महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:

महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय

Maharshi Panini Sanskrit Evam Vedic Vishwavidyalaya

Formerly Maharshi Panini Sanskrit Vishwavidyalaya, A Public State University under Madhya Pradesh Act No. XV of 2008
Dewas Road, Ujjain, Madhya Pradesh (India) – 456010

Governance, Leadership and Management

Governance, Leadership and Management

6.1.1 The governance of the institution is reflective of an effective leadership in tune with the vision and mission of the Universityविश्वविद्यालयस्य दूरदृष्टिध्येयानुसारेण प्रवर्तमानस्य कार्यदक्षस्य नेतृत्वस्य प्रतिफलनं संस्थायाः प्रशासने भवति।

Answer:

वेदशास्त्रादिपरम्परायाः संरक्षणाय प्रतिष्ठापितस्य महर्षिपाणिनिसंस्कृतविश्वविद्यालयस्य संस्कृतं नाम दैवी वाक् इति ध्येयवाक्यमस्य विश्वविद्यालयस्य ध्येयं दूरदृष्टिं च साङ्केतिकरूपेण अभिव्यनक्ति। अयं विश्विद्यालयः पारदर्शकप्रशासनप्रणाल्याः क्रियान्वयनस्य फलस्वरूपेण व्यापकस्यास्य विश्वविद्यालयस्य दृष्टिरपि व्यापिका एव अस्ति। दृष्टिपूतं न्यसेत् पादम् इति वचनमनुसृत्य विश्वविद्यालयः वर्धमानो वर्तते।

विश्वविद्यालयस्य दूरदृष्टिः-

  • महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य भवनप्रकोष्ठप्रयोगशालाक्रीडाङ्ग‌णानां ग्रन्थालयवाचनालयकार्यालयादीनां आसन्द‌पीठोपकरणदृश्यश्रव्यसंसाधनानां च उन्नतेः अभिवृद्धिसम्पादनम्।
  • विविधशैक्षिकप्राशासनिकसौकर्याणां प्रकल्पनपुरस्सरं संस्थायाः संरचना।
  • राष्ट्रियशिक्षानीतेः (NEP-2020) क्रियान्वयनपुरस्सरं भारतीयज्ञानप्रणाल्याः तदन्तर्गतभाषाकलासंस्कृतेश्च प्रचाराय विकासाय च अपेक्षितानां सार्थकमार्गोपायानाम् अन्वेषणम्।
  • विश्वविद्यालये संस्कृतविद्याशाखानां विद्यास्थानानां च अध्ययनानुसन्धानार्थम् अपेक्षितानाम् अन्ताराष्ट्रियस्तरीयसौकर्याणां प्रकल्पनम् अन्ताराष्ट्रियाध्ययनकेन्द्राणां प्रतिष्ठापनं च ।
  • विश्वविद्यालयस्य विद्यास्थानानां विद्याशाखानां च पुनः सङ्घटनपुरस्सरं नवाचारस्य प्रौद्योगिक्याश्च अनुप्रयोगपुरस्सरं छात्रेभ्यः अध्ययनाय स्वतन्त्रावसरप्रकल्पनम् ।
  • वैश्विकस्तरे संस्कृतभाषायाः प्रचाराय प्रसाराय च अपेक्षितस्य उत्कृष्टोपक्रमस्य विकासः ।
  • संस्कृतवाङ्मये निबद्धानां तत्त्वानां गवेषणपुरस्सरम् अस्य वाङ्मयस्य सामान्यीकरणम् ।
  • धनस्य समयस्य शक्तेश्च अल्पमात्रेण अनुप्रयोगपुरस्सरं सरलसंस्कृतेन प्राविधिकोपकरणानां साहाय्येन च गभीरशास्त्रीयविचाराणां सरलशैल्या प्रस्तुतीकरणम् ।
  • संस्कृतवाङ्मये सन्निहितानां तत्त्वानाम् अध्ययनाय अनुसन्धानाय शिक्षणाय च उत्सुकेभ्यः जनेभ्यः देश-काल-जाति-लिङ्ग-स्तरादीनां बाधकानां निरणपूर्वकम् अवसरप्रदानम् इत्यादीनि विश्वविद्यालयस्य अग्रदृष्टौ सन्ति।

ध्येयं प्रशासनञ्च -

       सततं लोकसम्मतानि ध्येयानि अनुस्मरन् जनस्य सङ्घटनस्य ध्येयपदार्थविशेषेषु सङ्गः सहजतया वर्तन्ते। एतदनु ध्येयेषु पारम्परिकशास्त्रीयविषयविशेषेषु विश्वविद्यालयस्य सङ्गः वर्तते । विश्वविद्यालयस्य समस्तेषु विभागेषु विभिन्नानां शास्त्राणाम् अध्ययनाध्यापनपरम्परा अबाधगत्या प्रचलति। सम्पूर्णभारतदेशस्य छात्रेभ्यः स्वाभीष्ट शास्त्रीयं विषयं पठितुमत्र अवसरो वर्तते। “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” इतीमां सूक्तिमनुस्मरन्तः विश्वविद्यालयस्य प्रशासनेन समस्तविश्वविद्यालये सुव्यवस्था परिकल्पिता । पुनः भारतीयज्ञानप्रणाल्याः संरक्षणोपाया अनुक्षणं ध्यायन् महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः प्राचीनज्ञानविज्ञानयोः प्रचारकान् संरक्षकान् च विना भेदभावं प्रोत्साहयति। विश्वविद्यालयस्य विशिष्टाः योजनाः अस्माद्धेतोः सक्रियाः सन्ति।

संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसंवर्धनकेन्द्रम्-

  • संस्कृतभाषायाः प्राचीनज्ञान-विज्ञानपरम्परायाश्च संरक्षणाय, संवर्धनाय, अभिमुखीकरणाय च संस्थापितं महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसंवर्धनकेन्द्रं स्थापितं विद्यते।
  • भारतीयसंस्कृतेः मूलभूतसिद्धान्तेषु निहितानां प्रबुद्धानां, समावेषिणाम् उदात्तानां, सहिष्णुनां, सार्वत्रिकानाम् उद्देश्यानां पूर्तये क्रियाशीलमिदं केन्द्रं संस्कृतस्य सन्दर्भे प्रगतिशीलप्रगतेः अपि च बहुमूल्यम् अध्ययनं प्रशिक्षणम्, अनुसन्धानम्, अन्वेषणञ्च कुर्वद् अस्ति। भाषा प्राचीनशास्त्रपरम्परायाः तथा भारतीयशिक्षायाः क्षेत्रे उत्कृष्टकीर्तिमानं स्थापयतुं सर्वदा यत्नं विदधाति। अनेन केन्द्रमाध्यमेन न केवलमत्रत्याः जनाः लाभान्विताः जाताः अपितु देशविदेशपर्यन्तं जनाः लाभान्विताः भवन्ति।

नायकत्वस्य अन्तर्भावःएवं क्रमेण वर्तते-

मध्यप्रदेशराज्यस्य मा. राज्यपालाः, विश्वविद्यालस्य मा. कुलाधिपतयः प्रमुखाः नायकाः।

कुलपतिः विश्वविद्यालयस्य शैक्षिकाणां प्रशासनकार्याणां च प्रमुखकार्यकारीनायकः। विश्वविद्यालयनिर्णयानां क्रियान्वयनं करोति।

कुलसचिवः विश्वविद्यालयस्य प्रमुखः प्रशासनाधिकारी

संकायाध्यक्षः विश्वविद्यालयस्य शैक्षिककार्याणि साधयन्ति।

अनुसन्धाननिदेशकः अनुसन्धानविषयेषु क्रियान्वयनं करोति।

  • विभागाध्यक्षः, विश्वविद्यालयस्य अधिकारिणः, छात्रकल्याणाधिष्ठाता, राष्ट्रियसेवायोजनानिदेशकः, वित्ताधिकारी,  पुस्तकालयाध्यक्षः अन्ये च स्वक्षेत्रे प्रदत्तं दायित्वं वहन्तः उन्नतये सहकुर्वन्ति।

विश्वविद्यालस्य सर्वाः योजनाः विश्वविद्यालयस्य ध्येयमन्तर्दृष्टिश्च मनसि निधाय तदनुगुणं निर्धारिताः सन्ति।

विश्वविद्यालयस्य अध्यापकाः विश्वविद्यालयस्य सर्वासु प्राधिकरणिषु निर्णयप्रदानाय सहभागं स्वीकुर्वन्ति। विभागीयसमितिः वा अध्ययनमण्डलमथवा विद्यारिषद् उत कार्यपरिषद् वा भवतु सर्वत्र तेषां सोत्साहं भागग्रहणेन च शासनं प्रभारीरूपेण क्रियान्वयनं कर्तुं समर्थं भवति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

6.1.2 The institution practices decentralization and participative managementसंस्था सहभागिप्रबन्धनव्यवस्थां विकेन्द्रीकरणप्रक्रियां च अनुसरति।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य प्रशासनव्यवस्था पूर्णतः सहयोगिनी विकेन्द्रीकरणप्रक्रियाश्रिता वर्तते। सङ्घे शक्तिः कलौ युगे इति वाक्यमनुसृत्य प्रबन्धनव्यवस्था स्वीयानां मानवीयसिद्धान्तानां सहयोगेन एव कार्यं विदधाति। प्रबन्धनपरिश्रमयोः सुचारुरूपेण सङ्घटनाभावे प्रशासनकार्याणि निर्विघ्नं न सम्भवन्ति। अतः सहभागिप्रशासनव्यवस्थां विकेन्द्रीकरणप्रक्रियां च महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः अनुसरति । सहभागिप्रबन्धनव्यवस्थायाः अनुसरणेन विकेन्द्रीकरणप्रक्रियायाः क्रियान्वयनेन च महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कृते जायमानाः लाभाः यथा -

  • संस्कृतेन सम्बद्धानां नूतनविचाराणां योजनानां च क्रियान्वयनावसरे विश्वविद्यालयस्य प्रबन्धनव्यवस्था आत्मानं सबलम् इति भावयति। यतोऽहि समेषां विश्वविद्यालयानां परिपूर्णः सहयोगः एव प्रबन्धनव्यवस्थायाः बलमस्ति।
  • लक्ष्यप्राप्तिप्रसङ्गे निर्धारितकाले कार्यकारणावसरे समस्यायाः समाधानान्वेषणावसरे च विश्वविद्यालयोऽयं व्यक्तिगतभूमिकां दायित्वं च अवगम्य व्यक्तिगतं योगदानं प्रयच्छति। अनेन विश्वविद्यालयस्य धनसमयशक्त्यादीनां सदुपयोगो जायते।
  • सहभागिप्रबन्धनव्यवस्थायाः अनुसरणेन महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य समेषां कर्मचारिणां मनोबलं प्रतिपलं वर्धते ।
  • सहभागिप्रबन्धनव्यवस्थायाः कारणेन विकेन्द्रीकरणप्रक्रियायाः क्रियान्वयनेन च विश्वविद्यालयस्य सर्वाः व्यवस्थाः सुचारुरूपेण प्रचलन्ति।
  • विश्वविद्यालयः नूतनयोजनानां क्रियाकलापानां च अनुप्रयोगात् पूर्वपरामर्शशैलीम् आश्रित्य समेषां परामर्शान् स्वीकृत्य अन्तिमनिर्णयं स्वीकरोति । एवमेव अन्तिमनिर्णयप्रसङ्गेऽपि संयुक्तनिर्णयशैलीं समाश्रित्य प्रशास्ति।
  • विभिन्नाः परिषदः, समितयः, प्रकोष्ठाः, मण्डलानि, विद्याशाखाश्च प्रशासनव्यस्थां सबलीकर्तुमेव संरचिताः सन्ति।

विश्वविद्यालयस्य प्रतिनिधिभूताः विभिन्नाः समितयः संस्थायाः हितमवलम्ब्य कार्यं कुर्वन्ति। तासु प्रमुखाः समितयः यथा -

चयनसमितिः

        विश्वविद्यालयस्य नियुक्तिप्रक्रियायां भिन्नभिन्नदृष्टिकोणानां प्राप्तिस्तथा कस्यचिदेकस्य प्रतियोगिनः प्रति विशेषपूर्वाग्रहस्य सम्भावनायाः निराकरणपूर्वकं कार्यं करोतीयं समितिः।

प्रवेशसमितिः

       प्रवेशसमितिः विद्यार्थिनां प्रवेशप्रक्रियायाः पञ्जीकरणस्य परिचय-प्रवेशपत्रादीनां च वितरणं करोति। अस्याः समितेः अनुशासने छात्राणां प्रवेशः नियमानुसारं विधीयते।

परीक्षासमितिः

      गोपनीयविभागात् प्रश्नपत्राङ्गीकरणम्, परीक्षायाः व्यवस्थापनम्, केन्द्रस्थापनस्य निर्धारणम्, प्रवेशपत्रप्रश्नप्रत्रदीनां वितरणम्, उत्तरपुस्तिकास्वीकरणम्, मूल्याङ्कनाय गोपनीयविभागं प्रति प्रेषणम् इत्यादीनि कार्याणि विश्वविद्यालये सम्भवन्ति।

शोधसमितिः

      शोधसमितिः मूल्याङ्कनं करोति यत् प्रस्ताविता परियोजना विश्वविद्यालयस्य नियमानुरूपा विद्यते, तथा अनुसन्धानस्य कृते उपयुक्तसंसाधनानि सन्ति। तथा अनेन शोधेन प्राप्यमाणाः परिणामाः उपयोगिनः सन्ति न वा। अनुसन्धानसमितिः सम्भावितानां शोधकर्तॄणां सङ्गठनात्मकसहकारिभिः सह सहयोगस्य समर्थनस्य कृते  कार्यं करोति।

छात्रवृत्तिसमितिः

      छात्रवृत्तिसमितिः छात्रवृत्तिप्राप्तये पात्राणां छात्राणां नामसूचीं निर्माय वस्तुनिष्ठमाध्यमेन छात्रवृत्तिप्रदानाय व्यवस्थां करोति।

प्रकाशनसमितिः

      प्रकाशनसमितिः विश्वविद्यालयस्य शैक्षिकसम्बद्धान् नैकान् ग्रन्थान् एवं विश्वविद्यालयस्य त्रैमासिकवार्षिकादिपत्रिकाणां प्रकाशनस्य कार्यं करोति।

ग्रन्थालयसमितिः

     ग्रन्थालयसमितिः पुस्तकानां क्रयणसंरक्षणसंस्थापनवितरणादिषु कार्येषु सर्वदा पथप्रदर्शनं करोति।

प्रतियोगितासमितिः

     प्रतियोगितासमितिः छात्राणां चतुर्मुखीविकासाय आवश्यकतानुसारं विविधानां प्रतियोगितानामायोजनं करोति।

छात्रावाससमितिः

     छात्रावाससमितिः विश्वविद्यालये विद्यार्थिनाम् आवासभोजनादिव्यवस्थां निर्वहति। छात्रावासे प्रवेशाय आवश्यकान् नियमान् निर्धारयति। विद्यार्थिनां प्रतिनिधिभ्यः छात्रावासनिर्वहणादिषु सहयोगप्रदानाय प्रेरयति।

वित्तसमितिः

     वित्तसमितिः विश्वविद्यालये वेतननित्यनैमित्तिकव्ययादीनां प्रबन्धनस्य कार्यं निर्वहति। स्थायवित्तीयसमितेः अनुमोदनेन सहयोगेन वा क्रियाकलापान् विश्वविद्यालयः समेधयति।

अनुशासनसमितिः

     अनुशासनसमितिः अनुशासनबाधकान् वारयितुमनुशासनव्यवस्थां संरक्षयितुं च सहयोगं करोति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

6.1.3 Sanskrit-Version of vision, mission statement of the university, the Act, Statute, MoA and Rules, Official notification/information, Regulations are available in institutional website.विश्वविद्यालये दूरदृष्टिपत्रस्य, ध्येयपत्रस्य, अधिनियमानाम्, संवैधानिकनिकायानाम्, विश्वविद्यालयस्य लिखितनियमानाम्, औद्योगिकसूचनानां, विनियमानाञ्च संस्कृतरूपान्तरणम् उपलभ्यते।

Answer:

संस्कृतभाषायाः सर्वाङ्गीणविकासाय संस्कृतस्य प्रचाराय प्रसाराय च स्वायत्तसंस्थारूपेण २००८ तमस्य अगस्तमासस्य १५ दिनाङ्के महर्षि पाणिनि संस्कृत विश्वविद्यालयः प्रतिष्ठापितः। अस्मिन् विश्वविद्यालये दूरदृष्टिपत्रस्य,  ध्येयपत्रस्य,  अधिनियमानां, संवैधानिकनियमानां,  विश्वविद्यालयस्य लिखितनियमानां,  च अधिकाधिकानि संस्कृत रूपान्तराणि सम्पादितानि। तेषु कानिचन जालपुटे स्थापितानि सन्ति। विश्वविद्यालयस्य जालपुटे एतद्विषयकं विवरणमपि अस्ति। एवं प्रशासने, प्रबन्धने,  सञ्चिकानामुपरि टिप्पणीलेखने, सूचनाफलकस्योपरि, कार्यालयीयसूचनासु,  शिक्षकविषयकसूचनाप्रदाने अन्येषु कार्येषु च मुख्यमाध्यमरूपेण संस्कृतभाषा स्वीकृता वर्तते। महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः संस्कृतस्य संरक्षणाय सम्पूर्णपरिसरस्य वातावरणं संस्कृतमयं कर्तुं तत्परोऽस्ति।

प्राशासनिककार्यालये संस्कृतस्य प्रोत्साहनविधिः -

      विश्वविद्यालयेन प्राशासनिककार्यालये यथाशक्यं संस्कृतस्य प्रोत्साहनार्थं सञ्चिकाः संस्कृतमाध्यमेन सञ्चालनाय केषाञ्चित् संस्कृतवाक्यानां सूचिका निर्माय प्रदत्तास्ति। विश्वविद्यालयस्य सिद्धान्तध्येय-लक्ष्यपत्राणि अपि संस्कृतेन संरच्य सर्वत्र संलग्नानि वर्तन्ते। तथा समये समये शिक्षकेतरकर्मचारिभ्यः संस्कृतसम्भाषणशिबिराण्यपि आयोज्यन्ते।

शैक्षणिककार्यक्रमेषु संस्कृतस्य प्रयोगविवरणम्- 

       विश्वविद्यालये शैक्षणिककार्याणि संस्कृतमाध्यमेन विधीयन्ते। यथा- शास्त्राणां पाठनं संस्कृतमाध्यमेन भवति। छात्रैः सह सामान्यवार्तालापः संस्कृतमाध्यमेन क्रियते। सङ्गोष्ठीनां कार्यशालानां विशिष्टकार्यक्रमाणाञ्च सञ्चिकाः, प्रचारप्रसारपत्राणि च संस्कृतमाध्यमेन संरच्यन्ते। विश्वविद्यालयस्य मुखपत्रमपि संस्कृतमाध्यमेन निर्मितमस्ति । विश्वविद्यालस्य विविधफलकानां नामानि, अधिकारिणाम्, अध्यापकाणां, कर्मचारिणां नाम- पदानि अपि सर्वत्र संस्कृतमाध्यमेन संलग्नानि सन्ति।

        शास्त्रेषु प्रतिपादितविविधसुभाषितानां हिन्दीभाषानुवादसहितफलकानि विश्वविद्यालयपरिसरे स्थापितानि। वाग्वर्धिनीपरिषद्, वाक्यार्थपरिषद्, विभिन्नसङ्गोष्ठ्यः, विभिन्नस्पर्धाः संस्कृतमाधमेन सञ्चाल्यन्ते। सर्वविधकार्यक्रमाणां सत्रसञ्चालनमपि संस्कृतमाध्यमेन आचर्यते। स्पर्धानां सूचनाः, नियमाः, व्याख्यानमालाः, कार्यक्रमाणां अधिसूचनाः, सत्रसञ्चालनाय सूच्यः, आमन्त्रणपत्राणि सर्वाण्यपि संस्कृतमाध्यमेन विलिख्यन्ते तथा सम्बद्धविद्वद्भयः सम्प्रेष्यन्ते च ।

        शैक्षणिकस्वाध्यायकार्याणि, महाविद्यालयेभ्यः शिक्षणसम्बद्धव्यवहाराः संस्कृतमाध्यमेन व्यवह्रियन्ते। छात्रेभ्यः आन्तरिकसूचनाः, समयपत्राणि, अधिसूचनाश्च संस्कृतमाध्यमेन प्रदीयन्ते।

        शैक्षणिकगतिविधिषु सर्वत्रैव प्रायः शतप्रतिशतं संस्कृतस्य व्यवहारः क्रियते । तत्र कर्तव्यावकाशप्रत्रम् (D.L), सामान्यावकाशपत्रम् (C.L), इत्यत्रापि कृतमस्ति ।

 फलम्- बाह्यविभिन्नविश्वविद्यालयेभ्यः विविधविषयनिष्णातारः अतिथयः ये महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयं प्रति समागच्छन्ति तेभ्यः संस्कृतेन सह परिचयः भवति, संस्कृतसूक्तीनामध्ययनेन प्रशान्तचित्ताः भूत्वा आनन्दमनुभवन्ति । ततः स्वविश्वविद्यालयं गृहञ्च गत्वा संस्कृतसम्पोषणमपि समाजाय सम्प्रेषयन्ति। विश्वविद्यालये देशस्य विविधप्रान्तेभ्यः छात्राः सततम् अध्ययनरताः भवन्ति। एवं विभिन्नप्रान्तेभ्यः च समागताः अध्यापकाः अध्यापनरताः भवन्ति। एतेषां सर्वेषामपि मातृभाषाः भिन्नाः, आचाराः भिन्नाः, व्यवहाराश्च भिन्नाः तथापि सर्वे वसुधैव कुटुम्बकमितिवद्वसन्ति। तत्कारणं केवलं संस्कृतमेव। सर्वे संस्कृतेन सम्भाषन्ते व्यवहरन्ते च ।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Sanskrit-Version of vision, mission statement documents on the website(दूरदृष्टिपत्रस्य ध्येयपत्रस्य संस्कृतरूपान्तरणम् संस्थायाः जालस्थाने उपलभ्यते) View Document
Provide the weblink of the Sanskrit version of all documents(सर्वेषां प्रलेखानां संस्कृतरुपान्तरणस्य जालसन्धानं प्रयच्छतु) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

6.2.1 Perspective/Strategic plan and deployment documents are available in the institutionसंस्थायां भविष्यद्योजनायाः/व्यूहात्मकयोजनायाः नियोजनप्रलेखा उपलभ्यन्ते क्रियान्वयनसम्बद्धानि प्रमाणानि वा उपलभ्यन्ते।

Answer:

संस्कृतवाङ्मयं  विविधशास्त्रभूयिष्ठमस्तीति जानन्त्येव । न केवलम् आध्यात्मिकशास्त्राणाम् अपि तु लौकिकानां वैज्ञानिकानां च बहूनां शास्त्राणां विशालाकरो वर्तते । अतः समग्रः सम्प्रत्ययः विश्वविद्यालयस्य भविष्यद्योजनायां विकासोन्मुखी वर्तते। विश्वविद्यालयस्य दूरदर्शिता नीतिः दूरगामिविकासस्य कृते  यत्नं करोति। यत्र हि संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसंवर्धनकेन्द्रद्वारा विविधाः कार्यक्रमाः आयोज्यन्ते।   क्रमशः यथा -

  • शास्त्रसेतुः (Shastra bridge program) एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् भवतीति। शास्त्राणि यद्यपि नैकानि वर्तन्ते परन्तु तानि सर्वाणि परस्परं सम्बद्धानि एव सन्ति। साङ्ख्ययोगयोः न्यायवैशेषिकयोः योगायुरुर्वेदयोः प्राचीनार्वाचीनयोः शास्त्रयोः इत्येवं विभिन्नानां शास्त्राणां सेतुपाठ्यक्रमाणां सम्प्रयोगः औपचारिकरूपेण विधातुं विश्वविद्यालयः चिन्तयति।
  • शास्त्रबीजरक्षा (Seed saving for the future) शास्त्राणि बहूनि वर्तन्ते। तत्र आद्यं शास्त्रम् इति प्रकीर्तितं साङ्ख्यशास्त्रं सम्प्रति नेपथ्यं गतमस्ति। सहस्रवर्त्मा सामवेदः इति उच्यते। सम्प्रति केवलं शाखात्रयम् उपलभ्यते। अतः वेदशास्त्राणां परिरक्षणाय अग्रिमसन्तत्यै प्रदानाय च शास्त्रबीजरक्षा इति योजना विश्वविद्यालयस्य भविष्यद्योजनायां निष्ठोऽस्ति।
  • शिक्षकप्रशिक्षणम्- विश्वविद्यालयस्य केन्द्रेण शासकीयाशासकीयसंस्कृतशिक्षकाणां कृते उन्मुखी कार्यक्रमः यथा समयम् आयोज्यते। प्रशिक्षणस्य मुख्योद्देश्यं संस्कृतशिक्षकाणां गुणवत्तासंवर्धनं व्यक्तित्वविकासश्च वर्तते।
  • बालकेन्द्रम्- संस्कृतस्य प्रचाराय प्रसाराय कटिबद्धः विश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसंवर्धनकेन्द्रं नगरे प्रदेशे सर्वत्र संस्कृताधारितान्  कार्यक्रमान् यथा समये आयोजयति। तत्र लघुलघुबालकानां संस्कृते प्रवेशाय बालकेन्द्रं सञ्चाल्यते।
  • शास्त्रदृष्टिः (Shastric perception program) दृष्टिपूतं न्यसेत् पादम् इति उच्यते। शास्त्रदृष्टिः लौकिकालौकिकसुखमूला अस्ति इति ख्यापनाय तस्याः प्रत्यक्षीकरणरूपाणां कार्यक्रमाणां सङ्घटनाय विश्वविद्यालयः चिन्तनं करोति।
  • शास्त्रप्रयोगः (Application of Shastric Principles) शास्त्राण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषःस विद्वान् इति सुभाषितकारो भणति। शास्त्राणि प्रयोगपथे न सन्ति चेत्तर्हि तानि निष्प्रयोजकानि सम्भवन्ति । न केवलं शिक्षाक्षेत्रे अपि प्रशासने प्रबन्धने च शास्त्रीयसिद्धान्तानाम् अनुप्रयोगाय विश्वविद्यालयः योजनाः विनिर्माति।
  • शास्त्रसमन्वयः (Shastra + Modern social science) सर्वे भवन्तु सुखिनः इति भारतीयानां चिन्तनधारा। एतदनु प्राचीनशास्त्राणाम् आधुनिकसामाजिकविज्ञानानां च मध्ये समन्वयं सम्पाद्य सम्मिश्रितपाठ्यचर्यां निर्माय तदध्ययनाय स्वतन्त्रतावसरकल्पनं विश्वविद्यालयस्य भविष्यद्योजनायाः एकम् अङ्गम् अस्ति। सर्वविधानां छात्राणां सर्वविधापेक्षायाः पूर्तिं कर्तुं समन्वयः अनिवार्यः एव । राष्ट्रियशिक्षानीतिरपि प्राचीन-अर्वाचीनशास्त्राणां समन्वयसम्पदानाय संसूचनाः प्रायच्छत्।
  • शास्त्रजीविका (Employment/Livelihood focus) “उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः। नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः”।। इति सूक्तं सुभाषितकारेण आजीविकाप्रदानाभावे शास्त्राणाम् अध्ययनाध्यापने समधिकोत्साहं न प्रकाशयेयुः। संस्कृतज्ञानां कृते संस्कृतक्षेत्रे संस्कृतेतरेषु इतरेष्वपि क्षेत्रेषु विविधोद्योगावसरप्रकल्पनम् अपि विश्वविद्यालयस्य भविष्यद्योजनायाः एकम्अङ्गं वर्तते।
  • शास्त्रान्तरानुसन्धानम्- (Multidisciplinary redearch)  बहुविषयकपठनानुसन्धानसारल्यानि कल्पयित्वा उच्चशिक्षासंस्थानानां स्तरोन्नयनाय रष्ट्रियशिक्षानीतौ (NEP-2020) अनेकाः सूचनाः प्रदत्ताः। Multi-disciplinary Education and Research Universities (MERU) अस्य परिकल्पनानुसारं विश्वविद्यालये शास्त्रान्तरानुसन्धानाय विविधाः सक्रियाः भविष्यद्योजनाः सङ्कल्पिताः सन्ति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Strategic Plan and deployment documents on the website(• व्यूहात्मकयोजनायाः नियोजनप्रलेखाः जालस्थाने उपलभ्यन्ते।) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

6.2.2 Organizational structure of the University including governing body, administrative setup, and functions of various bodies, service rules, procedures, recruitment, promotional policies as well as grievance redressal mechanism.संस्थायां सर्वविधाः प्रबन्धनव्यवस्थासंरचनाः यथा प्रबन्धनसमितिः, प्रशासनव्यवस्था, विविधनिकायानां कार्याणि, सेवानियमाः, प्रक्रियाः, नियुक्तयः, पदोन्नतिनियमाः, परिदेवनानिवारणकार्यप्रणाल्यश्च उपलभ्यन्ते।

Answer:

महर्षिपाणिनिसंस्कृतविश्वविद्यालयः अधिनियमः 2006 क्रमाङ्कः 15 सन् 2008 तमे वर्षे विहितप्रावधानानामनुरूपेण विश्वविद्यालयस्य  19 परिनियमाः, 20 अध्यादेशाः तथा 8 विनियमाः निर्मिताः तथा ते विश्वविद्यालयस्य साधारणसभायाः अनुमोदनस्य प्रत्याशायां समन्वयसमितेः एवं समन्वयसमितेः स्थायीसमितेश्च समक्षं प्रस्तुताः।  समन्वयसमितेः  समक्षं गत्वा तासां परीक्षणं कृत्वा समन्वयसमितेः सभायां दिनाङ्कः 02.09.2010 इत्यस्मिन् तेषां प्रस्तुतीकरणं स्वीकृतम्। साधारणविगतसभायां दिनाङ्कः 20.11.2012 तमे वर्षे अस्य अनुमोदनं सञ्जातम्। महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य सञ्चालनं सुचारुरूपेण स्यादित्येतदर्थम् अधिनियमानुसारं  साधारणपरिषत् कार्यपरिषद्, विद्यापरिषद्, वित्तसमितिश्च विहिताः सन्ति। तथा च छात्रान् संलक्ष्य छात्रावासमितिः, रैगिंगरोधीसमितिः इत्यनयोः संरचना कृताऽस्ति । किञ्च विभिन्नविभागानां सम्यक्सञ्चालनाय ग्रन्थालयसमितिः, प्रकाशनसमितिः, क्रयसमितिः, भवननिर्माणसमितिः, परीक्षासमितिः, समस्यानिवारणसमितिः, महिलाविषयक समस्या-निवारणसमितिः (Women Redressal Grievance Committee) च गठितास्सन्ति।

कुलाधिपतिः-

 मध्यप्रदेशस्य राज्यपालः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलाधिपतिः अस्ति। कुलाधिपतिः विश्वविद्यालयस्य प्रधानः अस्ति। सः विश्वविद्यालयस्य उपाधिप्रदानप्रसङ्गे दीक्षान्तसमारोहादिषु अध्यक्षपीठमलङ्करोति।

कुलपतिः

कुलपतेः नियुक्त्यर्थं कुलाधिपतिना संरचिता एका चयनसमितिः भवति। सा तदर्थम् अर्हाणां तालिकां निर्माति। तालिकातः कुलाधिपतिः एकं व्यक्तिविशेषं कुलपतित्वेन नियोजयितुम् अनुज्ञां ददाति। परिनियमानुगुणमेव कुलपतेः चयनं जायते। कुलपतेः अधीने कुलसचिवः, परीक्षानियन्त्रकः, वित्ताधिकारी, ग्रन्थपालकः, सङ्कायाध्यक्षः इत्यादयः कार्यं कुर्वन्ति। विश्वविद्यालयस्य प्राधिकरणं प्रबन्धनव्यवस्थां निर्वहति।

साधारणपरिषत्- महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयाधिनियमः 2006, इत्यत्र 15.1 इत्यत्र विहितविनियमानुसारेण साधरणपरिषदः अधिकारः स्वरूपं कार्याणि च निरूपितानि सन्ति। इयं परिषद् प्रबन्धनव्यवस्थायां शीर्षस्थाने तिष्ठति।

कार्यपरिषत् - विश्वविद्यालयं सुचारुरूपेण सञ्चालयितुं विद्यमाना मुख्या परिषत् इत्युक्ते कार्यपरिषत् एव वर्तते। इयं परिषद् विश्वविद्यालयस्य नीतिनिर्धारणे तेषाम् अनुप्रयोगे च प्रधानपात्रतां वहति।

विद्यापरिषत् :- विश्वविद्यालयीयशिक्षायाः, शिक्षणप्रक्रियायाः, प्रशिक्षणस्य, परीक्षायाः, अनुसन्धानकार्यक्रमाणां च स्तरपरिरक्षणकर्मणि विद्यापरिषत् मुख्यं स्थानं भजते ।

A.सङ्कायमण्डलम्- विश्वविद्यालये विभिन्नपाठ्यक्रमाणां निर्माणमध्ययनमण्डलं करोति। अध्ययनमण्डलं पाठ्यक्रमस्य निर्माणं संशोधनं वा कृत्वा अनुमोदनाय सङ्कायमण्डलं प्रति प्रेषयति। तत् तानि परिशील्य अन्तिमनिर्णयाय विद्यापरिषदं प्रति सारयति।

सङ्कायाः- सङ्कायाः विश्वविद्यालयस्य विविधानि विद्यास्थानानि द्योतयन्ति। प्रत्येकसङ्कायस्य एकः निर्दिष्टः सङ्कायप्रमुखः भवति। 

अध्ययनमण्डलम्- विश्वविद्यालयस्य विभिन्नपाठ्यक्रमाणां निर्माणम् अध्ययनमण्डलं करोति। अध्ययनमण्डलं काले काले च विभिन्नपाठ्यक्रमाणां संशोधनं परिवर्तनादिकं कृत्वा कृतसंशोधनानां परिवर्तनादीनाम् अनुमोदनाय विद्यापरिषदं प्रति सारयति।

विभागाध्यक्षः- विभागाध्यक्षः शैक्षणिकविभागस्य प्रमुखः भवति। प्रत्येकं विभागस्य एकः निर्दिष्टः विभागाध्यक्षः भवति।

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य विभिन्नाः समितयः सन्ति। यथा -

परीक्षासमितिः

स्थानीयशोधसमितिः

ग्रन्थालयसमितिः

वित्तसमितिः

छात्रपरिवेदनानिवारणसमितिः

शोधसलाहकारसमितिः

महिलापरिवेदनानिवारणसमितिः

B.छात्रवृत्तिसमितिः- इत्याद्याः समितयः विश्वविद्यालयस्य कुलपतेः मार्गदर्शनेन  गतिशीलाः सन्ति। विश्वविद्यालयस्य एतेषां मार्गदर्शनेन एव सर्वाः शैक्षिकाः प्राशासनिकाश्च क्रियाकलापाः प्रवर्तन्ते। परिवेदनानिवारणकार्यक्रमाणां आधारः विश्वविद्यालयानुदानायोगद्वारा काले काले कृतानामधिनियमानामाधारेण वर्तते। विश्वविद्यालये परिवेदनानिवारणकार्यक्रमप्रणाल्याः सुचारुरूपेण सञ्चालनाय विविधाः समितयः रचिताः सन्ति। आभिः समितिभिः गोपनीयतापूर्वकं समस्यायाः वस्तुनिष्ठपरिहारोपायाः संसूच्यन्ते। यौनोत्पीडनसम्बद्धसमितिः, छात्रसमस्यानिवारणसमितिः, कर्मचारिणां सन्तापापनोदनसमितिः इत्याद्याः सक्रियाः समितयः विश्वविद्यालये सन्ति।

सेवानियमाः, प्रक्रियाः, नियुक्तयः, पदोन्नतिनियमाः च-

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः विश्वविद्यालयानुदानायोगस्य नियमावलिं समाश्रित्य तमसंवत्सरस्य नियमावलिं समाश्रित्य सेवानियमान् पदोन्नतिनियमान् च निर्धारयति। विश्वविद्यालयस्य अध्यादेशे शिक्षकाणां कर्मचारिणां नियुक्तिः सेवानियमाः च सङ्ग्रहेण उल्लिखिताः सन्ति। प्रत्यक्षनियुक्तौ श्रेष्ठतायाः आधारेण नियुक्तौ च विश्वविद्यालयानुदानायोगस्य नियमावलिमेव समाश्रयति ।

 

File DescriptionDocument
Upload the document of functions of the University and policies. (विश्वविद्यालयस्य एवं तन्नियमानां च कार्यप्रणाल्याः प्रलेखाः उपारोपणीयाः।) View Document
Upload document depicting the organizational structure including, governing body and administrative setup. (सर्वविधानां प्रबन्धनव्यवस्थासंरचनानां विवरणं प्रयच्छतु- यथा प्रबन्धनसमितिः, प्रशासनव्यवस्था च।) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

6.2.3 Implementation of e-governance in areas of operation 1. Planning and Development 2. Administration 3. Finance and Accounts 4. Student Admission and Support 5. Examinationक्रियान्वयनक्षेत्रेषु वैद्युतप्रशासनस्य नियोजनम् 1. योजना, विकासश्च 2. प्रशासनम् 3. वित्तं, लेखाश्च 4. छात्राणां प्रवेशः, प्रोद्बलनं च 5. परीक्षा

Answer: A. All 5 of the above (अ. उपर्युक्ताः सर्वे पञ्च)

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Screen shots of user interfaces(प्रयोक्तुः अन्तःपृष्ठानां फलकचित्राणि) View Document
ERP (Enterprise Resource Planning) Document(उपक्रमसंसाधनयोजनाप्रपत्राणि) View Document
Details of implementation of e-governance in areas of operation Planning and Development, Administration etc (Data Template)(उपर्युक्तक्षेत्रेषु वैद्युतप्रशासनस्य क्रियान्वयनस्य विवरणम्। (दत्तांशप्रारूपम्) View Document

 

6.2.4 Effectiveness of various bodies/ cells/ committees is evident through minutes of meetings and implementation of their resolutions.विविधसमितीनां कार्यविवरणेभ्यः, निर्णयानां क्रियान्वयनात् च ज्ञायते यत् संस्थायाः विविधनिकायाःविभागाःसमितयः प्रभावितया फलोन्मुखतया च कार्यतत्पराः सन्ति इति।

Answer:

  • करचरणाद्यङ्गानां शरीरसंरचनायां यादृशी भूमिका वर्तते तादृशी एव भूमिका विविधानां विद्यास्थानानां विद्याशाखानां विभिन्नसमितीनां च वर्तते। अवयववैकल्ये न्यूनतायां वा यथा शरीरं न शोभते तथैव विविधानां निकायानां विभागानां समितीनां सुचारुरूपेण सङ्घटनाभावे विश्वविद्यालयः अपि न शोभते। अतः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः अमीषां सक्रियतायाः विषये विशिष्टध्यानं वहति।
  • विकेन्द्रीकरणप्रशासनप्रणालीं समाश्रित्य संरचितस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य विविधनिकायाः विभागाः समितयश्च क्रियाशीलाः विश्वविद्यालयस्य कार्यपरिषदः सभाः नियतरूपेण प्रतिवर्षं जायन्ते यत्र हि विकासपरनीतयः निर्णीयन्ते। निर्धारितनिर्णयानां क्रियान्वयनदृष्ट्या अपि इयं परिषत् प्रधानभूमिकां निर्वहति। विद्यापरिषत् विश्वविद्यालयीयशिक्षायाः, शिक्षणप्रक्रियायाः, प्रशिक्षणस्य, परीक्षायाः, अनुसन्धानकार्यक्रमाणां च स्तरपरिरक्षणकर्मणि कार्यरता भवति। अस्याः संसूचनाः विभागमुखेन समितिमुखेन च क्रियान्विताः भवन्ति। अध्ययनमण्डलं विश्वविद्यालयस्य विभिन्त्रपाठ्यक्रमाणां निर्माणं विदधाति।
  • आन्तरिकगुणवत्ताश्वासनप्रकोष्ठानां विविधसमितीनां माध्यमेन च पाठ्यक्रमाणां प्रवर्तनाय मार्गदर्शनं लभ्यते। योजना तथा अनुश्रवणमण्डलं विश्वविद्यालयस्य विकासाय अपेक्षितानां योजनानां निर्माणकार्यं करोति। अस्य मण्डलस्य निर्णयाः विकासदृष्ट्या प्रधानाः भवन्ति । विद्यास्थानानि विद्याशाखाश्च विश्वविद्यालयस्य दर्शनशिक्षादीनि विद्यास्थानानि द्योतयति।
  • विश्वविद्यालयस्य आन्तरिकगुणवत्ताश्वासनप्रकोष्ठः शैक्षिकेषु प्राशासनिकेषु च क्रियाकलापेषु गतिशीलतायाः संवर्धनाय एकस्याः प्रणाल्याः विकासं करोति। आन्तरिकगुणवत्ताश्वासनप्रकोष्ठस्य प्राथमिकोद्देश्येषु संस्थायाः गुणवत्तासंवर्धनाय विश्वविद्यालयेन अनुसर्तव्याः मार्गोपायाः प्रमुखाः सन्ति। काले काले सभासङ्गोष्ठ्यादीनाम् आयोजनेन आर्थिक सहयोगादीनां प्रदानेन च विश्वविद्यालयस्य विकासाय प्रयतते । तदीयप्रतिवेदनेषु विश्वविद्यालयस्य गुणवत्तानिर्धारकमानकानां क्रियान्वयनेन प्राप्तस्य फलस्य विवरणम् उल्लिखितं वर्तते। विश्वविद्यालयस्य सर्वेऽपि क्रियाकलापाः छात्राणां विकासाय पूरकाः स्युरिति सङ्कल्पेन आन्तरिकगुणवत्ताश्वासनप्रकोष्ठस्य प्रतिष्ठापनं विहितम् अस्ति।

आन्तरिकगुणवत्ताश्वासनप्रकोष्ठस्य संसूचनाः आश्रित्य सक्रियाणां विभागसमित्यादीनां कार्येषु सञ्जाताः प्रगतयः यथा -

  1. विश्वविद्यालये छात्रकेन्द्रितवातावरणं विद्यते येन शिक्षणाधिगमप्रक्रियायां प्रौद्योगिक्याः समावेशः क्रमशः जायमानं वर्तते ।
  2. गुणवत्तासम्बद्धेषु तत्त्वेषु छात्राणाम् अभिभावकानां सामाजिकानां च प्रतिक्रियाः स्वीकृत्य शिक्षणाधिगमप्रक्रियायाः संवर्धनदिशि विश्वविद्यालयः सन्ततम् अग्रेसरः वर्तते।
  3. आन्तरिकगुणवत्ताश्वासनप्रकोष्ठस्य सहयोगेन परिसरेषु विभागीयाः ग्रन्थालयाः समारब्धाः। पुनः बहूनि पुस्तकानि क्रीत्वा संस्थापितानि इत्यतः विभागाः सर्वे स्तरोन्नतिं प्राप्नुवन्तः सन्ति।
  4. नियतरूपेण विभागानां पर्यवेक्षणं प्रकोष्ठेन क्रियते इत्यतः विभागानां कार्यतत्परतायाः मूल्याङ्कनं जायमानं वर्तते। परीक्षासमितिः, शोधसलाहकारसमितिः, ग्रन्थालयसमितिः, वित्तसमितिः, छात्रावाससमितिः, क्रीडासमिति,कलासंस्कृतिसम्बद्धसमितिः इत्येवं बहव्यः समितयः सदा सक्रियाः ससूक्ष्मम् अवलोक्य अन्तिमाः निर्णयाः स्वीक्रियन्ते। छात्रपरिवेदनानिवारणप्रकोष्ठः, महिलाकक्षः इत्यादयः अपि स्थानीयस्तरे एव सन्तिष्ठन्ते। आसां निर्णयाः माननीयानां कुलपतीनां निर्देशेन समस्यानिवारणाय कार्यं कुर्वन्ति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

6.3.1 The institution has effective welfare measures for teaching and non-teaching staff.संस्थया अध्यापकेभ्यः अध्यापकेतरकर्मचारिभ्यश्च प्रभाविसंक्षेमोपायाः अनुस्रियन्ते।

Answer:

विश्वविद्यालये अध्यापकाः शिक्षणेतरकर्मचारिणश्च आधारभूताङ्गानि भवन्ति। तेषां सर्वेषां स्वस्थचित्तेनैव विश्वविद्यालयस्य विकासोत्कर्षश्च भवितुं शक्यते। अनेनैव महर्षिपाणिनिसंस्कृतविश्वविद्यालयेन नैकाः कर्मचारिकल्याणयोजनाःअङ्गीकृताः। यथा-

  1. षण्मासस्य मातृत्वावकाशः महिलाभ्यः (Meternity Live)।
  2. सन्तानपालनावकाशः ।
  3. चिकित्सावकाशाः
  4. विशिष्टाः कर्तव्यावकाशाः।
  5. विश्वविद्यालयस्वास्थ्यकेन्द्रम् ।

विश्वविद्यालयस्य पदाधिकारिभ्यः, अधिकारिभ्यः, कर्मचारिभ्यश्च पदानुसारं प्राप्तव्यकल्याणलाभाः UGC तथा राज्यसर्वकारस्य नियमानुसारं विश्वविद्यालयेन प्रदीयन्ते। विश्वविद्यालयद्वारा शैक्षणिक-प्रशासनिककर्मचारिणां कृते प्रदीयमानाः कल्याणकारिलाभाः ते निम्नलिखिताः सन्ति-

1-शैक्षणिककर्मचारिभ्यः दीयमानाः कल्याणकारिलाभाः -

 विश्वविद्यालयस्य शैक्षणिककर्मचारिभ्यः Travel Allowance (T.A). Dearness Allowance(D.A), House Rent Allowance(H.R.A), Medical Allowance(M.A), Duty Leave (D.L) Study Leave (S.L), Maternity Leave(M.L), Paternity Leave (P.L) तथा च परीक्षासम्बद्धकार्येषु प्राशासनिककार्येषु च अनुष्ठितस्य अनुष्ठीयमानस्य च कर्मभ्यः कर्मचारिभ्यः विश्वविद्यालयः निर्धारितनियमानुसारं लाभं प्रयच्छति।

 2-प्राशासनिककर्मचारिभ्यः दीयमानाः कल्याणकारिलाभाः -

विश्वविद्यालयस्य प्राशासनिककर्मचारिभ्यः अपि T.A, D.A, H.R.A, M.A, तथा परीक्षासम्बद्धकार्येषु प्राशासनिककार्येषु च मान्यकुलपतिना अनुमतिं लब्ध्वा प्रदीयमानकार्याणां कृतेऽपि कल्याणकारिलाभाः प्रदीयन्ते।

विश्वविद्यालयस्य स्वास्थ्यसंरक्षणप्रणाली –

इयं प्रणाली समस्तशिक्षक-शिक्षकेतरकर्मचारिणां मूलभूतानुकूलतायै सौविध्यकारिणी भवति । यथा – शिक्षकाणां छात्राणाञ्च कृते विस्तृत वायुयुक्तकक्षा (प्रकोष्ठः) । विश्वविद्यालयस्य परिसरमध्ये सुविधायुक्तः पुस्तकालयः वर्तते। पुस्तकालयेऽस्मिन् पाठ्‌यक्रमसन्दर्भितपुस्तकानि, विश्वकोश-शब्दकोशान्यविविधसन्दर्भितपुस्तकानि सन्ति । शिक्षकाणां तरकर्मचारिणां च कृते निःशुल्कपुस्तकालयसुविधा निर्धारिता । विश्वविद्यालयपरिसरे विविधप्रजातियुक्ताः वृक्षाः सन्ति। एकं सुन्दरमुद्यानमपि विद्यते । प्रदूषणनिर्मूलनाय उपयुक्तमपि इदं वातावरणम् ।

सर्वेभ्यः हितधारकेभ्यः परामर्शसुविधाभिः सह विश्वविद्यालयपरिसरे योगोपचारकेन्द्रमपि विद्यते। अत्र महिलाछात्राणां कृते समानप्रकोष्ठः विश्वविद्यालयानुदानायोगदिशा स्थापितः। लैंगिकोत्पीडननिवारणसमिति:, छात्राणां समस्याससमाधानाय समस्यानिवारणकक्षः, स्थापितः विद्यते । छात्राणां पक्षत: आगतानां समस्यानां एका आन्तरिकशिकायतसमितिरपि गठिता। विश्वविद्यालयस्य कर्मचारिणां कृते व्यावसायिक विकासाय प्रशासनिकप्रशिक्षण कार्यक्रमः आयोज्यते। विश्वविद्यालये शिक्षणेन सह शिक्षणेतर कर्मचारिभ्यः एका विशिष्टा मूल्यांकनप्रणाली विद्यते ।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

6.3.2 Average percentage of teachers provided with financial support to attend conferences / workshops and towards membership fee of professional bodies during the last five yearsविगतपञ्चवर्षेषु सङ्गोष्ठीषु/कार्यशालासु भागग्रहणाय, व्यावसायिकनिकायेषु सदस्यताशुल्कनिमित्तञ्च आर्थिकसहायतां प्राप्तवताम् अध्यापकानां सामान्या प्रतिशतता।

Answer: 33.91

6.3.2.1 Number of teachers provided with financial support to attend conferences/ workshops and towards membership fee of professional bodies year-wise during the last five yearsविगतपञ्चवर्षेषु सङ्गोष्ठीषु/ कार्यशालासु भागग्रहणाय, व्यावसायिकनिकायेषु सदस्यताशुल्कनिमित्तञ्च आर्थिकसहायतां प्राप्तवताम् अध्यापकानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
28 16 0 0 0

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Details of teachers provided with financial support to attend conferences, workshops etc. during the last five years (Data Template)(विगतपञ्चवर्षेषु सङ्गोष्ठीषु/कार्यशालासु भागग्रहणाय, व्यावसायिकनिकायेषु, सदस्यताशुल्कनिमित्तञ्च आर्थिकसहायतां प्राप्तवता) View Document

 

6.3.3 Average number of professional development / administrative training Programmes organized by the university for teaching and non teaching staff during the last five years.विगतेषु पञ्चसु वर्षेषु शिक्षकाणां वृत्तिविकासार्थं, शिक्षकेतरकर्मचारिणां प्राशासनिकप्रशिक्षणार्थञ्च संस्थया समायोजितानां कार्यक्रमाणां वार्षिकी सम्पूर्णा सङ्ख्या।

Answer: 9.2

6.3.3.1 Total number of professional development / administrative training Programmes organized by the Institution for teaching and non teaching staff year-wise during the last five yearsविगतपञ्चवर्षेषु शिक्षकाणां वृत्तिविकासार्थं, शिक्षकेतरकर्मचारिणां प्राशासनिकप्रशिक्षणार्थञ्च विश्वविद्यालयेन समायोजितानां कार्यक्रमाणां वार्षिकयोगः।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
18 11 06 07 04

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Reports of the Human Resource Development Centres (UGC ASC or other relevant centres)(मानवसंसाधनविकासकेन्द्रेभ्यः (विश्वविद्यालयानुदानायोगस्य अकादमिकस्टाफ-महाविद्यालयेभ्यः अथवा तदन्यसदृशकेन्द्रेभ्यः) प्राप्तप्रमाणपत्राणि/प्रतिवेदनानि।) View Document
Reports of Academic Staff College or similar centers(शैक्षणिकमहाविद्यालयानां प्रतिवेदनम्) View Document
Details of professional development / administrative training Programmes organized by the University for teaching and non teaching staff (Data Template)(शैक्षणिक-अशैक्षणिक-कर्मचारिणां व्यावसायिक-विकासार्थं / प्राशासनिक-प्रशिक्षणार्थं विश्वविद्यालयेन समायोजितानां कार्यक्रमाणां विवरणम्। (दत्तांशप्रारूपम्)) View Document

 

6.3.4 Average percentage of teachers attending professional development Programmes, viz., Orientation Programme, Refresher Course, Short Term Course, Faculty Development Programmes during the last five yearsविगतपञ्चवर्षेषु अभिविन्यासपाठ्यक्रम-पुनश्चर्यापाठ्यक्रम-स्वल्पकालिकपाठ्यक्रम-अध्यापकविकासकार्यक्रमादिवृत्तिविकासकार्यक्रमेषु भागग्राहिणाम् अध्यापकानां मध्यमानस्य प्रतिशतता।

Answer: 28.92

6.3.4.1 Total number of teachers attending professional development Programmes, viz., Orientation Programme, Refresher Course, Short Term Course, Faculty Development Programmes year-wise during the last five yearsविगतपञ्चवर्षेषु अभिविन्यासपाठ्यक्रम-पुनश्चर्यापाठ्यक्रम-स्वल्पकालिकपाठ्यक्रम-अध्यापकविकासकार्यक्रमादिवृत्तिविकासकार्यक्रमेषु भागग्राहिणाम् अध्यापकानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
28 5 1 2 1

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Reports of the Human Resource Development Centres (UGC ASC or other relevant centers).(मानवसंसाधनविकासकेन्द्रेभ्यः (विश्वविद्यालयानुदानायोगस्य शैक्षिककर्मचारिमहाविद्यालयेभ्यः अथवा तदन्यसदृशकेन्द्रेभ्यः) प्राप्तप्रमाणपत्राणि/ प्रतिवेदनानि।) View Document
IQAC report summary(आन्तरिकगुणवत्ताऽश्वासनकेन्द्रस्य प्रतिवेदनसारांशः।) View Document
Details of teachers attending professional development Programmes during the last five years (Data Template)(विगतपञ्चवर्षेषु अभिविन्यासपाठ्यक्रम-पुनश्चर्यापाठ्यक्रम-स्वल्पकालिकपाठ्यक्रम-अध्यापकविकासपाठ्यक्रमादि वृत्तिविकासपाठ्यक्रमेषु भागग्राहिणाम् अध्) View Document

 

6.3.5 Institution has Performance Appraisal System for teaching and non-teaching staffसंस्थायां शिक्षकाणां शिक्षकेतरकर्मचारिणां कार्यनिष्पादनज्ञापनप्रणाली वर्तते।

Answer:

संस्थायाः उत्कृष्टतासम्प्राप्तौ दोषविधिः, सन्दिग्धस्थितिः बाधा भवति। अतः निष्प्रपञ्चव्यवहाराय तथा निर्मलनिर्दोषरीत्या प्रगतिपथानुसरणाय विश्वविद्यालयः कार्यं करोति।

  • तेषां मूल्याङ्कनं पदोन्नतिश्च पारदर्शकपद्धत्या API आधारेण विधीयते ।
  • शिक्षकेतराणां कर्मचारिणामपि मूल्याङ्कनं संस्थायाः प्रगतिनिमित्तं महत्त्वपूर्णं भवति। विश्वविद्यालयेन कर्मचारिणां मूल्याङ्कनार्थमपि विशिष्टपद्धतिः स्वीकृता एतेषां गोपनीयमितिवृत्तं (CR) कर्मचारिणां कार्यशैलीं, कार्यप्रगतिं व्यवहारञ्च अवलोक्य विभागप्रमुखैः प्रमाणीक्रियते।
  • विभागप्रमुखैः समर्पितमितिवृत्तम् अधिकारिभिः परिशील्यते। कुलसचिवः कर्मयोगिनामितिवृत्तस्य मान्यतायाः अधिकारी भवति एवं कुलपतिः अध्यापकानां मूल्याङ्कनं विदधाति।

शिक्षणेतरकर्मचारिणां वार्षिककार्यनिष्पादनप्रणालीपरीक्षणक्रमे कार्यालयप्रमुखः प्रस्तावं कुलसचिवं प्रति अग्रेसारयति। कुलसचिवः तदर्थं सक्षम: प्राधिकारी भवति । एतस्मिन् संस्थाने शिक्षणेतरकर्मचारिणां कार्यनिष्पादनमूल्यांकनं तथैव आवश्यकं भवति यथा हि शिक्षकाणां कृते भवति।

कुलसचिवस्य गोपनीयं प्रतिवेदनं विश्वविद्यालयस्य कुलपतिना लिख्यते ।

यदि कस्यचिदपि शिक्षकस्य, अधिकारिणः, कर्मचारिणः वा गोपनीयप्र‌तिवेदने प्रतिकूला टिप्पणी भवति चेत् सः कुलपतिं अस्यावेदनं प्रस्तोतुं शक्यते ।

शिक्षकैः प्रस्तु‌ते वार्षिकस्वमूल्यांकनप्रगतिप्रतिवेदने यदि काचिद् न्यूनता भवति तदा तेः पुनः परिष्काराय सूच्यन्ते। विश्व‌विद्यालयः संकायसदस्यानां कर्मचारिणां च प्रतिभाकौशलस्य सम्पूर्णं उपयोगं करोति । शिक्षकेभ्यः वार्षिकमूल्यांकनप्रणाली, कर्मचारिभ्यश्च प्रदर्शनमूल्यांकनं तेषां गुणवत्तां सुनिश्चितं करोति ।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

6.4.1 Institution conducts internal and external financial audits regularlyसंस्था नियमितम् आन्तरं बाह्यं च वित्तलेखाङ्केक्षणं करोति।

Answer:

विश्वविद्यालये वित्तीयपारदर्शितायाः अत्यन्तम् उच्चमानकं संस्थापयितुं विश्वविद्यालयः स्थापनाकालादेव वित्तीयं विनिमयं परीक्षते। एतस्य समयबद्धरूपेण आन्तरिकं बाह्यं च परीक्षणं कार्यते। अद्यावधिवित्तीय-अङ्केक्षणे न कदापि वित्तीयानियमितता लब्धा। अत्र विश्वविद्यालयस्य आन्तरिक-लेखापरीक्षकः प्रतिवर्षं विस्तृतं प्रतिवेदनं प्रयच्छति। तस्य प्रतिवेदनानुसारेण सज्जता क्रियते आगामीवित्तीयवर्षस्य । यदि कुत्रापि संशोधनीयं न्यूनता वा प्रदर्शिता तदा शीघ्रमेव तस्य निवारणं क्रियते गुणवत्ता च सुनिश्चिता क्रियते। विश्वविद्यालयस्य पार्श्वे लेखापरीक्षणाय उत्तमं व्यवस्थितं च तन्त्रं विद्यते।

प्रतिवर्षमग्रिमवर्षस्य वित्तीयनियोजनं (budget) पूर्वमेव निश्चीयते। सर्वेपि व्ययाः नियोजनमनुलक्ष्य पारदर्शकरूपेण विहितनियमानुगुणं मान्यतायाः परमेव विधीयन्ते। विश्वविद्यालयस्य आयव्यययोः मूल्याङ्कनम् अङ्कपरीक्षणं नियमतया विश्वविद्यालयाधिनियमानुसारेण अङ्कपरीक्षणमाध्यमेन प्रमाणीकियते। एतदर्थं द्विविधा पद्धतिः परिपाल्यते।

आन्तरिकमङ्केक्षणं बाह्यम् अङ्केक्षणञ्चेति ।

विश्वविद्यालये नियमतया प्रतिवर्षम् आन्तरिकमङ्कपरीक्षणं कर्तुं व्यवस्था प्रकल्पितास्ति। तदर्थञ्च विश्वविद्यालयः सक्षमम् अधिकारिणं योजयति। स्थानिकः अङ्केक्षण-अधिकारी समग्रव्ययस्य सूक्ष्मावलोकनं विधाय अङ्कपरीक्षणं प्रमाणीकरोति।

बाह्यमङ्केक्षणं मध्यप्रदेशसर्वकारस्य AG द्वारा विधीयते। विश्वविद्यालयस्य वार्षिकव्ययः दशकोटिरुपकेभ्यः न्यूनो भवति। अतः बाह्यङ्केक्षणमावश्यकं न भवति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

6.4.2 Funds/ Grants received from non-government bodies, individuals, philanthropers during the last five years (not covered in Criterion III) (INR in Lakhs)विगतपञ्चवर्षेषु सर्वकारीयेतरनिकायेभ्यः, व्यक्तिभ्यः, दातृभ्यश्च प्राप्तम् आर्थिकं साहाय्यम् अनुदानं वा (यदि तृतीयनिकषे न निर्दिष्टम्) (लक्षशः रूप्यकेषु)

Answer: 6.99

6.4.2.1 Total Grants received from non-government bodies, individuals, philanthropers year-wise during the last five years (INR in Lakhs)विगतपञ्चवर्षेषु सर्वकारीयेतरनिकायेभ्यः, व्यक्तिभ्यः, दातृभ्यश्च प्रतिवर्षं प्राप्तस्य आर्थिकसाहाय्यानुदानस्य वार्षिकयोगः (लक्षशः रूप्यकेषु)

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
2.12 1.67 1.70 1.50 0

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Details of Funds / Grants received from non-government bodies during the last five years (Data Template) View Document
Annual statements of accounts(अङ्केक्षितस्य वार्षिकलेखापत्रस्य प्रतिकृति: ) View Document

 

6.4.3 Institutional strategies for mobilisation of funds and the optimal utilisation of resourcesविविधसंसाधनानां सर्वाधिकसमुपयोगार्थं, वित्तराशिसङ्ग्रहार्थञ्च संस्थायाः व्यूहाः।

Answer:

मध्यप्रदेशराज्यसर्वकारद्वारा अनुदानितवित्तेन विश्वविद्यालयस्य वित्तीयकार्यं भवति। विश्वविद्यालयेन प्रतिवर्षं यो व्ययो भवति तस्यायोजनं भविष्यं परीक्ष्य विविधविभागेभ्यः स्वस्वयोजनानुसारं आवश्यकतापूर्तये धनराशेः पूर्तये भविष्यद्योजनाः समीक्ष्य अपेक्षितधनराशिः सूच्यते। आगतस्य धनव्ययस्य आकलनं विधाय आनुमानिकं पत्रकं विश्वविद्यालयस्य वित्तविभागेन सज्जीक्रियते । एतत् कल्पितधनव्ययपत्रकं विश्वविद्यालयस्य वित्तसमित्याः पुरतः उपस्थाप्यते। तस्याः संस्तुतिमाश्रित्य पुनः कार्यपरिषदा अनुमोदनं क्रियते। ततः परं विश्वविद्यालयद्वारा राज्यसर्वकारं प्रति सम्प्रेष्यते। येनाधारेण राज्यसर्वकारः अनुदानस्यायोजनालोके धनं विश्वविद्यालयाय प्रददाति।

  • सर्वकारपक्षतः विश्वविद्यालयाय हेत्वनुसारं अनुदानं प्रदीयते। विश्वविद्यालयस्य कृते भविष्यद्योजना अनुदानस्य महत्तमः विनियोगः भवेत् एतदर्थं कार्यकारिण्याः अनुमोदनपूर्वकं मान्यस्य कुलपतेः अनुमत्या सर्वकारस्य नियममनुश्श्रुत्य राज्यसर्वकारद्वारा नियुक्तमुख्यवित्ताधिकारिणा तस्यानुदानधनस्योपयोगः क्रियते। विश्वविद्यालयेनापि सर्वकारस्य नियमानुसारं प्रदत्तधनं तद्धेतून् लक्ष्यीकृत्य प्राप्तस्य अनुदानस्य विनियोगः क्रियते।

संचितधनव्ययः- विश्वविद्यालयस्य संचितधनस्याधारेण नूतनप्रकल्पानां समावेशः क्रियते। नूतनभवनानां निर्माणम्, अधोसंरचनाविकासः इत्यादीनां तत्र समावेशः क्रियते।

अत्र वित्तव्यवस्थायै मध्यप्रदेशशासनपक्षतः वित्ताधिकारी प्रतिनियुक्तो भवति। यः राज्यसर्वकारद्वारा प्रदत्तस्य अन्येभ्यश्च स्रोतोभ्यः प्राप्तस्य धनस्य विनियोगं यथा नियमं कर्तुम् अधिकृतो भवति। विश्वविद्यालयस्य वित्तसमितिना सज्जीकृतस्य प्रस्तावस्य उपरि कार्यपरिषद् विचारं करोति अनन्तरं विविधमदेषु धनविनियोगं विभज्य व्ययीकर्तुम् आदिशति। अनन्तरं कुलपतेः स्वीकृत्या धनव्ययं वित्तनियन्त्रकः करोति। व्ययीकृतस्य धनस्य अङ्केक्षणं CA द्वारा क्रियते। अनन्तरं आन्तरिक-बाह्यपरीक्षकेण अङ्केक्षणं भवति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

6.5.1 Internal Quality Assurance Cell (IQAC) has contributed significantly for institutionalizing the quality assurance strategies and processesगुणवत्ताश्वासनव्यूहानां प्रक्रियाणां च संस्थानीकरणाय आन्तरिकगुणवत्ताश्वासनकेन्द्रं विशेषतः योगदानं करोति।

Answer:

कस्यापि संस्थायाः लोकप्रियता उत्कृष्टता व्यापकतादिकं तस्याः संस्थायाः आन्तरिकगुणवत्ताधारितं भवति। अनेन सहजरीत्या एव संस्थायाः पारदर्शिता प्रसरति। अतः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये आन्तरिकगुणवत्ता-आश्वासनप्रकोष्ठः स्थापितम्।

आन्तरिक-गुणवत्ता-आश्वासन-प्रकोष्ठस्य आरम्भः 2018 वर्षात् जातो वर्तते । शैक्षणिकप्रसङ्गे अध्ययनाध्यापनप्रक्रियासमीक्षायै मुख्यकेन्द्रमस्ति आन्तरिक-गुणवत्ता-आश्वासन-प्रकोष्ठः। शैक्षणिकप्रवृत्तीनां मूल्याङ्कनार्थम् अङ्कयोजनाय च औपचारिकरूपेण कार्यसम्पादने आन्तरिक गुणवत्ताश्वासनप्रकोष्ठः मुख्यभूमिकामावहति।

अस्याः निर्वहणम् एकः वरिष्ठः आचार्यः करोति । अस्यां समित्यां गुणवत्ता तथा च मूल्याङ्कनव्यूहरचना इति प्रक्रियाद्वयी समीक्ष्यते। समित्याऽनया विश्वविद्यालयस्य शैक्षणिकविकासाय प्राशासनिकपर्यवेक्षणाय च समये समये उपवेशनं मान्यस्य कुलपतेः अनुमत्या क्रियते। उपवेशने शैक्षणिकवर्षे करणीयकार्याणां मार्गदर्शिका निर्मीयते। तदनुसारं कार्यं विश्वविद्यालयेन क्रियते । विश्वविद्यालयस्य शैक्षणिक- प्राशासनिककार्यसम्पादनार्थम् आन्तरिक-गुणवत्ता-मूल्याङ्कन-प्रकोष्ठद्वारा करणीयाः निर्धारितांशाः एवं सन्ति-

  1. शैक्षणिकपर्यवेक्षणे संस्थायाः अमनेकप्रकारकगुणवत्तायुक्ताश्वासनपद्धतीनां विकासः करणीयः।
  2. आन्तरिक-गुणवत्ता-मूल्याङ्कन-कक्षाद्वारा एव NAAC इत्यस्य प्रामाण्यप्राप्त्यर्थम् आवेदनपत्रं प्रदातुं निश्चयः कृतो वर्तते विश्वविद्यालयेन।
  3. सर्वपदाधिकारिणाम् अभिप्रायान् गुणवत्तासम्बद्धान् विश्लिष्य नियमपरिवर्तनं कार्ययोजना-परिवर्तनञ्च विश्वविद्यालयेन तथा च गुणवत्तायाः सहयोगार्थ सङ्कलनानुसारं परिवर्त्यते।
  4. उत्कृष्टगुणवत्तायाः प्राप्तपरिणामानुसारं समये समये मानकानां नवीनीकरणं क्रियते। विविधपत्रसंस्थाभिः सह शैक्षणिकप्रवृत्त्यर्थं सम्पर्कः साध्यते।
  5. सर्वपदाधिकारिभ्यः प्राप्तप्रतिक्रियाविषये विचारं कृत्वा समये समये निर्धारितनियमेषु परिवर्तनविषये चिन्तनं क्रियते।
  6. सहाय्यार्थम् अनेन माध्यमेन संस्था शिक्षण-संशोधन-प्रशासनेषु गुणवत्तायाः परिष्करणार्थम् अभिवृद्ध्यर्थं च सततं प्रयतते, सर्वविधसाहाय्यञ्च करोति।
  7. सर्वविधगुणवत्तायाः निर्वहणार्थं कार्यान्वयनायोजनायाः अभ्यासक्रमविकासार्थ च अध्ययनाध्यापनमूल्याङ्कन-संशोधन-सहकारादिसर्वप्रकारकविभागेषु विस्तृतरूपेण प्रवृत्तयः करणीयाः।
  8. मार्गदर्शिकानुसारं शैक्षणिकसम्बन्धिलेखापरीक्षा क्रियते। एवं प्रकारेण आन्तरिक- गुणवत्ता-मूल्याङ्कन-कक्षाद्वारा विविधोपवेशनेषु निर्धारिताः विषयाः अधोनिर्दिष्टाः सन्ति-

समित्या सम्प्राप्ताः सफलताः -

  1. शैक्षणिकपर्यवेक्षणे संस्थायाः अनेकप्रकारकगुणवत्तायुक्ताश्वासनपद्धतीनां विकासः जायमानो वर्तते, विविधकार्यक्रमाः यथा संस्कृतसप्ताहोत्सवः, युवमहोत्सवः, राष्ट्रिय-अन्ताराष्ट्रियपरिसंवादाः, कार्यशालाः, अल्पावधिक-यान्त्रिक-पाठ्यक्रमाः (Short Term Courses), यान्त्रिक-सङ्गोष्ठ्यः (Webinars), विशिष्टव्याख्यानानि आयोज्यन्ते।
  2. आन्तरिक-गुणवत्ता-आश्वासन-प्रकोष्ठद्वारा NAAC इत्यस्य प्रामाण्यप्राप्त्यर्थम् अवेदनपत्रं प्रदातुं कृतनिश्चयानुसारं प्रवर्तमानास्ति ।
  3. विश्वविद्यालयस्य शैक्षणिकाध्यापकानां (CAS) पदोन्नतिविषये यथासमयं विशेषज्ञानां परीक्षणम् एवं मूल्याङ्कनादिकं कृत्वा अभिलिखितम् आन्तरिकगुणवत्ता आश्वासन-प्रकोष्ठस्य अनुशंसाधारेण पदोन्नतिः क्रियते।
  4. अभ्यासक्रमाणां प्रामाणीकरणम् अभ्यासक्रमसमित्या कारितमस्ति ।
  5. अपेक्षानुसारं प्रोजेक्ट इत्यादिनिर्माणाय शिक्षकाणां मार्गनिर्देशार्थं विशेषतया प्रोजेक्टमार्गदर्शिका सज्जिता वर्तते।
  6. संशोधनकार्याणां मूल्याङ्कनविवरणसूची अपि निर्मितास्ति; यस्मिन् शोधप्रबन्धस्य प्रकाशनं कृतमस्ति ।
  7. शास्त्राणां तत्तद्विषयवस्तूनां सम्पूर्णज्ञानाय विश्वविद्यालये Smart Class इत्यस्य व्यवस्थापि सङ्कल्पितमस्ति। अपेक्षितं निर्माण क्रियमाणमस्ति। तद्द्वारा दृश्य-श्रव्यमाध्यमेन ज्ञानं दृढीकर्तुं शक्नुवन्ति छात्राः।
  8. आन्तरिक-गुणवत्ता-आश्वासन-प्रकोष्ठप्राध्यापकेभ्यः विविधकार्यक्रमेषु अभिविन्यासकार्यक्रमः (O.P), पुनश्चर्याकार्यक्रमः (R.C), सङ्गोष्ठयः, कार्यशालाः, अल्पावधिकार्यक्रमादिषु समये समये भागग्रहणायापि प्रोत्साहयति।

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य आन्तरिकगुणवत्ता सफलतया सम्पादितकार्यक्रमस्य विवरणम् इत्थम् - आश्वासन केन्द्रद्वारा

सेवाप्रोन्नतियोजना (Career Advancement Scheme)- विश्वविद्यालयस्य पञ्च अध्यापकेभ्यः आन्तरिक-गुणवत्ता-आश्वासनप्रकोष्ठस्य संस्तुत्या मान्यकुलपतेः अनुमोदनञ्च प्राप्य सेवाप्रोन्नतिः प्रदत्तास्ति एवं सहाचार्यतः आचार्यपदं प्रति संस्तुतिः कृताऽस्ति । पञ्च नियमितसहायकाचार्याणां तथा च संशोधनाधिकारिणां स्टेज्-१ तः स्टेज्-२ इति सेवाप्रोन्नतियोजनाद्वारा (CAS) पदोन्नत्यै आवेदनपत्राणि आन्तरिकगुणवत्ता-आश्वासनप्रकोष्ठः (IQAC) प्रति प्राप्तान्यासन्। तेषां पदोन्नत्यै पञ्चसहायकाचार्याणां प्रकाशनानि, API इत्यस्य परिशोधनं मूल्याङ्कनं च कृत्वा अभिलेखानाम् उपयोगं च कृत्वा तद्विधानेन सर्वाणि पत्राणि यथानियमं प्राप्तान्यासन् । तेषां मूल्याङ्कनं कृत्वा विवरणमपि प्रस्तुतम्, आन्तरिकगुणवत्ता-आश्वासनप्रकोष्ठेण संस्तुतम् तथा च तेभ्यः पदोन्नतिः प्रदत्तापि। अन्येषां पदोन्नत्यै संस्तुतिः अपि कृतास्ति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

6.5.2 The institution reviews its teaching learning process, structures & methodologies of operations and learning outcomes at periodic intervals through IQAC set up as per normsसंस्था आन्तरिकगुणवत्ताश्वासनकेन्द्रद्वारा निर्धारितनियमानुरूपं नियतकालेषु अध्यापनाधिगमप्रक्रियायाः, तत्र उपयुज्यमानायाः पद्धतेः, अधिगमपरिणामस्य च समीक्षां करोति।

Answer:

शैक्षिकलेखापत्रद्वारा प्राप्ताः संस्तुतयः सूचनाश्च आन्तरिकगुणवत्ताश्वासनप्रकोष्ठद्वारा शैक्षिकप्रगतिनिमित्तं तथा न्यूनतायाः दूरीकरणाय सूक्ष्मं परिशील्यन्ते। प्रतिपुष्टिव्यवस्थाऽपि कल्पिता वर्तते । अध्ययनाध्यापनस्य गुणवत्ता संवर्धनाय एते प्रयासाः विधीयन्ते ।

अध्ययनाध्यापनप्रक्रियायाः हितग्राहिभ्यः प्रतिपुष्टिः-

कस्यापि संस्थायाः निमित्तं हितग्राहिभ्यः प्राप्ता प्रतिपुष्टिः महत्त्वपूर्णं योगदानं करोति । प्रतिपुष्टिमाध्यमेन संस्थायाः विकासः, अभिवृद्धिश्च यथेष्टं साधयितुं शक्यते । विश्वविद्यालयस्य स्नातकोत्तरशैक्षणिकविभागेषु औपचारिकतया प्रतिपुष्टिं प्रदातुं व्यवस्था कल्पिता अस्ति। अधिकाधिकां प्रतिपुष्टिं प्राप्य ध्येयप्राप्तये विश्वविद्यालयः यतते। छात्राः, पूर्वछात्राः, अभिभावकेभ्यः, कर्मचारिभ्यः, अध्यापकेभ्यः, विश्वविद्यालयस्य सर्वेभ्यः हितग्राहिभ्यः प्राप्ताः प्रतिपुष्टयः आन्तरिकगुणवत्ताश्वासनप्रकोष्ठस्य पुरतः परिशीलनाय उपस्थाप्यन्ते। आन्तरिकगुणवत्ताश्वासनप्रकोष्ठः परिशीलनपुरस्सरं शैक्षिकगुणसंवर्धनाय सूचनाः प्रददाति । तद्वारा शैक्षिकविभागाः आवश्यकतानुगुणं पाठ्यक्रमपरिवर्तनं कुर्वन्ति ।

  • विश्वविद्यालये शिक्षकैः शिक्षणेतरकर्मचारिभिर्वा यत्किमपि कार्यं निष्पादितं भवति ततः प्राक् आन्तरिक-गुणवत्ता-आश्वासनकेन्द्रे (IQAC) तत्सम्बद्धां चर्चां विधाय अनुमोदनं च प्राप्य अनन्तरमेव तत्कार्यस्य अग्रिमं सोपानं परिकल्प्यते।
  • विश्वविद्यालये छात्राणां गुणवत्ताप्रवर्धनाय परिसंवादः, शास्त्रार्थस्पर्धा, भाषणस्पर्धा, वाग्वर्धिनी सभा, कार्यशालाः च समये समये आयोज्यन्ते।
  • प्रत्येकवर्षे विविधविभागानाम् अभ्यासक्रमनिर्माणाय BOS द्वारा प्रामाणीकरणं कृत्वा शैक्षणिकपुरोगत्यै मार्गदर्शनं प्रददाति । ततः तस्य अनुमोदनम् आन्तरिकगुणवत्ता- आश्वासन-केन्द्रद्वारा क्रियते। शैक्षणिकप्रगत्यै मध्ये समीक्षादिकमपि आयोज्यन्ते।
  • Smart Class - छात्रेभ्यः शास्त्राणां तत्तद्विषयवस्तूनां सम्पूर्णज्ञानाय विश्वविद्यालये Smart Class इत्यस्य व्यवस्थापि 13 प्रकोष्ठेषु सङ्कल्पितास्ति । अपेक्षितं निर्माणं क्रियमाणमस्ति । तद्द्वारा दृश्य-श्रव्यमाध्यमेन ज्ञानं सरलतया अवगन्तुं दृढीकर्तुं च शक्नुवन्ति छात्राः ।
  • विश्वविद्यालयानुदानायोगस्य नियमानुसारं विश्वविद्यालयस्य ग्रन्थालये डिजिटलीकरणं कृतमस्ति। तथा च विश्वविद्यालयपरिसरे अन्तर्जालव्यवस्थया सह आधुनिकशिक्षणप्रणाली अपि प्रारब्धा वर्तते।
  • Information and Communication Technology (ICT) महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये छात्रेभ्यः यान्त्रिककार्येषु प्रवृत्त्यै ICT इत्यस्य उपयोगः क्रियते । तत्र Pen drive, Printer, Scanner, Xerox, Projector, Multiple Printer, Plagiarism आदीनामुपयोगः क्रियते। येन छात्राः आधुनिकविज्ञानेन सह सम्बद्धाः भवेयुः। तदर्थं सङ्गणककक्षायां ग्रन्थालये च व्यवस्था कृतास्ति।
  • विश्वविद्यालयस्य विभिन्नाध्यापकैः विभिन्नविषयाणामुपरि लेखनकार्यप्रकाशनानि विधीयन्तेः येषाम् आन्तरिक-गुणवत्ता-आश्वासन-केन्द्रद्वारा पारदर्शिकतामाश्रित्य विषयविशेषज्ञानां मतानि स्वीकृत्य प्रकाशनसमितिद्वारा प्रकाश्यन्ते।
  •  विश्वविद्यालयद्वारा संशोधनप्रवृत्तेः प्रोत्साहनार्थं संशोधनकेन्द्रस्य प्रारम्भः कृतः वर्तते। भारत-राजपत्राधिनियममाश्रित्य विश्वविद्यालय-अनुदान-आयोगद्वारा शोधार्थिभ्यः प्रकाशित-नूतननियमानुसारं शोधनिर्देशकानां विषये आन्तरिकगुणवत्ता-आश्वासन-केन्द्रद्वारा चर्चां विधाय शोधविद्यार्थिनां स्व-स्व-विषयानुगुणं मार्गदर्शकानां निर्धारणविषये किञ्च शोधकार्यसम्बद्धाः कार्यकलापाः आन्तरिकगुणवत्ता -आश्वासन-केन्द्रद्वारा निर्धारिताः भवन्ति ।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

6.5.3 Number of quality initiatives by IQAC for promoting quality culture per yearप्रतिवर्षम् आन्तरिकगुणवत्ताश्वासनकेन्द्रेण गुणवत्तासंस्कृतिविकासार्थम् आयोजितानां गुणवत्तोपक्रमाणां सङ्ख्या।

Answer: 12

6.5.3.1 Number of quality initiatives by IQAC for promoting quality year-wise for the last five yearsप्रतिवर्षम् आन्तरिकगुणवत्ताश्वासनकेन्द्रेण (आ. गु. आ. के.) गुणवत्तासंस्कृतिविकासार्थमायोजितानां गुणवत्तोपक्रमाणां विगतपञ्चवर्षाणां सङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
6 4 1 1 0

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Number of quality initiatives by IQAC per year for promoting quality culture (Data Template)(आन्तरिकगुणवत्ताश्वासनकेन्द्रेण गुणवत्तासंस्कृतिविकासार्थमायोजितानां गुणवत्तोपक्रमाणां सङ्ख्या। (दत्तांशप्रारूपम्)) View Document
IQAC link(आ.गु.आ.के.द्वारा आयोजितस्य गुणवत्तोपक्रमस्य सन्धानम्।) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

6.5.4 Quality assurance initiatives of the institution include:1. Regular meeting of Internal Quality Assurance Cell (IQAC);2. Timely submission of Annual Quality Assurance Report (AQAR) to NAAC3. Academic Administrative Audit (AAA) and initiation of follow up action4. Participation in NIRF5. UGC Recognition for any other Academic Excellence or any other quality audit recognized by state, national agencies.संस्थायाः गुणवत्ताश्वासनोपक्रमेषु अन्तर्भूताः सन्ति -1. आ.गु.आ.केन्द्रस्य नियमितमुपवेशनम्,2. रा.मू.प्र.परिषदे समयेन वार्षिकगुणवत्ताश्वासनप्रतिवेदनसमर्पणम् ।3. शैक्षिकं प्राशासनिकं लेखापत्रम्, अनुगतक्रियाणामुपक्रमणम् ।4. राष्ट्रियसांस्थिकश्रेणिकरूपरेखायां भागग्रहणम् ।5. विश्वाविद्यालयानुदानायोगेन मान्यताप्राप्तः यः कश्चन शैक्षिकोत्कर्षः अथवा राष्ट्र/राज्य अभिकरणैः मान्यताप्राप्तं किमपि गुणावत्ताङ्केक्षणम्।

Answer: A. Any 4 of the above (अ. उपर्युक्तेषु केचन चत्वारः)

File DescriptionDocument
Upload e-copies of the accreditations and certifications(प्रत्यायनानां, प्रमाणपत्राणां च वैद्युतप्रमाणपत्रम् उपारोपयतु।) View Document
Upload details of Quality assurance initiatives of the institution (Data Template)(संस्थायाः गुणवत्तोपक्रमाणां विवरणम्। (दत्तांशप्रारूपम्)) View Document
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Paste web link of Annual reports of University(विश्वविद्यालयस्य वार्षिकं प्रतिवेदनस्य सन्धानं प्रयच्छतु।) View Document

 

6.5.5 Incremental improvements made during the preceding five years (in case of first cycle)Post accreditation quality initiatives (second and subsequent cycles)गतपञ्चवर्षेषु सम्पादिताः क्रमविकासाः (प्रथमचक्रसन्दर्भे)प्रत्यायनोत्तरं कृताः गुणवत्तोपक्रमाः (द्वितीयादिचक्रेषु)

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य आन्तरिकगुणवत्ता-आश्वासनप्रकोष्ठः आन्तरिकगुणवत्तासंवर्धनाय नियतं प्रयतते। शैक्षणिक-सांस्कृतिक-क्रीडादिगतिविधीनां व्यापकविकासाय गुणवत्तावृद्धये च सततं प्रतिवद्धः। अनेन विगतपञ्चवर्षेषु सम्पादिताः क्रमविकासाः प्रत्यायनोत्तरं च कृताः गुणवत्तोपक्रमाः अधस्तनाः सन्ति।

सत्रम्- 2018-19-

  1. विश्वविद्यालये कार्यरतानां शिक्षकाणां कर्मचारिणां च संस्कृतसम्भाषणदक्षतासिद्धये संस्कृतसम्भाषणस्य आयोजनं 15-25 अगस्त 2018 मासे कृतम्।
  2. विश्वविद्यालये हरितपरिसरं कर्तुं नीतिनिर्माणं कृत्वा तस्य क्रियान्वयने सहस्राधिकः पादपाः 23 अगस्त 2018 दिनाङ्के महामहिमराज्यपालमहोदयानां श्रीमती-आनन्दीवेनपटेलमहाभागानां परमायामुपस्थितौ रोपिताः।
  3. विश्वविद्यालयस्य शिक्षकौ तत्र डॉ. अखिलेशकुमारद्विवेदी (5-25 जनवरी 2019) डॉ. सङ्कल्पमिश्रः (4 फरवरी 01 मार्च 2019 पुनश्चर्यापाठ्यक्रमे भागं ग्रहीतवन्तौ।

सत्रम् 2019-20 –

  1. नवप्रवेशितछात्रेभ्यः सत्रारम्भे प्रेरणाव्याख्यानकार्यक्रमः समायोजितः।
  2. परिसरे हरितपरिसरवृद्धिमुपलक्ष्य 501 पादपाः रोपिताः।
  3. नैकमूल्याङ्कनाय विश्वविद्यालयानुदानायोगस्य 12 B मान्यता प्राप्तये सज्जताकरणम्।
  4. छात्राणां कृते नेट/ जे.आर.एफ. प्रशिक्षणकक्षाः 25/11/2019 तः 15/12/2019  पर्यन्तमायोजिताः।
  5. छात्राणां कृते दशदिवसीयं संस्कृतप्रशिक्षणवर्गस्य आयोजनं 16-25 अगस्त 2019 पर्यन्तं कृतम्।
  6. विश्वविद्यालयस्य कुलगानं निर्माय तस्य रिकार्डिंग कारितम्।

सत्रम् 2020-21-

  1. विश्वविद्यालयस्य शिक्षकाः पुस्तकलेखनाय प्रेरिताः तदनु 31/12/2020 दिनाङ्के दीक्षान्तसमारोहे तैः विरचिताः अष्टौ ग्रन्थाः महामहिमराज्यपालमहोदयैः लोकार्पिताः अभूवन्।
  2. कोविड 19  प्रकोपकारणात् छात्राणां समक्षमार्थिकसमस्यायाः समजायन्त अतः छात्रेभ्यः डिप्लोमापाठ्यक्रमशुल्के न्यूनता कृता।
  3. आनलाइनप्रवेशप्रक्रियां सम्पादयुतुं प्राध्यापकानां कर्मचारिणां च  कृते प्रशिक्षणकार्यक्रमः 09 जून 2021 दिनाङ्के  आयोजितः।

सत्रम् 2021-22-

  1. विश्वविद्यालये पाण्डुलिपिसंशोधनसम्पादनकौशलविकासाय शारदालिपिप्रशिक्षणकार्यशालायाः आयोजनं 25-31 अक्टूबर 2021 दिवसेषु जातम्।
  2. छात्राणां संरचनात्मककौशलविकासाय हस्तशिल्पप्रतियोगिताकार्यक्रमस्य आयोजनं कृतम्।
  3. संस्कृतशिक्षणप्रशिक्षणकार्यशालायाः आयोजनं 12-14 दिसम्बर 2021 पर्यन्तं जातम्।
  4. विश्वविद्यालये CBCS  पद्धतेः पाठ्यक्रमस्य कार्ययोजना स्वीकृता। क्रियान्वयनं जातम्।

सत्रम् 2022-23

  1. विश्वविद्यालयानुदानायोगनवदेहलीद्वारा 12B मान्यताप्राप्तये प्रस्तावस्य 13 जुलाई 2022 दिनाङ्के प्रेषणं कृतम्।
  2. विश्वविद्यालयस्य शिक्षककर्मचारिभ्यः ई. गवर्नेंस प्रशिक्षणकार्यशालायाः आयोजनं 21-23 सितम्बर 2022 दिनाङ्केषु जातम्।
  3. शिक्षणेतरकर्मचारिणां कार्यकौशलवृद्धये कम्प्यूटरप्रोग्रामिंगप्रशिक्षणस्य आयोजनं 18-24 दिसम्बर 2022 दिनाङ्केषु अभवत्।
  4. विश्वविद्यालये CBCS  पद्धतेः पाठ्यक्रमस्य क्रियान्वयनं जातम्।

विश्वविद्यालयोऽयं राष्ट्रीयमूल्याङ्कनप्रत्यायनपरिषदि (NAAC) इत्यस्मिन् प्रथमावेदनं प्रस्तौति।

विश्वविद्यालयोऽयं राष्ट्रीयमूल्याङ्कनप्रत्यायनपरिषदि (NAAC) इत्यस्मिन् प्रथमावेदनं प्रस्तौति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document