5.1.1 Average percentage of students benefited by scholarships/ freeships provided by the Government/ UGC/ Rashtriya Samskrit Sansthan/ any other body during the last five years.विगतपञ्चवर्षेषु सर्वकारद्वारा/ वि.अ.आ द्वारा/ राष्ट्रियसंस्कृतसंस्थानद्वारा/ अन्यसंस्थाद्वारा प्रदत्ताभ्यः छात्रवृत्तिभ्यः शुल्कमुक्तिभ्यश्च प्राप्तलाभानां छात्राणां प्रतिशततायाः मध्यमानम्।
Answer: 22.32
5.1.1.1 Number of students benefited by scholarships and freeships provided by the Government year-wise during the last five yearsविगतपञ्चवर्षेषु सर्वकारद्वारा प्रदत्ताभ्यः छात्रवृत्तिभ्यः शुल्कमुक्तिभ्यश्च प्राप्तलाभानां छात्राणां वार्षिकसङ्ख्या।
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
72 | 122 | 90 | 84 | 55 |
File Description | Document |
---|---|
upload self attested letter with the list of students sanctioned scholarship | View Document |
Upload any additional information | View Document |
Details of students benefited by scholarships and freeships provided by the Government during the last five years | View Document |
5.1.2 Average percentage of students benefited by scholarships, freeships, etc. provided by the institution besides government schemes during the last five years.विगतपञ्चवर्षेषु सर्वकारीययोजनातिरिक्तं संस्थया प्रदत्ताभिः छात्रवृत्ति-शुल्कमुक्तिप्रभृतिभिश्च लाभान्वितानां छात्राणां प्रतिशततायाः मध्यमानम्।
Answer: 22.48
5.1.2.1 Total number of students benefited by scholarships, freeships, etc provided by the institution besides government schemes year-wise during the last five yearsविगतपञ्चवर्षेषु सर्वकारीययोजनातिरिक्तं संस्थानेन प्रदत्ताभिः छात्रवृत्ति-शुल्कमुक्तिप्रभृतिभिः लाभान्वितानां छात्राणां वार्षिकयोगः।
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
65 | 97 | 83 | 114 | 54 |
File Description | Document |
---|---|
Upload any additional information (अतिरिक्ताः सूचनाः) | View Document |
Details of students benefited by scholarships and freeships besides government schemes in last 5 years (विगतपञ्चवर्षेषु सर्वकारीययोजनातिरिक्तं संस्थानेन प्रदत्ताभिः छात्रवृत्ति- शुल्कमुक्तिप्रभृतिभिश्च लाभान्वितानां छात्राणां सङ्ख्या।) | View Document |
5.1.3 Number of capability enhancement and development schemes1. Guidance for competitive examinations2. Career counselling3. Softskill development4. Remedial coaching5. Language lab6. Bridge courses7. Yoga and Meditation8. Personal counselling9. Training for deciphering ancient manuscripts10. Training on Composing Sanskrit Creative poetry and Dramaturgy11. Shastra Vakyartha Training12. Proof Reading for Devanagari Texts13. Spoken Sanskrit Classes14. Foreign Language Study and Training15. Training on Vedic Recitation with correct Intonation16. Training on Karma-Kanda17. Fine Arts, Performing Arts and Theatreसामर्थ्यसंवर्धनाय तद्विकासाय च सञ्चालितानां योजनानां सङ्ख्या1. स्पर्धात्मकपरीक्षाणां कृते मार्गदर्शनम्2. वृत्तिपरामर्शः3. सूक्ष्मकौशलविकासः4. उपचारात्मकम् अनुशिक्षणम्5. भाषाप्रयोगशाला6. सेतुपाठ्यक्रमाः7. योगः ध्यानं च8. वैयक्तिकपरामर्शः9. प्राचीन-पाण्डुलिपि-पठनप्रशिक्षणम्10. काव्यलेखन-नाट्यप्रशिक्षणम्11. शास्त्रार्थ/वाक्यार्थ-प्रशिक्षणम्12. देवनागरी-मुद्राक्षरशोधनप्रशिक्षणम्13. संस्कृतसम्भाषणप्रशिक्षणम्14. वैदेशिकभाषाध्ययनम्15. वेदानां सस्वरपाठप्रशिक्षणम्16. कर्मकाण्डप्रशिक्षणम्17. ललितकला प्रदर्शनकला अभिनयकला वा
Answer: A. 10 or more of the above (अ. उपर्युक्तेषु यानि कानिचिद् दश अथवा ततोऽप्यधिकम्)
File Description | Document |
---|---|
Details of capability enhancement and development schemes (सामर्थ्यसंवर्धनाय तद्विकासाय च संचालितानां योजनानां विवरणम्।) | View Document |
Any additional information (अतिरिक्ताः सूचनाः) | View Document |
Link to Institutional website (• संस्थायाः अन्तर्जालपुटस्य सन्धानाम्।) | View Document |
5.1.4 Average percentage of students benefited by guidance for competitive examinations and career counselling offered by the institution during the last five years.विगतपञ्चवर्षेषु संस्थया प्रदत्तेन स्पर्धात्मकपरीक्षामार्गदर्शनेन, वृत्तिपरामर्शेन च लाभान्वितानां छात्राणां प्रतिशततायाः मध्यमानम्।
Answer: 25.46
5.1.4.1 Number of students benefited by guidance for competitive examinations and career counselling offered by the institution year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु संस्थया प्रस्तुतेन स्पर्धात्मकपरीक्षामार्गदर्शनेन वृत्तिपरामर्शेन च लाभान्वितानां छात्राणां वार्षिकी सङ्ख्या।
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
111 | 109 | 106 | 85 | 68 |
File Description | Document |
---|---|
Details of students benefited by guidance for competitive examinations and career counselling during the last five years | View Document |
Any additional information (अतिरिक्ताः सूचनाः।) | View Document |
5.1.5 The institution has a transparent mechanism for timely redressal of student grievances including sexual harassment and ragging cases.(Yes/ No)लैङ्गिकोत्पीडनस्य आधर्षणस्य च झटिति दूरीकरणाय संस्थायां पारदर्शकतन्त्राणि सन्ति।(सन्ति/ न सन्ति)
Answer: Yes
File Description | Document |
---|---|
Upload any additional information(अतिरिक्ताः सूचनाः।) | View Document |
Minutes of the meetings of student redressal committee, prevention of sexual harassment committee and Anti Ragging committee (छात्रपरिदेवनादूरीकरणसमितेः, लैङ्गिकोत्पीडनस्य दूरीकरणसमितेः, आधर्षणविरोधिसमितेश्च कार्यवृत्तानि।) | View Document |
Details of student grievances including sexual harassment and ragging cases (लैङ्गिकोत्पीडन-आधर्षणविषये छात्रपरिदेवनस्य विवरणम्) | View Document |
5.1.6 The University organises Inter-University Talent Festival, Vakyartha, Shastrartha, Salakapareeksha, Sanskrit elocution contest, Inter-Sanskrit-university Youth festival, Inter College Youth festival, Sanskrit Poets’ Meet, special coaching or training in creative writing, Sanskrit-Poetry writing/ DTP, Copy editing, Proof reading, Cultural tourism, Hospitality, Purana pravachana, lalita-kala etc.अन्तर्विश्वविद्यालयप्रातिभसमारोहं, वाक्यार्थसभां, शास्त्रार्थसभां, शलाकापरीक्षां, संस्कृतभाषणस्पर्धां, शास्त्रसभाम्, अन्तस्संस्कृत-विश्वविद्यालय-युवसमारोहम्, अन्तर्महाविद्यालय-युवसमारोहं, संस्कृत-कविसमवायादि-कार्यक्रमान् आयोजयति। विश्वविद्यालयः सर्जनात्मकलेखनस्य, संस्कृतकाव्यलेखनस्य, सङ्गणक-विज्ञान-विषयक-पुस्तकप्रकाशनस्य, प्रतिलिपिसम्पादनस्य, प्रेक्ष्यवाचनस्य (Proof Reading), सांस्कृतिकपर्यटनस्य, आतिथ्य-निर्वहणस्य, पुराण-प्रवचनस्य, ललितकलानाम् अन्येषां च विषयाणां विशिष्टम् अनुशिक्षणं/ प्रशिक्षणं च प्रददाति।
Answer:
महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन समये समये नैके कार्यक्रमाः आयोज्यन्ते। अस्य मुख्यमुद्देश्यं छात्राः स्वप्रतिभां कौशलं च प्रदर्शयितुं समर्थाः भवेयुरिति। तेषु कानिचन अधस्तानि सन्ति।
अन्तर्विश्वविद्यालयप्रातिभसमारोहः- विश्वविद्यालयोऽयम् अन्याभिः संस्थाभिः सह प्रातिभसमारोहमायोजयति। यथा-
संस्कृतसप्ताहमहोत्सवः- महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन प्रतिवर्षं सप्ताहव्यापी उत्सवः आचर्यते। महोत्सवस्य भागत्वेन सर्वेषाम् आयुर्वर्गीयच्छात्राणां कृते विविधसहकारेण प्रतियोगिताः आयोजिताः भवन्ति। एताः स्पर्धाः मध्यप्रदेशस्य विभिन्नैः संस्थाभिः, महाविद्यालयैः, विद्यालयैः च सह आयोजिताः भवन्ति। तथा च छात्राणां प्रोत्साहनार्थं तेभ्यः पुरस्काराः प्रमाणपत्राणि च प्रदीयन्ते।
वाक्यार्थसभा/शास्त्रार्थसभा - विश्वविद्यालयेन वाक्यार्थसभा, शास्त्रार्थसभा च आयोज्येते। तेन माध्यमेन छात्राणां बौद्धिकविकासः अथ च शास्त्रे अभिरुचिः शाब्दबोधः, वाक्यबोधः, वाक्यार्थबोधश्च जायते।
संस्कृतभाषणस्पर्धा- विश्वविद्यालयेन समये समये संस्कृतभाषणस्पर्धायाः आयोजनं क्रियते। सम्पूर्णप्रतियोगितानां सर्वविधव्ययं व्यवस्थां च विश्वविद्यालयः एव निर्वहति। अत्र ये प्रथमद्वितीयतृतीयस्थानानि प्राप्नुवन्ति ते स्वर्णपदकेन रजकपदकेन कांस्यपदकेन च क्रमशः पुरस्कृताः भवन्ति।
शास्त्रसभा- वाक्यार्थप्रणाली पारम्परिकशास्त्रशिक्षणस्य जीवभूता प्रणाली वर्तते। अतः वाक्यार्थपरम्परायाः परिरक्षणाय आदर्शवाक्यार्थानाम् आयोजनं क्रियते। येन छात्रः वाक्-शैल्याः, शब्दसमूहस्य च शुद्धतां प्राप्नोति। अथ च छात्राः अपि भागं गृहीत्वा शास्त्रज्ञानां शिक्षकाणां वाग्वैखरीं प्रत्यक्षीकर्तुं प्रभवन्ति। जिज्ञासूनां समाधानानि सभामुखमेव यच्छन्ति शिक्षकाः ।
अन्तर्महाविद्यालययुवसमारोहः- विश्वविद्यालयद्वारा सर्वाधिकसंस्कृतच्छात्रोपेतस्य बृहत्तमः उत्सवः नाम अन्तर्महाविद्यालयीय युवमहोत्सवः आयोज्यते । अत्र प्रायः पञ्चाशत्सङ्ख्याकाः(50) प्रतियोगिताः आयोज्यन्ते। येन छात्राः संस्कृतभाषया वक्तुं स्वविश्वासं वर्धयितुं च शक्नुवन्ति तथा च तस्यां संस्कृतभाषायां रुचिं समुत्पादयितुं नूतनानि शास्त्राणि पठितुं च शक्नुवन्ति। तासु प्रतियोगितासु निबन्धलेखनपरीक्षा, शास्त्रार्थप्रतियोगिता, कविसमवायः, श्लोकान्त्याक्षरी, वादविवादः, सुभाषितकण्ठपाठः इत्यादयः प्रामुख्येन उल्लिखिताः। प्रत्येकस्मिन् वर्षे अस्मिन् महोत्सवे विश्वविद्यालयस्य चिताः एव प्रतिभाशालिनः छात्राः भागं गृहीत्वा स्वीयाम् अनितरसाधारणीं प्रतिभां प्रदर्शयन्ति। विश्वविद्यालयस्य प्रतिभाभाण्डागारस्य अनावरणम् अस्मिन् महोत्सवे भवति। अत्र चिताः प्रथमस्थानापन्नाः च विभिन्नच्छात्राः सामान्यविश्वविद्यालयस्तरीययुवमहोत्सवार्थमपि चिताः भवन्ति । युवमहोत्सवस्य अन्तर्गतं यूनां अन्तः उत्साहं जागरितुं सफलाः कार्यक्रमाः आयोजिताः भवन्ति। छात्राः स्वस्वास्थ्यस्य विषये अपि सचेतनाः भवन्ति। युवमहोत्सवे शारीरिकप्रतियोगितानां आयोजनमपि भवति। दीर्घधावनम्, उच्चैःकूर्दनम्, दीर्घकूर्दनम्, चक्रक्षेपणम्, हस्तकन्दुकम्, भल्लप्रक्षेपणम्, कबड्डी इत्यादयः विविधाः प्रतियोगिताः समुचितरूपेण आयोजिताः भवन्ति। यस्य कारणेन शरीरस्य ऊर्जा, कार्यक्षमता, श्वसनक्षमता, शारीरिक-मानसिक-विकासश्च भवति। अन्तस्संस्कृतविश्वविद्यालययुवसमारोहः संस्कृतविश्वविद्यालयान्तरेषु यत्र चलन्ति तत्र अस्माकं छात्राः भागं गृहीत्वा पुरस्कारं प्राप्नुवन्ति।
कविसमवायः- विश्वविद्यालयः काले काले संस्कृतकविसमवायस्य आयोजनं करोति। तेन छात्राणां शिक्षकाणां च मनसि काव्यं प्रति अभिरुचिः, काव्यलेखने प्रवृत्तिश्च भवतः। अत्र स्वतन्त्रतादिवसे कालिदासस्मृतिदिवसे च विशेषतया कविसमवायः भवति। यत्र विश्वविद्यालयस्य छात्राः शिक्षकाः सम्मिलिताः भवन्ति।
सर्जनात्मकलेखनप्रशिक्षणम्- विश्वविद्यालयः काले काले छात्राणां कृते सर्जनात्मकलेखनकौशलविकासाय अवसरः कल्पयति। तेन माध्यमेन छात्राः सर्जनात्मकलेखने समर्थाः भवन्ति।
संस्कृतकाव्यलेखनप्रशिक्षणम्- महर्षिपाणिनिसंस्कृतविश्वविद्यालयेन समये समये संस्कृतकाव्यलेखनप्रशिक्षणस्य आयोजनं क्रियते।
प्रतिलिपिसम्पादनप्रशिक्षणम् - विश्वविद्यालयः काले काले छात्राणां कृते प्रतिलिपिसम्पादनकौशलविकासाय अवसरः कल्पयति। ।
प्रेक्ष्यवाचनम्(Proof Reading)- विश्वविद्यालये प्रेक्ष्यवाचनस्य प्रशिक्षणं प्रदीयते। प्रशिक्षिताः छात्राः विश्वविद्यालस्य विभिन्नप्रकाशनानां प्राथमिकप्रेक्ष्यवाचनं कुर्वन्ति।
सांस्कृतिकपर्यटनप्रशिक्षणम् - विश्वविद्यालयेन मध्यप्रदेशस्य विभिन्न पौराणिक-सांस्कृतिकेषु ऐतिहासिकेषु च स्थानेषु यथाकालं पर्यटनाय व्यवस्थाः कल्प्यन्ते। अस्य पर्यटनस्य माध्यमेन छात्राः तत्तत् स्थानस्य न्यासस्य स्व-इतिहासस्य कार्यस्य च ज्ञानं प्राप्नुवन्ति। यस्मात् कारणात् तेषां स्थानानां विषये मध्यप्रदेशस्य विषये च उत्सुकता, जिज्ञासा च वर्धते।
आतिथ्य-निर्वहणप्रशिक्षणम्- विश्वविद्यालयेन आयोजितेषु विविधेषु कार्यक्रमेषु उपस्थितानामतिथीनां आतिथ्योपचाराय छात्रान् नियोजयन्ति। एतेन आतिथ्यनिर्वहणप्रशिक्षणं छात्राः प्राप्नुवन्ति।
पुराणप्रवचनस्य प्रशिक्षणम्- विश्वविद्यालयः काले काले छात्राणां कृते पुराणप्रवचनस्य अनुशिक्षणस्य प्रशिक्षणस्य च व्यवस्थां प्रकल्पयति। विश्वविद्यालयेन संस्कृतशिक्षण-प्रशिक्षण-ज्ञानविज्ञानसंवर्धनकेन्द्रेण च श्रीमद्भगवद्गीतापाठप्रवचनं श्रीदुर्गासप्तशतीपाठप्रवचनम् इत्यादयः आयोज्यन्ते। यस्मात् कारणात् संस्कृतं धर्मं च प्रति जनानां विश्वासः, प्रवृत्तिः च वर्धते।
ललितकला प्रशिक्षणम् – ललितकलाप्रसङ्गे विश्वविद्यालयेन विविधाः कार्यक्रमाः आयोज्यन्ते। यथा रङ्गवल्ली, भित्तिचित्रकला, प्राकृतिकसंशोधनद्वारा सौन्दर्यीकरणं, कस्यापि उत्सवस्य अलङ्कारः, हस्तशिल्पः, हस्तनिर्मिताः मूर्तयः, पात्राणि च प्रदर्शितानि प्रचारितानि च भवन्ति।
File Description | Document |
---|---|
Any additional information (अतिरिक्ताः सूचनाः) | View Document |
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) | View Document |
5.2.1 Average percentage of placement of outgoing students during the last five yearsविगतपञ्चवर्षेषु प्राप्तोद्योगानाम् अन्तिमवर्षच्छात्राणां प्रतिशततायाः मध्यमानम्
Answer: 7.2
5.2.1.1 Number of outgoing students placed year-wise during the last five yearsविगतपञ्चवर्षेषु प्राप्तोद्योगानां छात्राणां वार्षिकसङ्ख्या
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
24 | 12 | 03 | 06 | 01 |
File Description | Document |
---|---|
Upload any additional information (अतिरिक्ताः सूचनाः) | View Document |
Self attested list of students placed (प्राप्तोद्योगानां छात्राणां स्वयं हस्ताक्षरिता सूची) | View Document |
Details of student placement during the last five years (विगतपञ्चवर्षेषु प्राप्तोद्योगानां छात्राणां सङ्ख्या।) | View Document |
5.2.2 Percentage of student progression to higher education (previous graduating batch) (preceeding academic year data)उच्चतरकक्ष्याः प्रति अग्रेसराणां छात्राणां प्रतिशतता (पूर्वतनं स्नातकवर्गम् आश्रित्य) (प्रगताध्ययनवर्षस्य दत्तांशः)।
Answer: 24.14
5.2.2.1 Number of outgoing students progressing to higher educationउच्चतरकक्ष्याः प्रति अग्रेसराणां छात्राणां सङ्ख्या
Answer: 35
File Description | Document |
---|---|
Upload supporting data for student/alumni (छात्राणां/पूर्वच्छात्रसङ्घस्य सहायकदत्तांशः।) | View Document |
Details of student progression to higher education (उच्चतरकक्ष्याः प्रति अग्रेसराणां छात्राणां विवरणम्।) | View Document |
Any additional information (अतिरिक्ताः सूचनाः।) | View Document |
5.2.3 Average percentage of students qualifying in state/ national/ international level examinations during the last five years. (eg: NET/ SLET/ TOEFL/ Civil Services/ State government examinations)विगतपञ्चवर्षेषु राज्य/राष्ट्र/अन्ताराष्ट्रस्तरीयासु परीक्षासु समुत्तीर्णानां छात्राणां मध्यमानस्य प्रतिशतता (उदा.नेट्-स्लेट्-टोफेल्-नागरिकसेवा-राज्यसर्वकारपरीक्षाः)
Answer: 58.5
5.2.3.1 Number of students qualifying in state/ national/ international level examinations (eg: NET/SLET/TOEFL/ Civil services/State government examinations) year-wise during the last five yearsविगतपञ्चवर्षेषु राज्य/राष्ट्र/अन्ताराष्ट्र-स्तरीयासु परीक्षासु समुत्तीर्णानां छात्राणां वार्षिकसङ्ख्या (उदा-नेट्-स्लेट्- टोफेल्-नागरिकसेवा-राज्यसर्वकारपरीक्षाः)
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
16 | 5 | 3 | 2 | 4 |
5.2.3.2 Number of students appearing in state/ national/ international level examinations (eg: NET/SLET/GRE/TOEFL/ Civil Services/State government examinations) year-wise during the last five yearsविगतपञ्चवर्षेषु राज्य/राष्ट्र/अन्ताराष्ट्र-स्तरीयासु परीक्षासु भागं गृहीतवतां छात्राणां वार्षिकसङ्ख्या (उदा-नेट्-स्लेट्-टोफेल्-नागरिकसेवा-राज्यसर्वकारपरीक्षाः)
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
20 | 8 | 6 | 4 | 8 |
File Description | Document |
---|---|
Upload supporting data for the same (तेषां सहायकदत्तांशाः।) | View Document |
Number of students qualifying in state/ national/ international level examinations during the last five years (विगतपञ्चवर्षेषु राज्य/ राष्ट्र/ अन्ताराष्ट्र-स्तरीयासु परीक्षासु समुत्तीर्णानां छात्राणां सङ्ख्या।) | View Document |
Any additional information (अतिरिक्ताः सूचनाः।) | View Document |
5.2.4 Details of the programme for the exchange/participation of students at national/international level for academic and cultural activities with other institutions.विश्वविद्यालयान्तरेण अन्यया संस्थया सह वा राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु शैक्षिकसांस्कृतिकगतिविधीनां कृते छात्राणां विनिमयाय सञ्चालितस्य कार्यक्रमस्य विवरणम्।
Answer:
विश्वविद्यालयान्तरेण अन्यया संस्थया सह वा राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु शैक्षिकसांस्कृतिकगतिविधीनां कृते विनिमयाय सञ्चालितस्य विवरणम्।
महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः विद्यार्थिनां योग्यतामभिरुचिं चाभिलक्ष्यीकृत्य तेषां समग्रविकासाय सततं प्रयतते। विश्वविद्यालये अध्ययनरताः छात्राः विश्वविद्यालयान्तरेण अन्यया राष्ट्रिय-अन्ताराष्ट्रियस्तरात्मिकया संस्थया आयोजितासु शैक्षिकसांस्कृतिकगतिविधिषु भागग्रहणाय प्रेष्यन्ते। तेन विविधेभ्यः विश्वविद्यालयेभ्यः महाविद्यालयेभ्यश्च समागतैः तत् तत् विषयाध्येतृभिः छात्रैः सह विश्वविद्यालयस्य छात्राः मिलन्ति। परस्परं शास्त्रचर्चां कुर्वन्ति। तेन हृदये प्रतिस्पर्धायाः जन्म भवति। येन छात्राः उत्तमं साफल्यं प्राप्तुमर्हाः भवन्ति। विगतेषु पञ्चवर्षेषु नैके छात्राः राष्ट्रियप्रतियोगितासु भागं गृहीतवन्तः तत्र प्रथमं द्वितीयं तृतीयं वा स्थानं सम्प्राप्य पुरस्कारैः सभाजिताः प्रोत्साहिताश्च अभूवन्। तद्यथा-
2018-2019 वर्षम्-
विश्वविद्यालये राज्यस्तरीययुवमहोत्सवे धावन-आशुभाषण-संस्कृतगीत-काव्यपाठ-शास्त्रार्थ-निबन्ध-योगासन-प्रश्नमञ्च-एकलनृत्यादिप्रतियोगितासु विश्वविद्यालयस्य छात्राः प्रथमं द्वितीयं तृतीयं वा स्थानं प्राप्य स्वर्ण-रजत-कांस्यपदकैः प्रमाणपत्रैश्च सभाजिताः अभूवन्।
2019-2020 वर्षम्-
वर्षेऽस्मिन् विश्वविद्यालयस्य छात्राः नैकासु राज्यस्तरीयराष्ट्रस्तरीयप्रतियोगितासु भागं गृहीतवन्तः । तत्र राष्ट्रियसंस्कृतसंस्थाननवदेहलीद्वारा आयोजितासु राज्यस्तरीयशास्त्रीयस्पर्धासु शास्त्रीयस्फूर्तिस्पर्धायां महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन आयोजितासु राज्यस्तरीयप्रतियोगितासु निबन्ध-संस्कृतगीत-सामूहिकगीत-उच्चैःकूर्दन-काव्यपाठ-कवड्डी-सामूहिकनृत्य-शास्त्रार्थ-योगासन-हास्यनाटिका-वादविवाद-गीत-भाषण-धावनादिप्रतियोगितासु भागं गृहीत्वा प्रथमं द्वितीयं तृतीयं वा स्थानं प्राप्य स्वर्ण-रजत-कांस्यपदकैः सभाजिताः अभूवन्।
2020-2021 वर्षम्-
वर्षेऽस्मिन् विश्वविद्यालये अधीयानाः छात्राः नैकासु प्रतियोगितासु भागं गृहीत्वा प्रातिभप्रकर्षं प्रदर्शितवन्तः। तत्र विश्वविद्यालयेन आयोजिते राज्यस्तरीये युवमहोत्सवे शास्त्रार्थ-रङ्गवल्ली-काव्यपाठ-संस्कृतगीत-वादविवाद-आशुभाषण-एकाङ्की-इत्यादिषु प्रतियोगितासु विशिष्टं स्थानं प्रथमं द्वितीयं तृतीयं वा सम्प्राप्य क्रमशः स्वर्ण-रजत-कांस्यपदकैः प्रमाणपत्रैश्च सभाजिताः अभूवन्।
2021-2022 वर्षम्-
वर्षेऽस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहली इत्यनेन समायोजितासु राज्यस्तरीयशास्त्रीयस्पर्धासु विश्वविद्यालयस्य छात्राः भागं गृहीतवन्तः । तत्र व्याकरणभाषण-ज्योतिषशलाका-साङ्ख्ययोगभाषण-अक्षरश्लोकी-वेदभाष्यभाषणादिप्रतियोगितासु प्रथमं द्वितीयं तृतीयं वा स्थानं प्राप्तवन्तः।
2022-2023 वर्षम्-
वर्षेऽस्मिन् राष्ट्रियसंस्कृतविश्वविद्यालयः तिरुपतिः इत्यनेन आयोजिते अखिलभारतीयसंस्कृतछात्रप्रतिभासमारोहे न्यायभाषणे अत्रत्येन छात्रेण द्वितीयं स्थानं लब्ध्वा रजतपदकेन सभाजितोऽभूत्। एवमेव केन्द्रीयसंस्कृतविश्वविद्यालयः नवदेहली इत्यनेन आयोजितासु शास्त्रीयस्पर्धासु अखिलभारतीयस्तरे एकेन छात्रेण न्यायभाषणे प्रथमं स्थानं लब्धम्। अखिलभारतीयकालिदाससमारोहे उज्जयिन्यां काव्यकण्ठपाठे प्रथमं स्थानं तथा च केन्द्रीयसंस्कृतविश्वविद्यालयेन आयोजितासु राज्यस्तरीयप्रतियोगितासु न्यायभाषणस्पर्धा-प्रबन्धनिबन्धस्पर्धासु स्थानं लब्धम्। विश्वविद्यालयेन आयोजिते युवमहोत्सवे संस्कृतगीत-शोधनिबन्ध-श्लोकान्त्याक्षरी-कन्दुक-संस्कृत-काव्यपाठ-योगासन-शास्त्रार्थ-वक्तृता-वादविवादादिप्रतियोगितासु भागं गृहीत्वा छात्राः प्रथमं द्वितीयं तृतीयं वा स्थानं सम्प्राप्य प्रमाणत्रैः पदकैश्च सभाजिताः अभूवन्।
File Description | Document |
---|---|
Any additional information (अतिरिक्ताः सूचनाः) | View Document |
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) | View Document |
5.3.1 Number of awards/ medals for outstanding performance in sports/ cultural activities at State/ national/ international level (award for a team event should be counted as one) during the last five years.विगतपञ्चवर्षेषु राज्य-राष्ट्र-अन्ताराष्ट्र-स्तरीयासु क्रीडा-सांस्कृतिकचर्यासु अत्युत्कृष्ट-योग्यताम् अभिलक्ष्य प्राप्तानां पुरस्काराणां/पदकानां सङ्ख्या। (गणस्य पुरस्कारः एकपुरस्कारत्वेन गण्यते)
Answer: 100
5.3.1.1 Number of awards/medals for outstanding performance in sports/cultural activities at State/ national/ international level (award for a team event should be counted as one) year-wise during the last five yearsविगतपञ्चवर्षेषु राज्य-राष्ट्र-अन्ताराष्ट्र-स्तरीयासु क्रीडा-सांस्कृतिकचर्यासु अत्युत्कृष्टयोग्यताम् अभिलक्ष्य प्राप्तानां पुरस्काराणां/पदकानां वार्षिकसङ्ख्या। (गणस्य पुरस्कारः एकपुरस्कारत्वेन गण्यते)
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
39 | 7 | 15 | 24 | 15 |
File Description | Document |
---|---|
e-copies of award letters and certificates (अनुमतिपत्राणां प्रमाणपत्राणां च वैद्युतप्रतिलिपिः।) | View Document |
Details of awards/medals for outstanding performance in sports/cultural activities at national/international level during the last five year | View Document |
Any additional information (अतिरिक्ताः सूचनाः।) | View Document |
5.3.2 Presence of an active Student council/ Chatra-parishat/ Chatra-mandal and representation of students on academic and administrative bodies/committees of the institution.संस्थायाः प्राशासनिकशैक्षिकसमितिषु छात्राणां प्रतिनिधित्वं तथा सक्रियायाः छात्रपरिषदः विद्यमानता।
Answer:
संस्थायाः प्राशासनिकशैक्षिकसमितिषु छात्राणां प्रतिनिधित्वं,सक्रियायाः छात्रपरिषदः विद्यमानता-
महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन विविधकार्यभाराः वोढुं प्रशासनिकशैक्षणिकसमित्याः निर्माणं कृतम् अस्ति। येन प्रशासनिककार्यं सुचारुरूपेण चालयितुं शक्यते। एतेन सह छात्राणां कृते छात्रपरिषदपि निर्मिता अस्ति। येन छात्राणां समस्याः सुचारुतया निराकृताः भवेयुः।
संस्थायाः प्राशासनिकशैक्षिकसमितिषु छात्राणां, प्रतिनिधित्वं तथा सक्रियायाः छात्रपरिषदः विद्यमानता।
हितधारकैः क्रियमाणे प्रतिभागिता प्रबंधने विश्वविद्यालयः विश्वसितोस्ति । बहुषु प्रशासनिकशैक्षिकमितिषु छात्राः प्रतिभागिनः सन्तः विश्विद्यालयस्य अभिवृद्धौ सह कुर्वन्ति । तेषु मितिषु भागगृहीतृणां छात्राणां सङ्क्षिप्तविवरणमत्र प्रदीयते ।
विद्यार्थिनां छात्रपरिषदि प्रतिनिधित्वम्-
केचन छात्राः तेषां शैक्षणिकगुणाधारेण तथा च विभिन्नभ्यः प्रवर्गेभ्यः मनोनीताः भवन्ति । छात्रकल्याण-विभागस्य निर्देशकः विद्यार्थीनां चयनकार्यं निर्वहति । एवं मनोनीताः छात्राः विश्वविद्यालयस्य शैक्षणिक-सांस्कृतिककार्यक्रमेषु भागं गृह्णन्ति ।
अध्ययनमण्डलस्य समावेशे विशेषाह्वानम् (BOS)
विश्वविद्यालस्य अध्ययनमण्डलस्य समावेशे छात्राणां प्रतिनिधयः विशेषेणाहूताः सन्तः विषयचयनप्रक्रियायां भागं गृह्णन्ति । एवं प्रकारेण छात्राः कक्षायां बाह्यकार्ये च अनावर्णं प्राप्नुवन्ति ।
छात्रावासप्रशासनसमितौ छात्राणां सहभागिता-
विश्वविद्यालयस्य भोजनालयस्य स्वच्छतासंरक्षणे भोजननिर्माणसम्बन्धीकार्येषु सह कुर्वन्ति।
आन्तरिकगुणवत्ताश्वासनप्रकोष्ठे (IQAC) छात्राणां सदस्यता विश्वविद्यालयस्य आन्तरिकगुणवत्ताश्वासनप्रकोष्ठे छात्राः /शोधच्छात्राः प्रतिनिधयः भूत्वा पाठ्यक्रमनिर्माणे अन्येषु विकासकार्यक्रमेषु च सहभागं कुर्वन्ति।
File Description | Document |
---|---|
Upload any additional information (अतिरिक्ताः सूचनाः।) | View Document |
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) | View Document |
5.3.3 Average number of sports and cultural activities / competitions organised at the institution level per year.प्रतिवर्षं संस्थया आयोजितानां क्रीडा-सांस्कृतिकगतिविधीनां / स्पर्धानां सङ्ख्यायाः मध्यमानम्
Answer: 5.2
5.3.3.1 Number of sports and cultural activities / competitions organised at the institution level year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु आयोजितानां क्रीडा-सांस्कृतिकगतिविधीनां/ स्पर्धानां वार्षिकी सङ्ख्या
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
04 | 09 | 05 | 04 | 04 |
File Description | Document |
---|---|
Upload any additional information (अतिरिक्ताः सूचनाः।) | View Document |
Report of the event (for ex. Sanskrit Pratibha Samaroha, Koumudi Mohotsava etc..) (कार्यक्रमस्य प्रतिवेदनम्। (संस्कृतप्रातिभसमारोहः, कौमुदीमहोत्सवः इत्यादयः)) | View Document |
Number of sports and cultural activities / competitions organised per year (प्रतिवर्षं संस्थया आयोजितानां क्रीडा-सांस्कृतिकगतिविधीनां/ स्पर्धानां सङ्ख्या) | View Document |
5.3.4 The university involves and encourages its students to publish materials like catalogues, wall magazines, university magazine, and other materials. List the major publications/ materials brought out by the students during the last four academic sessions.विश्वविद्यालयेन संग्रहसूचीनां, भित्तिपत्रिकाणां, विश्वविद्यालयपत्रिकाणां तदितरसामग्रीणां च प्रकाशनाय छात्राः समावेश्यन्ते प्रोत्साह्यन्ते च। विगतशैक्षिकवर्षचतुष्टये/अर्धसत्रचतुष्टये छात्रैः प्रकाशितानां प्रमुखप्रकाशनानां/ सामग्रीणां च सूची दीयताम्।
Answer:
महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः छात्राणां रचनात्मककौशलविकासाय समये समये छात्रान् लेखाः, कविताः, सन्देशाः, नीतिवाक्यानि, चित्राणि इत्यादि सम्पादयितुं प्रोत्साहयति। तदर्थं च कार्यक्रमान् आयोजयति। तत्र छात्रैः कृतानां रचनात्मककार्याणां प्रकाशनं विविधमाध्यमैः क्रियते। तत्र विश्वविद्यालयस्य पत्रिकायां पाणिनिधारायां तेषां चित्राणि प्रकाश्यन्ते। प्रकाशनप्रक्रियायां छात्राणां सहयोगः गृह्यते। छात्राणां रचनात्मककार्याणि भित्तिपत्रिकायामपि प्रकाश्यन्ते। छात्राः प्रतिवर्षं विश्वविद्यालयेन समायोजिते राज्यस्तरीययुवमहोत्सवे विशिष्टां चित्रप्रदर्शिनीं दैनिकोपयोगवस्तूनां संस्कृतनामपुरःसरा प्रदर्शिन्यपि छात्रैः समायोज्यते। श्रीविक्रमादित्यशोधपीठेन 28-30 नवम्बर 2022 दिनाङ्केषु आयोजितायां ग्रामनगरवास्तुः एवं राजाभोज इति शीर्षकाश्रितायां अन्ताराष्ट्रियशोधसङ्गोष्ठ्यां चित्रप्रदर्शिनीं निर्माय प्रदर्शितवन्तः। एवं यथा समयं छात्राः प्रकाशने साहाय्यं कुर्वन्ति। विश्वविद्यालयस्य पाणिनीया नाम त्रैमासिकी सान्दर्भिकशोधपत्रिका विद्यते तस्याः प्रकाशने शोधच्छात्राणां स्नातकोत्तररपाठ्यक्रमे च अध्ययनरतानां छात्राणां सहयोगः गृह्यते। एते छात्राः शोधनिबन्धानां टङ्कणगतत्रुटिपरिमार्जनं कुर्वन्ति तथा च पत्रिकायाः कलेवरं साधयितुं साहायं कुर्वन्ति।
File Description | Document |
---|---|
Data Provide the list of Published Materials (प्रमुखप्रकाशनानां/सामग्रीणां च सूची प्रददत।) | View Document |
5.4.1 The Alumni Association/Chapters (registered and functional) contributes significantly to the development of the institution through financial and non financial means during the last five yearsपूर्वच्छात्रसङ्घः (पञ्जीकृतः कार्यं कुर्वन् च) विगतपञ्चवर्षेषु आर्थिकयोगदानेन अन्यैः उपायैश्च संस्थायाः उन्नत्यर्थं सार्थकतया प्रयतमानः विद्यते।
Answer:
पूर्वच्छात्रपरिषदा आर्थिकयोगदानेन अन्यैः उपायैश्च संस्थायाः उन्नत्यर्थं सार्थकप्रयासः-
महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन संस्कृतशिक्षणसमुन्नत्यै च समये समये छात्रपरिषदः आयोजनं क्रियते। यस्मिन् सम्मेलने पूर्वविद्यार्थिषु शिक्षकादिषु च विविधाः चर्चाः भवन्ति। तथा च समये समये आर्थिकयोगदानद्वारा अपि च भौतिकादिकं अन्ययोगदानद्वारा परिषदा साहाय्यं प्रदीयते। अपि च विश्वविद्यालयद्वारा आयोज्यमानेषु कार्यक्रमेषु पञ्जीकरणस्य प्रक्रिया, मञ्चव्यवस्था, शोधपत्रादीनां पाठः, विविधप्रतियोगितासु समन्वयकत्वेन कार्यभारग्रहणम् इत्यादिपूर्वछात्रपरिषद्द्वारा क्रियते।
विश्वविद्यालयस्य उन्नत्यर्थं पूर्वच्छात्रपरिषदियं विद्यार्थिभिः साकं समालोचनं विधाय उत्तममानविकसम्बन्धं निर्माय साहाय्यं करोति। एते पूर्वच्छात्राः तेषानुभवं कौशलं प्रतिपुष्टिं ज्ञानञ्च विनिमय्य छात्राणामुत्तमशैक्षणिकप्रगति-अनुकूलनियमनिर्माणे उद्योगप्राप्तौ च सहायं कुर्वन्ति। अनेकासु शैक्षिकसंस्थासु केचन पूर्वच्छात्राः शैक्षणिकपदे कार्यरताः सन्ति।
पाणिनिपूर्वच्छात्रपरिषत्- विश्वविद्यालयस्यास्य शिक्षिताः छात्राः बहुसंख्याकाः समाजे प्रतिष्ठिताः अभवन् । एतैः पूर्वच्छात्रैः सह नित्यं सम्पर्कं स्थापयितुं "पाणिनिपूर्वछात्रपरिषद्" इति सङ्गठनं विश्वविद्यालये सक्रियमस्ति। एतेन न केवलं तेषां मूल्यानां पुनर्जागरणं भवति, अपितु विश्वविद्यालये अनेकसेवापरियोजनासु तेषां सक्रियव्यक्तिगतवित्तीयसहभागितापि भवति।
विश्वविद्यालयकेन्द्रिताः कार्यक्रमाः -
- स्वच्छभारतमिशन इत्यन्तर्गतं विश्वविद्यालये स्वच्छताभियानम्, जागरूकताकार्यक्रमः।
- हरितभारतम्, स्वच्छभारतमित्यस्य सम्बन्धे वृक्षारोपणम् एवं सुन्दरविश्वविद्यालयस्य निर्माणम्।
- विश्वविद्यालये विद्युत्संरक्षणाय, एलईडी बल्बस्थापनं तद्विषये जागरूकताभियानम्।
- विश्वविद्यालये जलसंरक्षणाय, वर्षाजलस्य समुचितोपयोगाय प्रोत्साहनम्।
- वृक्षारोपणं, साक्षरता, समग्रस्वच्छता, जलसंरक्षणं, जैविककृषिः, योगः इत्यादिषु समकालीनविषयेषु जागरूकता।
वैचारिकं प्रबोधनम्-
- विश्वविद्यालयस्य वैचारिकाधिष्ठानस्य स्थापनम्।
- whatsup Facebook इत्यत्र पूर्वच्छात्रैः ग्रुपमाध्यमेन सम्पर्कस्थापनम्।
- सोशलमीडिया इत्यत्र विश्वविद्यालयपक्षस्य दृढतया स्थापनम्।
- समाजे प्रत्येकं जनं प्रति विश्वविद्यालयस्य सम्पर्कः स्यात् इत्यस्य प्रयासः।
- शिक्षायाः स्वायत्तताविषयेषु सङ्गोष्ठीनाम् आयोजनं कृत्वा शिक्षाविद्भिः सह सम्पर्कसाधनम्।
File Description | Document |
---|---|
Upload any additional information (अतिरिक्ताः सूचनाः।) | View Document |
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) | View Document |
5.4.2 Alumni contribution during the last five years (Amount in Rupees)विगतपञ्चवर्षेषु पूर्वच्छात्रसङ्घेन प्रदत्तम् वित्तीयं योगदानम्- (रूप्यकेषु)
Answer: A. ≥ 1.00 Lakhs (अ. ≥ 1.00 लक्षाः)
File Description | Document |
---|---|
Upload any additional information (अतिरिक्ताः सूचनाः।) | View Document |
Alumni association audited statements (पूर्वछात्रसंङ्घस्य अंङ्केक्षितलेखापत्रम्।) | View Document |
5.4.3 Number of Alumni Association/ Chapters meetings held during the last five years.विगतपञ्चवर्षेषु पूर्वच्छात्रसङ्घस्य उपवेशनानां सङ्ख्या-
Answer: 6
5.4.3.1 Number of Alumni Association/ Chapters meetings held year-wise during the last five yearsविगतपञ्चवर्षेषु पूर्वच्छात्रसङ्घस्य समावेशानां वार्षिकसङ्ख्या।
Answer:
2022-23 | 2021-22 | 2020-21 | 2019-20 | 2018-19 |
1 | 1 | 1 | 2 | 1 |
File Description | Document |
---|---|
Upload any additional information (अतिरिक्ताः सूचनाः।) | View Document |
Report of the event (कार्यक्रमस्य प्रतिवेदनम्) | View Document |
Number of Alumni Association / Chapters meetings conducted during the last five years (विगतपञ्चवर्षेषु पूर्वच्छात्रसङ्घस्य समावेशानां सङ्ख्या) | View Document |