
Prof. Shiv Shankar Mishra
Hon'ble Vice Chancellor
- Vice Chancellor's message
संस्कृतं भारतस्य प्राणभूतं तत्त्वम्। संस्कृतं भारतस्य परिचय:। भारतराष्ट्रपुरुषस्य आत्मा संस्कृतमेवास्ति। अस्मद्देशस्य यद्दिव्यमद्भुतञ्च वैभवं तन्मूले एकमेवाद्वितीयं संस्कृतमेव । संस्कृति: संस्कृताश्रिता, इति वचनबलेन संस्कृतमस्त्यत: संस्कृतिरप्यस्ति । अनयैव समग्रे भूतले स्वीयैर्गुणगणविभवैरस्मद्देशस्य विश्वगुरुत्वं साधितम्। किमधिकं संस्कृतमस्ति चेद् भारतमन्यथा भारतं कल्पयितुमशक्यम् ।
इयं भारतभूमि: अत्यन्तं दिव्यतमा स्वर्गापवर्गप्रदा च विद्यते । अस्यामेव भूम्यां विराजते मोक्षदायिन्य:सप्तपुर्य:, तास्वत्यन्तं सुप्रसिद्धा अवन्तिकेयं नगरी, यत्र प्रवहति मोक्षदायिनी माता शिप्रा, यत्र च विराजते देवाधिदेव: भगवान् महाकाल:, यत्र च शोभते श्रीकृष्णसुदाम्नो गुरुकुलं महर्षिसान्दीपनि आश्रम:, यत्र च विद्योतते नवरत्नैरलंकृता विक्रमादित्यस्य महती राजसभा, यत्र च तरंगायते महाकविकालिदासस्य काव्यकल्लोलिनी, एवं भूतायां परमपुनीतायाम् उज्जयिन्यां शिप्राया: परमे पवित्रे रोधसि विद्योतते महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:।
भारतस्य यशस्विनां प्रधानमन्त्रिणामभूत्पूर्वनेतृत्वे, महामनसां मान्यमान्यानां कुलाधिपतीनां प्रमुखसंरक्षणे, मध्यप्रदेशस्य महत्त्वशालिनां तेजस्विनां मुख्यमन्त्रिणां सफलसञ्चालने, मान्यानामुच्चशिक्षामन्त्रिणां सत्प्रेरणे उत्तरोत्तरोन्नतिपथमग्रेसरत्यसौ विश्वविद्यालय:। भारतीयज्ञानपरम्परापरिवर्धने, ऋषिप्रणीतशास्त्राणां संरक्षणे, वेदवेदाड्.गसाहित्यादीनां समुन्नयने, प्राच्यप्रतीच्योभयविद्याविश्लेषणे समर्पितोऽयं विश्वविद्यालय: सततं समुन्नतिपथमारोहति।
महर्षिपाणिनिनाम्ना विख्यातस्यास्य विश्वविद्यालयस्य संस्थापना अगस्तमासस्य 17 दिनांड्के 2008 तमे ईस्वीयेऽभवत्। एतस्य व्याप्ति: समग्रे मध्यप्रदेशे विद्यते, अतोऽसौ समग्रमध्यप्रदेशराज्यव्यापि राज्यविश्वविद्यालय: अस्ति। अस्मिन् विश्वविद्यालये सम्प्रत्यपि महत्कार्यं साधनीयमस्ति । मित्राणि ! भारतीयसंस्कृते:, भारतीयपरम्पराया:, भारतीयकलाया: भारतीय ऋषीणां महर्षिणां च ज्ञानविज्ञानसम्पदाया: विकासाय अस्माभिस्सर्वैरपि भारतीयै: भाषाबुद्ध्या, ज्ञान-विज्ञानबुद्ध्या, संस्कृतिबुद्ध्या, सदाचरणबुद्ध्या, अध्यात्मबुद्ध्या, चतुर्वर्गफलप्राप्तिबुद्ध्या च संस्कृतमवश्यं संसेव्यमिति पौन:पुन्येन ह्रदयेन सादरं विनिवेदयामि ।
संस्कृतं संस्कृतेर्मूलं ज्ञानविज्ञानवारिधि:।
वेदतत्त्वार्थसंजुष्टं लोकालोककरं शिवम् ।।
सर्वजनाय संस्कृतम् भविष्याय संस्कृतम्
Former Vice Chancellors
The following list shows the duration of services performed by the Vice-Chancellors since the inception of the University.
| Sl. | Name | From | To |
| 1. | Dr. Mohan Gupta | 17th August 2008 | 29th August 2011 |
| 2. | Prof. Mithilaprasad Tripathi | 30th August 2011 | 29th August 2014 |
| 3. | Prof. Rameshchandra Panda | 12th February 2015 | 11th February 2019 |
| 4. | Prof. Asha Shukla (I/C) | 20th February 2019 | 08th March 2019 |
| 5. | Dr. Pankaj Lakshman Jani | 08th March 2020 | 18th January 2021 |
| 6. | Prof. Akhilesh Kumar Pandey (I/C) | 19th January 2021 | 21st August 2021 |
|
7. |
Prof. Vijayakumar C.G. | 22nd August 2021 | 21st August 2025 |




