
- विश्वविद्यालये पाणिनिकक्ष इति नाम्नी सङ्गोष्ठीशाला वर्तते।
- सङ्गोष्ठीशालायां प्रक्षेपकः (प्रोजेक्टर्), पटलः (स्क्रीन्) च समवेतो वर्तते। सुखासनैः अलङ्कृता वेदिका, अलङ्कृताः उत्पीठिकाः, सुप्रसारीध्वनिवर्धकः, उत्तमानि श्रव्यसाधनानि च सङ्गोष्ठीशालायां वर्तन्ते।
- सांस्कृतिकादिकार्यक्रमाणां कृते सभागृहम्-
- विश्वविद्यालये योगेश्वरश्रीकृष्णयोगभवनं नामधेयं सभागृहं भारतीयानां सांस्कृतिकतत्त्वानां विषये प्रेरणादानार्थं विश्वविद्यालयस्य विशिष्टं सभागृहं वर्तते। उत्कृष्टानि श्रव्यसाधनानि, दृश्यसाधनानि, Ultrasound उत्तमध्वनिव्यवस्था, बहुवर्णकाः विद्युद्दीपाः, सुखासनानि, अलङ्कृतवेदिका च सन्ति।
- सङ्गोष्ठीशालायां वातनियन्त्रकं योजितं वर्तते।
- स्त्रीणां पुरुषाणां च प्रत्येकं सुविधाप्रकोष्ठाः सन्ति।
- छात्रैः सांस्कृतिककार्यक्रमान् साधुतया प्रस्तोतुं योग्येयं शाला बहूनां कार्यक्रमाणां स्थानं वर्तते। युवमहोत्सवः, दीक्षान्तसमारोह इत्यादयः कार्यक्रमाः अस्याम् शालायां आयोज्यन्ते।
- प्रायोगिकसंस्कृतप्रकोष्ठ-
- विश्वविद्यालये प्रायोगिकसंस्कृतप्रकोष्ठः प्रवर्तन्ते। तत्र इमानि विशेषाधानहेतूनि संसाधनानि सन्ति।
- सङ्गणकयन्त्राणि
- दृश्यसाधनानि
- श्रव्यसाधनानि
- सुखासनानि
- वैद्युतीयफलकम्
- Wi-Fi
- यज्ञशाला-
- शैक्षिकसत्रस्य आरम्भावसरे, विशिष्टेषु पर्वसु च याज्ञिककार्यस्य अनुष्ठानाय यज्ञशाला अपेक्ष्यते।
- निर्विघ्नतया सत्राणां सञ्चालनाय भगवतः आराधना कर्तव्येति समुदाचारः।
- विश्वविद्यालये यज्ञशाला वर्तते। यज्ञशालायां यज्ञवेदी, पूजास्थलम्, पूजासामग्री च समासादिता वर्तते।
- लब्धप्रवेशैः छात्रैः तत्सम्बन्धिपाठ्यक्रमेषु याज्ञिकप्रक्रियायाः प्रायोगिकपक्षं ज्ञातुम् अवसरः कल्पितो वर्तते।
- मनोविज्ञानप्रयोगशाला-
मनोवैज्ञानिकाः प्रयोगाः अस्यां शालायां क्रियन्ते। बी.ए.बी.एड. शिक्षाशास्त्रिपाठ्यक्रमे अध्ययनांशत्त्वेन एते प्रयोगाः निर्दिष्टाः सन्ति। अत्र प्रायोगिकपरीक्षा क्रियते। छात्रेभ्यः तदाधारेण अङ्काः दीयन्ते। इयं शाला विविधैः प्रयोगोपकरणैः समुपेता वर्तते।
- अवधानविस्तृतिमापनोपकरणम् (Techistoscope)
- दर्पणरेखाचित्रोपकरणम् (Mirror drawing apparatus)
- प्रासङ्गिक-अन्तर्बोधपरीक्षणम् (Thematic Apperception Test (TAT))
- रोषामषीचिह्नपरीक्षा (Rorschach test) बुद्धिपरीक्षणम् (Intelligence test)
- व्यक्तित्वपरीक्षणम् (Personality test) इत्यादयः प्रयोगाः अत्र प्रवर्तन्ते।
सूचना-सम्पर्कप्रौद्योगिकीप्रयोगशाला -
डिश्, पटलः, चित्रप्रक्षेपकः, अभ्युन्नतप्रक्षेपकः, सङ्गीतोपकरणम्, सिडीप्रवर्तकम्, दूरदर्शनम्, इत्याद्यैः उपकरणैः समुपेता सूचनासम्पर्कप्रौद्योगिकीप्रयोगशाला वर्तते।
- क्रीडासौविध्यानि (अन्तर्द्वार-बहिर्द्वार-देहदार्ढ्यादिकम्) -
विश्वविधालये क्रीडाङ्गणं वर्तते। क्रीडाङ्गणे क्षेपणम्, धावनम्, कूर्दनम्, खोखो, कबड्डी, क्रिकेट्, वाल्लिबाल् इत्यादीनां क्रीडाणां क्रीडनाय व्यवस्था वर्तते। छात्राणां क्रीडार्थम् अपेक्षितानि उपकरणानि प्रकल्पितानि। तानि स्थानीय-राज्यस्तरीय-राष्ट्रस्तरीयस्पर्धार्थं सिद्धताः कर्तुं सौविध्यानि साहाय्यम् आचरन्ति।
- पाण्डुलिपिसंरक्षणकेन्द्रम् –
- ये वर्तते। बहवो मातृकाः तत्र संरक्षिताः सन्ति।
- ध्वनिमुद्रणालयकेन्द्रम्-
विश्वविद्यालये ध्वनिमुद्रणालयकेन्द्रमपि वर्तते।
- योगशिक्षणकेन्द्रम् –
- विश्ववद्यालये योगशिक्षणस्य सौकर्यं कल्पितं वर्तते।
- प्रातः सायं च छात्राः परिसरसदस्याश्च योगशिक्षणाय प्रोत्साह्यन्ते।
- भारतवाणीसंसाधनसहयोगकेन्द्रम्-
विश्वविद्यालये भारतवाणीसंसाधनसहयोगः विद्यते।
- संस्कृतविज्ञान-आगमप्रदर्शनसुविधाकेन्द्रम्-
विश्वविद्यालये विद्यते।
File Description | Document |
---|---|
Videos and photographs (geotagged) स्थलनिर्देशनसहितानि चित्राणि/चित्राङ्कणम् | View Document |
Any additional Information अतिरिक्ताः सूचनाः | View Document |
4.1.3 The institution has adequate facilities like health centre, bank, ATM, post office, theatre, women centre, counseling centre and cultural activities centre etc.संस्थायाम् आरोग्यकेन्द्रं, वित्तकोशः, स्वयंचालितधनदयन्त्रम्, पत्रालयः, रङ्गमण्डपः, महिलाकेन्द्रम्, परामर्शकेन्द्रम् सांस्कृतिककार्यक्रमकेन्द्रम् इत्यादीनि पर्याप्तरूपेण उपलभ्यन्ते।
Answer:
- - विश्वविद्यालये कार्यरतानां शिक्षकाणां कर्मचारिणां, छात्राणां च स्वास्थ्यसंरक्षणाय आरोग्यकनेद्रं स्थापितं विद्यते। यत्र चिकित्सकः स्वास्थलाभाय चिकित्सां करोति। उत्तमस्वास्थ्यरक्षणोपायान् च उपदिशति।
- स्वयंचालितधनदयन्त्रम्- विश्वविद्यालयमति निकषा स्वयं चालितधनदयन्त्रं स्थापितं विद्यते। विश्वविद्यालयीयच्छात्राणां सौविध्याय विश्विद्यालयद्वारा आनलाइनविधिना अर्थविनिमयस्य व्यवस्था वेवसाइटमध्ये लिंक प्रदाय कृता वर्तते।
- महिलाकेन्द्रम्- विश्वविद्यालये अध्ययनरतानां महिलाछात्राणां, महिलाप्राध्यापकानां कर्मचारिणां च सौविध्याय समस्या समाधानाय महिलाकेन्द्रं स्थापितं विद्यते। यत्र महिलानां स्वास्थ्यसौविध्यादि-आवश्यकतानुणं सर्वाः व्यवस्थाः कृताः सन्ति।
- परामर्शकेन्द्रम्- विश्विद्यालये योगविभागद्वारा योगपरामर्शकेन्द्रं स्थापितं विद्यते। यत्र विभागीयाः शिक्षकाः सामाजिकान् परामर्शकेन्द्रे योगस्य महत्त्वं स्वास्थ्यरक्षणाय योगस्य उपयोगः, निरन्तरं स्वास्थ्यसंवर्धनाय च योगस्याचरणादिकं परामृशन्ति।
- सांस्कृतिककार्यक्रमकेन्द्रम्- विश्वविद्यालये अध्ययनसूची छात्राणां रचनात्मकाभिनयात्मकवाक्कलादिकौशलवृद्धये सांस्कृतिककार्यक्रमकेन्द्रमिति स्थापितं विद्यते। अत्र छात्राः स्वस्वरुच्यानुसारं कार्यक्रमेषु भागं गृहीत्वा कौशलं वर्धयन्ति।
विश्वविद्यालये योगविभागेन योगपरामर्शकेन्द्रमपि चाल्यते यत्र योगेन रोगाणाम् उपचारः क्रियते। प्राकृतिकोपचारेण च ब्याधयः उपचार्यन्ते। तत्र विश्वविद्यालयस्य छात्रान् भिक्षकाः कर्मचारिणश्च लाभं गृह्णन्ति। बहिष्ठादपि जनाः आगच्छन्ति लाभं च प्राप्नुवन्ति।
File Description | Document |
---|---|
Any additional information | View Document |
link for additional information | View Document |
4.1.4 Percentage of classrooms and seminar halls with ICT - enabled facilities such as smart class, LMS (Learning Management System), etc. (preceeding academic year data)सूचनासंप्रेषणप्रविधf-स्फूर्तकक्ष्या-अधिगमप्रबन्धप्रणालीप्रभृतिभिः उपोद्बलितकक्ष्याणां, सङ्गोष्ठीकक्ष्याणां च प्रतिशतता। (गताध्ययनवर्षस्य दत्तांशः)
Answer: 53.33
4.1.4.1 Number of classrooms and seminar halls with ICT facilitiesउपोद्बलितकक्ष्याणां, सड्गोष्ठीकक्ष्याणां च सङ्ख्या।
Answer: 16
4.1.4.2 Total number of classrooms and seminar hallsकक्ष्याणां सङ्गोष्ठीकक्ष्याणां सङ्ख्या
Answer: 30
File Description | Document |
---|---|
Number of classrooms and seminar halls with ICT enabled facilities (Data Template) • सूचनासंप्रेषणप्रविध्या स्फूर्तकक्ष्या-अधिगमप्रबन्धप्रणालीप्रभृतिभिः उपोद्बलितकक्ष्याणां, सड्गोष्ठीकक्ष्याणां च सङ्ख्या (दत्तांशप्रारूपम्) | View Document |
Any additional information अतिरिक्ताः सूचनाः | View Document |
Provide link for additional information, (Hyper linked video)• अतिरिक्तसूचनानां सन्धानम् (परिसन्धितचलनचित्राणि) | View Document |
4.1.5 Average percentage of expenditure, excluding salary for infrastructure augmentation during the last five years (INR in Lakhs)विगतेषु पञ्चसु वर्षेषु वेतनाद् ऋते मूलभूतसौविध्यसंवर्धनाय कृतस्य व्ययस्य प्रतिशततायाः साधरणमानम् (लक्षशः)
Answer: 2.53
4.1.5.1 Expenditure for infrastructure augmentation, excluding salary year-wise during the last five years (INR in lakhs)विगतेषु पञ्चसु वर्षेषु वेतनं विहाय मूलभूतसौविध्यसंवर्धनाय कृतः व्ययः वार्षिकक्रमेण। (लक्षशः)
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
1.70 | 1.74 | 2.67 | 3.97 | 5.25 |
File Description | Document |
---|---|
Upload Details of budget allocation, excluding salary during the last five years | View Document |
Upload audited utilization statements आयव्ययलेख-धनोपयोगपत्राणि | View Document |
Any additional information अतिरिक्ताः सूचनाः | View Document |
Other Upload Files | |
---|---|
1 | View Document |
4.2.1 Library is automated using Integrated Library Management System (ILMS)ग्रन्थालयः पूर्णरूपेण स्वयंप्रवृत्तः यत्र समन्वितग्रन्थालय-प्रबन्धनप्रणाली उपयुज्यते।
Answer:
- विश्वविद्यालयीये ग्रन्थालये समन्वितग्रन्थालयप्रबन्धनप्रणाल्याः तन्त्रांशः उपयुज्यते। तत्र विश्वविद्यालयस्य ‘ई-ग्रन्थालयः आवृत्त्या संयुक्तो वर्तते। पूर्वं ई-ग्रन्थालयः 0.4 आवृत्तिः उपयुज्यते स्म। ई-ग्रन्थालयः भारतसर्वकारस्य एलेक्ट्रानिक् एवं सूचना प्रौद्योगिकी मन्त्रालयः इत्यनेन विकसितः सन् निरूह्यमाणो वर्तते। असौ सर्वकारीयग्रन्थालयानां यान्त्रीकृतव्यवस्था भवति। अस्यां वेदिकायां राष्ट्रियसूचनाकेन्द्रम् (NIC) डिजिटल् मापकाङ्केन सह ग्रन्थालयप्रबन्धनतन्त्रांशस्य कार्यप्रणालीं निर्वहति। असौ प्रत्येकस्थानदः तन्त्रांशः, कार्यनिर्वाहाय सिद्धः तन्त्रांशः वर्तते। अयं PostgreSQL तन्त्रं स्वीकृत्य कार्यं कर्तुं क्षमतां धत्ते। सद्यस्कतया दत्तांशानाम् उपारोपणम् अत्र सुशकं भवति। आरोपितायां ग्रन्थावल्यां ग्रन्थानाम् अन्वेषणे सौविध्यं वर्तते। ई-ग्रन्थालये सरलेन विधानेन स्वाभीष्टं ग्रन्थम् अन्वेष्टुम् शक्नोति। तदर्थं ग्रन्थालयेषु एकैकम् OPAC यन्त्रं संयोजितं वर्तते। किञ्च NICSI आवलिनिर्मितिगुणोपेतं वर्तते। अस्मिन् ग्रन्थालये छात्राः, शोधच्छात्राः, अध्यापकाः, उद्योगिनः अन्ये च विश्वविद्यालयस्य सदस्याः सुलभतया प्रवेशं प्राप्तुं शक्नुवन्ति। इच्छुकाः बाह्या अपि विशेषानुमत्या प्रवेशं लब्धुं शक्नुवन्ति। Cloud आवृत्त्या समन्वितस्य ‘ई-ग्रन्थालयस्य लक्षणानि एवं सन्ति-
1. सद्यस्कं सार्वजनिकोपयुक्तं केटलाग् (OPAC)
1. सुलभतया अन्वेषणसौकर्यम् – ग्रन्थनाम, अनुपलब्धपुस्तकान्वेषणम्, सन्दायिपञ्जिका इत्यादि।
2. पाठकानां कृते ई मेल् तथा सन्देशद्वारा सूचनादानम्
3. विविधसूचीनिर्माणम्- लेखकानुसारं विषयानुसारं च कवाटिकासूची, ग्रन्थसूची प्राचीनतन्त्रांशगतानां दत्तांशानां नवीनतन्त्रांशे समारोपणकारणात् विश्वविद्यालयस्य समयसाध्यस्य स्वयंचलितग्रन्थालयस्य आंशिकरूपेण कार्यं सम्पन्नं वर्तते।
विश्वविद्यालयस्य ग्रन्थालयाः अधोनिर्दिष्ट-आचरणाय समन्वितग्रन्थालयप्रबन्धनतन्त्राशम् (ILMS) उपयुज्यते।
1. तन्त्रांशे शीर्षकाणां सूचीनिर्माणम्
2. तन्त्रांशे शीर्षकाणां प्रतीनां सूचीनिर्माणम्
3. पुस्तकानां वितरणस्य विवरणम् (पुस्तकानां निर्गमः तथा स्वीकृतिः)
4.OPAC माध्यमेन कैटलॉग- अन्वेषणे उपयोक्तृणां कृते मुक्तावसरप्रदानम्।
File Description | Document |
---|---|
Any additional information अतिरिक्ताः सूचनाः | View Document |
link for additional information अतिरिक्तसूचनानां सन्धानम्। | View Document |
4.2.2 Collection of rare books, manuscripts, special reports or any other knowledge resource for library enrichmentग्रन्थालयसंवर्धनार्थं विरलपुस्तकानां, पाण्डुलिपीनां, विशिष्टप्रतिवेदनानाम्, अन्यान्यशैक्षिकसंसाधनानां च संग्रहः।
Answer:
महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्यास्य ग्रन्थालये विरलपुस्तकानाम्, पाण्डुलिपीनाम्, विशिष्टप्रतिवेदनानाम्, अन्यान्यशैक्षिकसंसाधनानां च सङ्ग्रहः वर्तते। संस्कृत/शास्त्रसम्बद्धाः ग्रन्थाः विरलोपलभ्याः, पाण्डुलिपिनिष्ठाः च सन्ति। विश्वविद्यालयस्य पुस्तकालये वेदः,व्याकरणम्, ज्योतिषम्, न्यायः, अद्वैतवेदान्तः, सांख्यम्, मीमांसा,पुराणम्, रामायणम्, धर्मशास्त्रम्, महाभारतम्, तन्त्रम्, उपनिषदः, संहिता, शिक्षाशास्त्रम्, आङ्ग्लम्, हिन्दी इत्यादिविषयकानि 5800 तः अधिकानि मुद्रितपुस्तकानि सङ्गृहीतानि सन्ति। शिक्षा, सङ्गणकविज्ञानम्, मानविकीशास्त्रम्, सामाजिकविज्ञानम्, हिन्दी, आङ्ग्लम् इत्यादिवषयकानि पुस्तकानि अपि वर्तन्ते। विशिष्टाः पत्रिकाः, सामान्याः पत्रिकाः, शोधप्रबन्धाः च सङ्गृहीताः सन्ति। साप्ताहिकी, मासिकी, त्रैमासिकी, अर्धवार्षिकी वार्षिकी च पत्रिकाः बहुसंख्यायां सन्ति।
विवरणमधस्तनं विद्यते-
- विरलपाण्डुलिपयः- 10
- मुद्रितपुस्तकानि-5800
- ई-पुस्तकानि- 24
- शोधच्छात्राणां शोधप्रबन्धाः-50
- अत्यन्तं दुर्लभानि पुस्तकानि-70
- पत्रिकाः-11
- वार्तापत्रिका-05
पुस्तकालये एका विशिष्टा योजना कृता वर्तते। साऽस्ति पुस्तकदानस्य । अनया योजनया नैके जनाः शताधिकानि पुस्तकानि दानं कृतवन्तः तेन छात्राणां कृते अन्येषां च पाठकानां कृते अध्ययने सौकर्यं जातम्। विश्वविद्यालयस्य पुस्तकालयः आधुनिकसुविधाभिः सह संयुक्तः सन् सर्वसौविध्ययुक्ततां प्रति अग्रेसरो वर्तते।
File Description | Document |
---|---|
Any additional information अतिरिक्ताः सूचनाः | View Document |
link for additional information अतिरिक्तसूचनानां सन्धानम् | View Document |
4.2.3 Does the Institution/ Library have the following:1. Back Volumes of Rare Sanskrit Journals/Indological Journals/ Journals Related to Sanskrit Studies like Indian Historical Quarterly (IHQ)/ Annals of Bhandarkar Oriental Research Institute (ABORI)/ Brahmavidya/Sarasvati-sushama etc2. Sanskrit magazines and Sanskrit Periodicals3. e-journals4. e-books5. e-dictionaries of Sanskrit6. Sanskrit Databases7. Bharatavani Portal8. CD’s/DVD’s/other e-materials for the study of Vedas9. Electronic Display Board10. Internet/ Wifi Facility11. Search Facility12. Reprographic facilityग्रन्थालये अधोदर्शितानि कियन्ति सन्ति ?1. संस्कृतपत्रिकाणां/ भारतीयविद्यापत्रिकाणां प्राचीनसम्पुटानि/ संस्कृतविद्यासम्बद्धपत्रिकाः यथा – भारतीयेतिहासत्रैमासिकी/ भण्डारकरप्राच्यविद्यापत्रिका/ ब्रह्मविद्या/ सारस्वतीसुषमाप्रभृतयः2. संस्कृतपत्रिकाः नियतकालिकसंस्कृतपत्रिकाश्च3. वैद्युतपत्रिकाः4. वैद्युतग्रन्थाः5. वैद्युताः संस्कृतभाषाकोषाः6. वैद्युतदत्तांशनिधिः7. भारतवाणीसंसाधनानि8. वेदग्रन्थानां पाठनाय ध्वनिमुद्रिकाः सान्द्रमुद्रिकाः अन्याश्च9. वैद्युतं प्रदर्शनफलकम्10. अन्तर्जाल/निस्तन्त्रिजालसौविध्यम्11. सङ्गणकीयगवेषणसौविध्यम्12. छायाप्रतिसौविध्यम्
Answer: A. Any 4 of the above (अ. उपरि निर्दिष्टेषु यानि कानिचित् चत्वारि)
File Description | Document |
---|---|
Details of subscriptions like e-journals, e-ShodhSindhu, Shodhganga Membership etc (Data Template)• वैद्युतपत्रिकाः, वैद्युतशोधसिन्धुः, शोधगङ्गासदस्यता, वैद्युतग्रन्थाः इत्यादीनां धनांशदानस्य विवरणम्। (दत्तांशप्रारूपम्) | View Document |
Any additional information | View Document |
Other Upload Files | |
---|---|
1 | View Document |
4.2.4 Average annual expenditure for purchase of books and journals during the last five years (INR in Lakhs)पुस्तकानां पत्रिकाणां च क्रयणाय विगतपञ्चवर्षेषु व्ययितस्य धनस्य वार्षिकं मध्यमानम्। (लक्षशः)
Answer: 1.04
4.2.4.1 Annual expenditure for purchase of books and journals year-wise during the last five years (INR in lakhs)पुस्तकानां पत्रिकाणां च क्रयणाय विगतपञ्चवर्षेषु व्ययितस्य धनस्य वार्षिकव्ययः (लक्षशः)
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
0.37 | 0.26 | 0.17 | 4.38 | 00 |
File Description | Document |
---|---|
Details of annual expenditure for purchase of books and journals during the last five years (Data Template) पुस्तकानां पत्रिकाणां च क्रयणाय विगतपञ्चवर्षेषु व्ययितस्य धनस्य विवरणम्। (दत्तांशप्रारूपम्) | View Document |
Audited statements of accounts अङ्केक्षणविवरणम् | View Document |
Any additional information अतिरिक्ताः सूचनाः | View Document |
4.2.5 Availability of remote access to e-resources of the library(Yes /No)ग्रन्थालयस्य वैद्युतसंसाधनानां सुदूरसन्धानम् अस्ति वा ?(अस्ति/नास्ति)
Answer: Yes
File Description | Document |
---|---|
Details of remote access to e-resources of the library (Data Template) ग्रन्थालयस्य वैद्युतसंसाधनानां दूरतः सन्धानस्य विवरणम्। (दत्तांशप्रारूपम्) | View Document |
Any additional information अतिरिक्ताः सूचनाः। | View Document |
Provide a link of the data uploaded in the institutions website संस्थायाः जालस्थानाम् उपारोपितस्य दत्तांशस्य सन्धानं प्रयच्छतु। | View Document |
4.2.6 Percentage per day usage of library by teachers and students (preceeding academic year data)अध्यापकैः छात्रैश्च प्रतिदिनं ग्रन्थालयोपयोगस्य प्रतिशतता (गताध्ययनवर्षस्य दत्तांशः)
Answer: 25.1
4.2.6.1 Number of teachers and students using library per day over last one yearगतवर्षे प्रतिदिनं ग्रन्थालयोपयोगं कृतवताम् अध्यापकानां छात्राणाञ्च सङ्ख्या।
Answer: 123
File Description | Document |
---|---|
Details of library usage by teachers and students • अध्यापकैः छात्रैश्च प्रतिदिनं ग्रन्थालयोपयोगस्य विवरणम्। | View Document |
Any additional information अतिरिक्ताः सूचनाः | View Document |
Provide a link of the data uploaded in the institutions website संस्थायाः जालस्थाने उपारोपितस्य दत्तांशस्य सन्धानं प्रयच्छतु। | View Document |
4.2.7 E-content is developed by teachers : 1. For e-PG-Pathashala 2. For CEC (Under Graduate) 3. For SWAYAM4. For other MOOCs platform 5. For NPTEL/ NMEICT/ any other Government initiative 6. For institutional LMS 7. E-books Uploded on Websiteअध्यापकैः विकासिताः वैद्युतीयपाठ्यांशाः- 1. ई-पीजी-पाठशालायाः कृते 2. शैक्षिक-सम्प्रेषण-सङ्घटनस्य कृते (स्नातकस्तरे)3. ‘स्वयम्’ - कृते 4. ‘मूक्स’ - कृते 5. एन्-पी-टि-ई एल्/ एन् एम्-ई-ऐ-सी-टी/ अन्येषां सर्वकारीयोपक्रमाणां कृते 6. सांस्थानिक्याः ग्रन्थालयप्रबन्धनप्रणाल्याः कृते 7. सङ्ख्याद्वारा प्रवर्धितानां विविधपरियोजनानां कृते (नामोल्लेखः करणीयः)
Answer: A. Any 5 of the above (अ. उपरि निर्दिष्टेषु कानिचित् पञ्च)
File Description | Document |
---|---|
Details of e-content developed by teachers for e-PG-Pathshala, CEC (UG) (Data Template) एन्-पी-टि-ई एल्/एन् एम्-ई-ऐ-सी-टी इत्यादीनां कृते अध्यापकैः विकासितानां वैद्युतीयपाठ्यांशानां विवरणम्। (दत्तांशप्रारूपम्) | View Document |
Any additional information अतिरिक्ताः सूचनाः | View Document |
Give links or upload document of e-content developed विकासितानां वैद्युतपाठ्यांशानां सन्धानम् | View Document |
4.3.1 Institution frequently updates its IT facilities including Wi-Fi, Email and Internet Facilities are given to Faculty and Students with Institutional ID’sसंस्था निस्तन्त्रि-अणुसङ्केत-अन्तर्जालसमेतानां सूचनाप्रविधिसौविध्यानां पौनःपुन्येन संवर्धनं करोति सांस्थिकीः परिचायिकीः प्राप्तवद्भ्यः छात्रेभ्यः अध्यापकेभ्यश्च वैद्युतपत्राङ्कान्, अन्तर्जालसौविध्यानि च संस्था ददाति। wi – fi सहितं सूचनाप्राविधिकसौविध्यानाम् अद्यतनीकरणस्य दिनाङ्कं स्वरूपञ्च विवृणोतु।
Answer:
- साम्प्रतिके काले शैक्षिकेषु प्राशासनिकेषु च कार्येषु निस्तन्त्रिव्यवस्थायाः अन्तर्जालव्यवस्थायाश्च अनिवार्यता वर्तते। काले काले व्यवस्थायाः अस्याः संवर्धनं मुख्यं कर्म भवति। अतः परिवर्त्यमानायाः अपेक्षायाः अनुसारं विश्वविद्यालयद्वारा सङ्गणकेषु तन्त्रांशस्य स्थापना क्रियते। सङ्गणकीय- कार्यतन्त्रस्य यथासमयं संवर्धनमपि विधीयते। वैराणुनिरोधकः सङ्गणकस्य रक्षाकवचः भवति। अतः समये समये वैराणुनिरोधकस्य नवीकरणं क्रियते।
- सङ्गणकानां लघु समीकरणकार्यं/ शोधनं चेत्तत् परिसरस्तरे सम्पद्यते। यदि हार्ड्- डिस्क् इत्यादिषु अवयवेषु मुख्यं शोधनम् अपेक्षितम् तर्हि सम्बद्धायाः संस्थायाः यन्त्रज्ञद्वारा शोधनं कार्यते।
- निस्तन्त्रि अक्षरफलकं, मौस् इत्यादिकं वस्तुजातं तान्त्रिकव्यवस्थायां नवीनत्वं निरूपयति। अतः विश्वविद्यलयीय-तान्त्रिकव्यवस्थायां तादृशानि अक्षरफलकानि संयोजितानि।
- गुणोत्कृष्टं मुद्रणयन्त्रम् (Printer) मुद्रणे उत्कर्षम् आनयति । अतः विश्वविद्यालये गुणोपेतं मुद्रणयन्त्रं व्यवस्थापितं वर्तते।
- अन्तर्जालस्य वेगवर्धने, ‘Wi-Fi साधनम्’ महोपकारकं वर्तते। छात्राणाम् अध्यापकानां कर्मचारिणां च उपयोगाय परिसरेषु Wi-Fi व्यवस्था कल्पिता वर्तते। काले काले तस्याः व्यवस्थायाः संवर्धनं नवीकरणं च विधीयमानम् अस्ति।
- विश्वविद्यालये विद्यमानायां भाषाप्रयोगशालायां तन्त्रांशः काले काले नवीकृतो वर्तते।
- पुस्तकालये ई-सामग्रीणां निर्माणं विहितं वर्तते। Covid 19 विषमकाले छात्र-अध्यापकयोः सम्पर्कसाधनन्तु अन्तर्जालमेव अभवत्। अन्तर्जालावलम्बि-अध्यापनकर्मणा छात्राः क्लेशम् अन्वभूवन् तेषु वेगवतः तत्साधनस्य दौर्लभ्यात्। तस्मिन् काले Wi-Fi साधनस्य अपेक्षाः अवर्धन्त। अपेक्षानुगुणं विश्वविद्यालयद्वारा तत्स्थापितं वर्तते। तस्मिन् विषमकाले ई-अध्ययनसामग्रीनिर्माणकार्यम् आरभ्यत। तत्परिणामेन सम्प्रति विविधेषु शास्त्रीयेषु विषयेषु ई-सामग्र्यः निर्मिताः अभूवन्।
- विश्वविद्यालयः भारतसर्वकारस्य ‘डिजिटल् इंडिया’ इति योजनाम् अनुसरति। तां सफलयितुं प्रयतते। अतः विश्वविद्यालयः कार्यालयेषु कर्गदरहितं पत्रव्यवहारम् एधते।
- सर्वेषां सदस्यानां पात्त्रिकं सम्पर्कम् अपि ई-मैल् माध्यमेन निर्वहति। तदर्थं विश्वविद्यालयस्य सर्वेभ्यः सदस्येभ्यः अणुसङ्केतः (इमेल) प्रदत्तः वर्तते। सदस्याः सूचनापत्राणि, अधिसूचनानि, आदेशपत्त्राणि, निर्देशपत्त्राणि च अणुसङ्केतद्वारा प्राप्नुवन्ति। छात्राश्च स्वीयं अणुसङ्केतं रक्षन्ति। प्रवेशप्रक्रिया, परीक्षाशुल्कप्रदानम् इत्यादिकार्यार्थं तेषां कृते अणुसङ्केतस्य अनिवार्यता कृता वर्तते। तद्द्वारा ते शुल्कप्रदानादिकार्यं निर्वहन्ति।
- विश्वविद्यालये सर्वोऽपि वित्तीयः व्यवहारः सद्यस्कमाध्यमेन प्रवर्तनीयः इत्यतः तादृशी व्यवस्था कल्पिता वर्तते। छात्राणां छात्रवृत्तिः, शोधच्छात्राणां शोधवृत्तिः, अन्यानि देयानि च सद्यस्कमाध्यमेन प्रवर्त्यन्ते। विश्वविद्यालयः एतानि कार्याणि सद्यस्कमाध्यमेन निर्वहन् ‘डिजिटल् इंडिया’ इति योजनाम् स्वीकरोति।
- छात्राणाम्, अध्यापकानाम्, उद्योगिनां च अपेक्षाः पूरयितुं विश्वविद्यालयः ICT सौलभ्यं काले काले नवीकरोति।
- दर्शनीयकक्षा (स्मार्ट्-क्लास्) व्यवस्थापिता वर्तते। विशेषतः शास्त्रिशिक्षाशास्त्रिच्छात्रेषु, शैक्षणिकप्रविधेः, अध्यापनकौशलानां च आधाने इयं कक्ष्या बहूपयोगिनी वर्तते।
- साम्प्रतं इप्लेटफॉर्मर इत्यस्य सर्वत्र विद्यमानं प्राधान्यं जानता विश्वविद्यालयेन कर्गदस्योपयोगं न्यूनीकरोति। विश्वविद्यालयस्य शैक्षिककार्याणां प्रसारः ट्विट्टर्, फेस् बुक् व्हाट्सप् इत्यादिसामाजिकमाध्यमेन (सोशलमीडिया) क्रियमाणो वर्तते। छात्राणां वाट्स्-आप् गणाः निर्मिताः सन्ति। तेन कक्ष्यायाः टिप्पणीः, शैक्षणिकवार्त्ताः च छात्रैः तूर्णं प्राप्तुं शक्यन्ते।
- विश्वविद्यालयस्य www.mpsvv.ac.in इति वेवसाइटमाध्यमेन सूचना प्रसार्यते।
विश्वविद्यालये छात्राः शिक्षकाश्च सङ्गणकयन्त्रोपयोगाय निरन्तरं प्रोत्साह्यन्ते। येन आधुनिकतकनीकस्य उपयोगं कृत्वा ज्ञानस्य विस्तारः स्यात्।
File Description | Document |
---|---|
Any additional information अतिरिक्ताः सूचनाः | View Document |
link for additional information अतिरिक्तसूचनानां सन्धानम्। | View Document |
4.3.2 Student - Computer ratio (preceding academic year data)छात्र-गणकयन्त्रानुपातः (गताध्ययनवर्षस्य दत्तांशः)
Answer: 10.27
4.3.2.1 Total number of computers in the campus for academic purposeपठनप्रक्रियार्थं परिसरेषु वर्तमानानां गणकयन्त्राणां सङ्ख्या
Answer: 45
File Description | Document |
---|---|
Student – computer ratio अतिरिक्ताः सूचनाः | View Document |
Geotagged photo | View Document |
any additional information अतिरिक्ताः सूचनाः | View Document |
4.3.3 Available bandwidth of internet connection in the Institution (Leased line)संस्थायाम् उपलब्धस्य अन्तर्जालस्य (साक्षाद्दीर्घकालिकस्य) वेगसामर्थ्योपलब्धिः- (परिक्रीतसम्पर्कः)
Answer: D. 50 MBPS - 250 MBPS (ई. 50 एम्बीपीएस् 250 एम्बीपीएस्)
File Description | Document |
---|---|
Details of available bandwidth of internet connection in the Institution • संस्थायाम् उपलब्धस्य अन्तर्जालस्य (साक्षाद्दीर्घकालिकस्य) वेगसामर्थ्योपलब्धिविवरणम् | View Document |
Any additional information • अतिरिक्ताः सूचनाः | View Document |
4.3.4 Media centre, Recording facility, Lecture Capturing System (LCS), Facilities for e-content development, and uploading the corpus (database) of sanskrit texts on the websiteजनसम्प्रेषणकेन्द्रम्, अभिलेखनसौविध्यम्, व्याख्यानलेखाङ्कनप्रणाली (व्या-ले-प्र), वैद्युतपाठ्यांशविकासनसौविध्यञ्च जालस्थाने उपारोपितानां संस्कृतग्रन्थानां सन्धानम्।
Answer:
4.3.4 "माध्यमकेन्द्राणि, ध्वन्यङ्कनसौविध्यम्, सङ्गणकद्वारापाठनव्यवस्थाः वैद्युत- विषयाणां निर्माणं संवर्धनञ्च, संस्कृतग्रन्थानां (दत्तांशः) सङ्ग्रहः " आवश्यकदत्तांशाः
जनसम्प्रेषणकेन्द्रम्- विश्वविद्यालये जनसम्प्रेषणकेन्द्रं स्थापितं विद्यते। तत्र PRO सर्वं कार्यं पश्यति।
वार्ताः, साक्षात्काराः, चलनचित्राणां वार्षिकप्रतिवेदनानां च समायोजनम् -
जनसम्प्रेषणकेन्द्रद्वारा यथा समयं, वार्ता:, चलचित्राणि तथा वार्षिकप्रतिवेदनानां च विश्वविद्यालयस्य जालस्थाने संस्थाप्यते। साक्षात्काराणामपि सङ्ग्रहः प्रसारश्च एतत् केन्द्रद्वारा क्रियते।
प्रकाशनविज्ञप्तिः -
विश्वविद्यालये भविष्यमाणस्य प्रत्येकमपि, क्रीडायाः, विद्यायाः, सांस्कृतिसम्बद्धकार्यक्रमस्य यथासमयं प्रकाशनविज्ञप्तिपरियोजना स्वीकृता वर्तते।
प्रचारपत्रस्य (फ्लायर) निर्माणम्-
विश्वविद्यालयस्य समेषां कार्याणां प्रचारपत्रस्य निर्माणं प्रसारणं च भवति।
आधारशेवधिः-
जनसम्प्रेषणकेन्द्रद्वारा प्रत्येकं वार्तायाः प्रत्येकं शोधलेखस्य, साक्षात्कारस्य, ध्वन्यङ्कनस्य भावचित्रस्य च सङ्ग्रहः क्रियते तथा च यथावश्यकं तेषां अध्यापकेभ्यः कर्मचारिभ्यः च सहभागित्वं क्रियते।
विश्वविद्यालयस्य पत्रिकाप्रकाशनम्-
जनसम्प्रेषणकेन्द्रं पाणिनिधारा नाम्ना विश्वविद्यालयस्य पत्रिकायाः प्रकाशनं करोति ।
वार्षिकप्रतिवेदनम्-
जनसम्प्रेषणकेन्द्रं वार्षिकप्रतिवेदनस्य निर्माणं तस्य प्रकाशनञ्चकरोति।
जनसम्पर्कनिर्वहणम्-
माध्यमकेन्द्रस्य वैशिष्ट्यं वर्तते यत्सर्वदा विश्वविद्यालयस्य, तत्सम्बद्धविद्यालयानाम् अध्यापकानां कर्मचारिणां छात्राणां च उत्कर्षहेतोः मानवसंवर्धनार्थं च सर्वदा उपकुरुते।
समुदायदृष्टिः-
विश्वविद्यालयस्य भिन्नभिन्नप्रकारकनिर्णयान् जनसमुदायेभ्यः प्रेषणं तेषां प्रतिपुष्टिस्वीकरणम्, अधिकारिभ्यः समागतमार्गदर्शनानुसारं विद्यमानकार्यक्रमाणां तथा परियोजनायाः च कार्याणि क्रियन्ते ।
अभलेखनं सौविध्यम्- विश्वविद्यालयस्य प्राध्यापकाः व्याख्यानानि ध्वनिबद्धं (रिकार्ड) कृत्वा छात्रेभ्यः प्रयच्छन्ति। वेवसाइटमध्ये च स्थापयन्ति।
व्याख्यालेखाङ्कनप्रणाली- प्राध्यापकाः व्याख्यानलेखाङ्कनप्रणालीमनुसरन्ति।
वैद्युतपाठ्यांशविकासनसौविध्यम्- विश्वविद्यालयस्य शिक्षकाः पाठ्यांशं वैद्युतपाठ्यांशरूपेण (Econtent) कृत्वा छात्रेभ्यः प्रयच्छन्ति। वेवसाइट मध्ये तस्य लिंक दत्तं भवति।
File Description | Document |
---|---|
Upload any additional information अतिरिक्ताः सूचनाः | View Document |
Facilities for e-content development such as Media Centre, Recording facility, LCS जनसम्प्रेषणकेन्द्रम्, अभिलेखनसौविध्यम्, व्याख्यानलेखाङ्कनप्रणाली (व्य-ले-प्र) वैद्युत-पाठ्यांशविकासनसौविध्यानि (दत्तांशप्रारूपम्) | View Document |
Links of photographs छायाचित्राणां सन्धानम् | View Document |
4.4.1 Average expenditure incurred on maintenance of physical facilities and academic support facilities excluding salary component, as a percentage during the last five yearsपञ्चवर्षेषु वेतनाद् ऋते भौतिकसौविध्यानां शैक्षिकप्रोद्बलनसौविध्यानां च अनुरक्षणाय कृतस्य व्ययस्य प्रतिशतता-
Answer: 1.13
4.4.1.1 Expenditure incurred on maintenance of physical facilities and academic support facilities excluding salary component year-wise during the last five years (INR in lakhs)विगतपञ्चवर्षेषु वेतनाद् ऋते भौतिकसौविध्यानां शैक्षिकप्रोद्बलनसौविध्यानां च अनुरक्षणाय कृतः वार्षिकव्ययः (लक्षशः रूप्यकेषु)
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
2.33 | 1.13 | 1.01 | 1.39 | 1.11 |
File Description | Document |
---|---|
Details about assigned budget and expenditure on physical facilities and academic facilities (Data Templates) • भौतिक-शैक्षिकसौविध्यानाम् अनुरक्षणाय प्रदत्तः धनराशिः, कृतः व्ययश्च | View Document |
Audited statements of accounts • अङ्केक्षणविवरणम् | View Document |
Any additional information अतिरिक्ताः सूचनाः | View Document |
4.4.2 Established systems and procedures for maintaining and utilizing physical, academic and support facilities - laboratory, library, sports complex, computers, classrooms etc., exists.प्रयोगशाला-ग्रन्थालय-क्रीडाङ्गण-सङ्गणकयन्त्र-पठनकक्ष्या-प्रभृतीनां भौतिक-शैक्षणिक-सहायकसौविध्ययुतानां परिरक्षणार्थं समुपयोगार्थं च संस्थायां सुनिश्चिता प्रणाली कार्यपद्धतिश्च विद्यते।
Answer:
- संस्थायां प्रयोगशाला-ग्रन्थालय-क्रीडाङ्गण-सङ्गणकयन्त्र-पठनकक्ष्या-प्रभृतीनां भौतिक-शैक्षणिक-सहायकसौविध्ययुतानां परिरक्षणार्थं समुपयोगार्थं च सुनिश्चिता प्रणाली कार्यपद्धतिश्च विद्यते। संरचिताभिः परिषद्भिः समितिभिः वा निर्दिष्टानां कार्याणां निर्वाहः क्रियते। विश्वविद्यालये प्रयोगशालादीनां परिरक्षणार्थं समुपयोगार्थञ्च समितयः संरचिताः वर्तन्ते। विषयविशेषज्ञाः, शैक्षिकप्रमुखाः, छात्रप्रतिनिधयश्च समितिषु भवन्ति।
- ग्रन्थालयपरामर्श/ समितिः काले काले अपेक्षितानां पुस्तकानां क्रयणम् अनुशंसति। प्राचीनानां पुस्तकानां विसर्जनं जीर्णानां परिरक्षणार्थं (बैण्डिंग्) कार्यं च अनुशंसति। ग्रन्थालये पुस्तकानाम्, सङ्गणकानाम्, पीठोपकरणानां च संरक्षणम्, कीटनिरोधकप्रयोगः इत्यादिकार्यं यथापेक्षं क्रियते।
- क्रीडासमितिः –समितिः छात्राणां विविधक्रीडानां निर्वाहं करोति। युवमहोत्सवस्पर्धाः,वार्षिकस्पर्धाः, राज्यस्तरीयादिस्पर्धाः इत्येतासु स्पर्धासु छात्राः प्रशिक्ष्यन्ते। क्रीडाङ्गणस्य लघुनिर्वाहः समितिसूचनानुसारं सम्पद्यन्ते।
- लेखनसामग्री-क्रयणसमितिः –अपेक्षिताः लेखनसामग्रीः क्रेतुम् अनुशंसां करोति।
- सामग्रीक्रयणसमितिः –सङ्गणकम्, श्वेतफलकम्, कवाटिका इत्यादेः वस्तुजातस्य काले काले क्रयणाय अनुशंसां ददाति।
- समीकरण-निर्वहणसमितिः – भवनेषु कार्ये जीर्णानाम् /अनुपयुक्तानां वस्तूनां परिशीलनम् इयं समितिः करोति। विद्यु द्दीपः, व्यजनम्, द्वारम्, वातायनम्, उत्पीठिकाः, आसनानि, सङ्गणकानि इत्यादीनां नाशोन्मुखानां समीकरणाय अनुशंसां करोति।
- सांस्कृतिकसमितिः विश्वविद्यालये प्रवर्तमानानां सांस्कृतिककार्यक्रमाणां मार्गदर्शनं करोति। अत्र कलासामग्रीणाम् उपयोगः क्रियते।
File Description | Document |
---|---|
additional information अतिरिक्ताः सूचनाः | View Document |
Link for additional information अतिरिक्तसूचनानां सन्धानम् | View Document |