महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:

महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय

Maharshi Panini Sanskrit Evam Vedic Vishwavidyalaya

Formerly Maharshi Panini Sanskrit Vishwavidyalaya, A Public State University under Madhya Pradesh Act No. XV of 2008
Dewas Road, Ujjain, Madhya Pradesh (India) – 456010

Institutional Values and Best Practices

Institutional Values and Best Practices

7.1.1 Number of gender equity promotion Programmes organized by the institution during the last five years.विगतपञ्चवर्षेषु संस्थया लैङ्गिकसमतायाः संवर्धनाय निर्वर्तितानां कार्यक्रमाणां सङ्ख्या।

Answer: 12

7.1.1.1 Number of gender equity promotion Programmes organized by the institution year-wise during the last five yearsविगतपञ्चवर्षेषु संस्थया लैङ्गिकसमतायाः संवर्धनाय निर्वर्तितानां कार्यक्रमाणां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
6 1 2 2 1

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Report of the event कार्यक्रमस्य प्रतिवेदनम् View Document
List of gender equity promotion Programmes organized by the institution (Data Template) संस्थया लैङ्गिकसमतायाः संवर्धनार्थं निर्वर्तितानां कार्यक्रमाणां सूची। (दत्तांशप्रारूपम्) View Document

 

7.1.2 Institution shows gender sensitivity in providing facilities such as:1. Safety and Security2. Counselling3. Common Roomसंस्था अधोलिखितसौविध्यानि प्रदाय लैङ्गिकसंवेदनशीलतां व्यवस्थापयति।1. निरुपद्रवता सुरक्षा च2. परामर्शः3. समानप्रकोष्ठः

Answer:

संस्था अधोलिखितसौविध्यानि प्रदाय लैङ्गिकसंवेदनशीलतां व्यवस्थापयति। 1. निरुपद्रवता सुरक्षा च 2. परामर्शः 3. समानप्रकोष्ठः

Answer:-

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयो विद्यार्थिनां सर्वाङ्गीणविकासाय शिक्षणजगति, अन्यक्षेत्रेषु उत्तरोत्तरं सर्वविधविकासाय बहुविधप्रयत्नैः विविधप्रकल्पान् च सञ्चालयति। छात्रेभ्यः सुरक्षासहितम्, गुणवत्तायुतं, सुखेन शिक्षणं प्रदीयते। आचार्यगणैः विषयगतसमस्यायाः सरलतया सहजतया च समाधानं क्रियते, छात्रैः छात्रनिष्ठप्रतिभायाः सुष्ठु सेचनं प्रदर्शनं च कार्यते। विविधेषु कार्यक्षेत्रेषु स्वकीयं नेतृत्वमित्यादीन् सर्वानपि लाभान् प्राप्नुयुः, एतदर्थं विश्वविद्यालयः छात्राणां निरुपद्रवता, सुरक्षा, परामर्शः, समानप्रकोष्ठश्चेत्यादिविषये निरन्तरं प्रयत्नशीलः विद्यते।

1. निरुपद्रवता सुरक्षा च

  • बालकानां  छात्रावासस्य स्वतन्त्रपालको नियुक्तः।
  • विश्वविद्यालयपरिसरे उत्तमा सुरक्षाव्यवस्था वर्तते।
  • महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन वैयक्तिकसुरक्षासंस्थायै सुरक्षाकार्यभारः प्रदत्तो वर्तते। प्रत्येकस्मिन् भवने प्रत्येकस्मिन् सार्वजनिके स्थाने च सुरक्षारक्षकानां नियुक्तिः कृता वर्तते।
  • विश्वविद्यालये प्रमुखस्थानेषु वैद्युतनिरीक्षणयन्त्रस्य छायाग्राहकयन्त्रमाध्यमेन निरीक्षणं क्रियते।
  • विश्वविद्यालयानुदानायोगस्य निर्देशानुसारं महिला-उत्पीडननिवारणसमितेः महिलाविकाससमितेश्च निर्माणं कृतं वर्तते।
  • विश्वविद्यालयस्य शिक्षकाः शिक्षकेतरकर्मचारिणश्च बालिकानां सुरक्षाविषये विशेषचिन्तावन्तः सन्ति।
  • शैक्षणिकभवने प्रत्येकस्मिन् अपि शैक्षणिकविभागे वसतिगृहेषु च स्वतन्त्र-शौचालयानां व्यवस्था कृता वर्तते। आक्षेपपेटिकानां निरीक्षणं नियमिततया क्रियते।

2परामर्शः -

  • समुपदेशनार्थं विशेषव्याख्यानानि जनजागरणकार्यक्रमाश्च विश्वविद्यालयपक्षतः निरन्तरतया आयोजिताः। महिलाप्रकोष्ठपक्षतः समुपदेशनविषयककार्यशालानाम् आयोजनं, तद्विषयकपरिपृच्छादिकं, तद्विषयकानुगमनम् (follow up) अपि कृतम्। संवादकार्यशालानां माध्यमेन शिक्षकैः वैयक्तिकसमुपदेशनं कारितम्।

3समानप्रकोष्ठः -

  • बालिकानां सौविध्याय महिलासुविधाप्रकोष्ठस्य स्थापनाकृता वर्तते।
  • विश्वविद्यालये अल्पाहारस्थानम् अपि उपलभ्यते।
  • रजोनिवृत्तिवस्त्राणां निष्कासनयन्त्रं तद्भस्मकयन्त्रं च विश्वविद्यालयपरिसरे स्थापितं वर्तते।

 

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः View Document
Provide link for additional information अतिरिक्तसूचनानां सन्धानम्। View Document

 

7.1.3 Alternate Energy initiatives such as:Percentage of power requirement of the university met by the renewable energy sources (preceding academic year data)वैकल्पिकस्य ऊर्जसः उपक्रमाः यथा-विश्वविद्यालयेन उपयुज्यमानायाः विद्युच्छक्तेः पुनर्नवीकरणयोग्येभ्यः ऊर्जस्स्रोतोभ्यः आपूर्तेः प्रतिशतता- (प्रगताध्ययनवर्षस्य दत्तांशः)

Answer: 5.25

7.1.3.1 Annual power requirement met by renewable energy sources (in KWH)आवश्यक्याः वार्षिकविद्युच्छक्तेः पुनर्नवीकरणयोग्येभ्यः ऊर्जस्स्रोतोभ्यः आपूर्तिः।

Answer: 820

7.1.3.2 Annual power requirement of the institution (in KWH)संस्थायाः वार्षिकविद्युच्छक्तेः आवश्यकता।

Answer: 15621

File DescriptionDocument
Upload details of power requirement of the university met by renewable energy sources (Data Template) विश्वविद्यालयेन उपयुज्यमानायाः विद्युच्छक्तेः पुनर्नवीकरणयोग्येभ्यः ऊर्जस्स्रोतोभ्यः आपूर्तेः विवरणम्। (दत्तांशप्रारूपम्) View Document
Upload any additional information अतिरिक्ताः सूचना View Document

 

7.1.4 Waste Management steps including:1. Solid waste management2. Liquid waste management3. E-waste managementव्यर्थवस्तुप्रबन्धनप्रक्रिया यथा1. घनव्यर्थवस्तुप्रबन्धनम्2. तरलव्यर्थवस्तुप्रबन्धनम्3. वैद्युतव्यर्थवस्तुप्रबन्धनम्

Answer:

1 घनव्यर्थवस्तुप्रबन्धनम्

  • विश्वविद्यालये घनावकरव्यवस्थापनं कृतं वर्तते ।
  • स्वतन्त्रस्य मलकूपस्य व्यवस्था सर्वेषु भवनेषु कृता वर्तते। यस्य च स्वच्छता नियमिततया कार्यते। परिसरस्य स्वच्छतारक्षणविषये छात्रेषु कर्मचारिषु च विशेषजागरा वर्तते ।
  • नानावर्णयुक्ताः अवकरकण्डोलाः विश्वविद्यालयपरिसरे यथोपयुक्तस्थानेषु संस्थापिताः।
  • वृक्षावकरस्य सङ्कलनं कृत्वा तत् एकस्मिन् खाते सङ्‌गृह्यते ततश्च विश्वविद्यालस्य उपयोगिनः नैसर्गिकस्य उर्वरकस्य निर्माणं क्रियते।

2. तरलव्यर्थवस्तुप्रबन्धनम्-

1. विशेषावधानपूर्वकं पेयजलस्य अपव्ययनियन्त्रणं क्रियते। विश्वविद्यालयस्य हरीतिमारक्षणार्थं पर्यावरणस्य सौन्दर्यवर्धनार्थं च पेयजलस्य व्यवस्थिततया निर्गमनं कारितं वर्तते । योग्या अपवाहप्रणाली अपि उपलब्धा अस्ति। परिरक्षणव्यवस्थया पेयजलस्य अपव्ययन्यूनीकरणार्थं सूक्ष्मजलनिस्सारणसमस्याः नियमितपरीक्षणं क्रियते। अस्माकं विश्वविद्यालयपरिसरे तरलव्यर्थवस्तुनां निर्गमनं केवलं शौचालयादेव जायते। तेषां प्रणालिकया कूपं संप्राप्य vermicompost कृते उपयोगः भवति।

3. वैद्युतव्यर्थवस्तुप्रबन्धनम्-

  • अनुपयोगिनः वि‌द्युतकोशाः, नष्टानि सङ्गणकानि च क्षिप्यन्ते। समीकरणानन्तरं च अन्येषां यन्त्राणां च उपयोगः क्रियते।
  • सर्वतः अनुपयुक्ताः अवकरकूपे क्षिप्यन्ते। समये समये ग्रामपञ्चायतात् आगतः अवकरसंग्राहकः तेषां संग्रहणं करोति।
  • अवकरनिर्माणस्य न्यूनीकरणसन्दर्भः, अवकरस‌ङ्ग्राहककर्मकरैः सह कार्यं कृत्वा विश्वविद्यालयः सहायक-शृङ्खलया सह कार्यकरणस्य, अन्येभ्यः साहाय्यप्रदानस्य च तस्य भूमिकायाः महत्त्वम् अवगच्छति।
  • अवकरस्य न्यूनीकरणाय तस्य च प्रभाविदृष्ट्या तथा अभिनवपद्धत्या व्यवस्थापनाय सर्वस्तरीयप्रयत्नान् विधातुं वयं कटिबद्धाः स्मः।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Provide link for additional information अतिरिक्तसूचनानां सन्धानम् View Document

 

7.1.5 Rain water harvesting structures and utilization in the campusवृष्टिजलसङ्ग्रहणसंरचना, परिसरे वृष्टिजलोपयोगश्च

Answer:

विश्वविद्यालये वृष्टिजलसङ्‌ग्रहव्यवस्थासङ्ग्रहो विनियोगश्च -

(Rain Water Harvesting, Structures & Utilization in the Campus)

1. परिसरे वर्षाजलव्यवस्था (Rain Water Structural Facility in the Campus)

  • विश्वविद्यालये वृष्टिजलस‌ङ्ग्रहणाय अहर्निशं जलप्राप्त्यै Rechargeable Bore इत्यस्य व्यवस्था वर्तते। जलस्य स्तरमुपरि आगच्छेत् तदर्थमस्मिन् परिसरे वृक्षाणां वपनमधिकमात्रायां कृतमस्ति।

2परिसरे वृष्टिजलस‌ङ्ग्रहः (Rain Water Collection Facility in the Campus)

  • विश्वविद्यालयस्य परिसरः तादृशविस्तृतो वर्तते यच्च स्थानं भौगोलिकदृष्ट्या भौतिकदृष्ट्या च उन्नतं वर्तते। अतो वर्षाजलस‌ङ्ग्रहो विश्वविद्यालये एव आवश्यकः। तदर्थं स्थानद्वये वर्षाजलसंग्राहकः निर्मितः। प्रणालिकाः एवं प्रकारेण संयोजिताः येन प्रायः परिष्कृतेषु स्थानेषु पतितानि वृष्टिजलानि प्रणालिकया जलसंग्राहके संगृहीतानि भवन्ति।

3परिसरे वर्षाजल-उपयोगः (Rain Water Utilization in the Campus)

 अयं विश्वविद्यालयः वृष्टिजलसङ्‌ग्रहफलरूपेणैवास्ति हरितनवपल्वववृक्षैः  आच्छादितः। अत्र अधिकाधिकवृक्षाणां वपनेन जलं भूमौ प्रविशति। प्रतिवर्षं वर्षायाः प्रमाणं सम्यक् भवति। वृष्टिकाले वर्षाजलस्यैव उपयोगः भवति ततश्च जलस‌ङ्ग्रहव्यवस्थायां सुरक्षितस्य जलस्य उपयोगः सर्वेषु भवनेषु समग्रेऽस्मिन् विश्वविद्यालये  नलकूपेन  भवति ।

इत्थं वृक्षैर्हरितः परिसरः वृष्टिजलस‌ङ्ग्रहस्य फलेनैव अस्ति। भित्तिकाभिः वृष्टिजलस‌ङ्ग्रहकूपेन विश्वविद्यालयस्थं  यज्जलस्तरम् अस्ति तत्  पेयजलस्तरं उन्नतं भवति।

 

File DescriptionDocument
Upload any additional information अतिरिक्तसूचनानां सन्धानम्। View Document
Provide link for additional information अतिरिक्ताः सूचनाः View Document

 

7.1.6 Green Practices1. Students, staff usinga) Bicyclesb) Public Transportc) Pedestrian Friendly Roads2. Plastic free campus3. Paperless office4. Green landscaping with trees and plantsहारित्यपरिपाटयः1. छात्राः, अध्यापकाः, अध्यापकेतरकर्मचारिणश्च उपयुञ्जन्ति -(क) द्विचक्रयानम्(ख) सार्वजनिकपरिवहणम्(ग) पादयात्र्यनुकूलमार्गान्2. प्लास्टिक्मुक्तपरिसरः3. कर्गदरहितकार्यालयः4. वृक्षैः पादपैश्च हरितः परिसरः

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः वृक्षैर्हरितपादपैराच्छादिता वर्तते। प्रसङ्गेऽस्मिन् विश्वविद्यालयस्य सर्वेषां कर्मचारिणामधिकारिणां दैनिकव्यवहारः प्राकृतिकवातावरणसंरक्षणाय भवेत्तदत्र जागरूकतया भवति ।

(क) द्विचक्रिकाणाम् उपयोगः - विश्वविद्यालयस्य अधिकारिणः कर्मचारिणः खनिजतैलेन प्रचलितयानस्य उपयोगं कुर्वन्ति, तेषु केचन सेवकाः, उद्यानपालकाः, वैद्युत्कर्मप्रवीणः, ग्रन्थालय-अस्थायिकर्मकरः इमे सर्वे विश्वविद्यालयपरिसरं द्विचक्रकयानेन समागच्छन्ति। विश्वविद्यालयेन तादृशं परिपत्रमपि कृतमस्ति यत् कर्मचारिभिः द्विचक्रयानस्योपयोगं कृत्वा प्रकृतिः रक्षणीया।

 विश्वविद्यालये मान्यात् कुलपतेः आरभ्य सर्वेषां कर्मचारिणां यानस्य व्यवस्थायै एकं सुनिश्चितं स्थानं विद्यते। यत्र एकस्मिन् कोणे विश्वविद्यालयपरिसरे  स्थानं विश्वविद्यालयेन निर्मितं वर्तते, तत्र बहिस्तात् समागतानां सर्वेषां यानानां कृते समीचीनं यानस्थानकस्य (Parking) व्यवस्था कृतास्ति। तत्रापि द्विचक्रिकस्य चतुश्चक्रिकस्य च पृथग्व्यवस्था कल्पिता वर्तते। विश्वविद्यालयस्य प्रवेशद्वारात् प्रविश्य परिसरे कस्यापि आगन्तुकस्य यानमधिकं न चलेत्तदर्थं प्रवेशद्वारनिकटे एव यानस्थानकं निर्मितं वर्तत। ततः आगन्तारः सर्वेऽपि चलित्वा भवनात् भवनं चलन्तः गच्छन्ति येन चालकस्य स्वास्थ्यम् सुरक्षितं भवति तथा च विश्वविद्यालयस्य मनोहरं परिसरमपि पश्यन्तः गच्छन्ति।

(ख). सार्वजनिकपरिवहणाय प्रोत्साहनम् - ये कर्मचारिणः द्विचक्रकयानं न प्रयुञ्जन्ति ते सार्वजनिकपरिवहणेन (Public Transport) विश्वविद्यालयं प्रति समायान्ति। अन्येऽपि अधिकारिणः पक्षे मासे वा स्वस्य वाहनस्योपयोगम् अकृत्वा लोकयानमाध्यमेन गमनागमनं प्रकुर्वन्ति । प्रकृतिसंरक्षणाय विश्वविद्यालयस्य कतिपयकर्मचारिणः परस्परसहयोगेन एकेन यानेन विश्वविद्यालयं प्रति समागच्छन्ति ।

(ग).पादयात्र्यनुकूलमार्गव्यवस्था - विश्वविद्यालये मार्गाः सुदृढाः परिपक्वाः स्वच्छाः घट्टाश्च सन्ति। यत्र विश्वविद्यालयपरिसरे नूतनभवनानां निर्माणकर्मणि लोह-इष्टिका-पाषाण- धूलिकापूरितानि भारयुक्तानि यानानि सुखेन यान्तुं प्रयान्तुं च शक्नुवन्ति तथा च विश्वयोगदिवसे कार्यक्रमानुकूलाः मार्गाः, व्यायामाय परिचालनं भवेत्तदनुकूलाः मार्गाः विश्वविद्यालयेऽस्मिन् सन्ति। दिव्याङ्गः विश्वविद्यालयीयपरिसरे प्रविशति चेत् तेनापि कष्टं नानुभूयते तादृशाः मार्गाः सन्ति । पुनश्च सम्पूर्ण- विश्वविद्यालयपरिसरे सुखेन चलित्वा स्थानात् स्थानं सुखेन गन्तुं शक्यते तादृशाः पादयात्र्यनुकूलाः (Pedestrian Friendly Roads) मार्गाः विश्वविद्यालयेऽस्मिन् सन्ति।

2.प्लास्टिकमुक्तपरिसरः - स्वच्छताभियानान्तर्गतः विश्वविद्यालयोऽयं प्लास्टिकपदार्थानां वर्जनाय अतीव जागरितः प्लास्टिकमुक्तत्वेनो‌द्घोषितः वर्तते। अत एव शैक्षणिकभवनस्य द्वारे एवास्माभिः बहिस्तात् समागतानां सामाजिकानां प्लास्टिकमुक्तविश्वविद्यालये (Plastic-Free Campus) स्वागतमस्तीति उद्घोष्यते। विश्वविद्यालयः शासनस्य मार्गदर्शिकानुसारं शास्त्रिकक्षायां प्रश्नपत्रेणैकेन पर्यावरणसंरक्षणोपायाः पाठ्यन्ते। छात्राणामपि एतस्मिन् विषये जागृतिर्भवेत्तदर्थं विश्वविद्यालयस्थैः सर्वैः विश्वविद्यालये स्वच्छताभियानं च क्रियते। प्लास्टिक इति पदार्थस्य वर्जनाय प्लास्टिकपदार्थेन का हानिः एतस्मिन् सन्दर्भव्याख्यानानि भवन्ति।

3. महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कार्यालयानुगुणः पत्राचारात्मको व्यवहारः अधिकतया WhatsApp. Web-site, Online माध्यमेन च क्रियते । आधुनिकयुगे सर्वैः सह समकक्षतायाः प्राप्त्यर्थं विश्वविद्यालयेऽपि सर्वत्र सर्वोऽपि व्यवहारः "Electronic Media" इत्यनेन माध्यमेनैव भवति। "Electronic Media" इत्यनेन माध्यमेन जनाः समयस्य धनस्य च रक्षणं कुर्वन्ति। अनेन माध्यमेन कर्गदस्य अधिकोपयोगो न भवति। विश्वविद्यालयोऽयं पूर्णतया कर्गदरहितकार्यालयत्वेन (Paperless Office) तद्दिशि यतमानः वर्तते। छात्राणाम् प्रवेशपत्रम् (Enrollment Form), परीक्षापत्रम् (Exam Form), शिष्यवृत्तिपत्राणि (Scholarship Form), शुल्कप्रदानपत्रम् (Fees Payment Form), स्थानान्तरीयप्रमाणपत्रम् (Transfer Certificate), प्रव्रजनप्रमाणपत्रम् (Migration Certificate) एतादृशानि सर्वाण्यपि पत्रकाणि विश्वविद्यालय वेबसाइटमाध्यमेन प्रसारितानि सन्ति, येषां समुपयोगेन कर्गदरहितः कार्यालयव्यवहारः सुचारुतया भवति। विश्वविद्यालयपरिसरेऽपि प्रायः सर्वे कार्यालयादेशाः कर्गदरहितव्यवहारत्वात् मोबाइलयन्त्रमाध्यमेन प्रसारिताः भवन्ति।

4.वृक्षैः पादपैश्च हरितः परिसरः - महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये ‘दशपुत्रसमो द्रुमः’ इति वचनमाश्रित्य हरितक्रान्तिरूपेण सहस्राधिकाः वृक्षाः समारोपिताः सन्ति। विश्वविद्यालयेऽस्मिन् वृक्षारोपणकार्यक्रमः प्रतिवर्षं भवति। अत्र छात्रैः, प्राध्यापकैः, कर्मचारिभिः, अधिकारिभिश्च सम्मिल्य वृक्षारोपणं, वृक्षे जलसेचनं, वृक्षान् परितः आलवालानां स्वच्छताविषयकं कार्यं च क्रियते । वृक्षारोपणाय वृक्षसंवर्धनाय च विविधाः संस्थाः कार्यरताः सन्ति । ताः विश्वविद्यालयाय स्वयोगदानं प्रयच्छन्ति।

5.हरितदिवसः – प्रत्येकस्मिन् सप्ताहे बुधवासरं विश्वविद्यालयः हरितदिवसरूपेण परिपालयति। तस्मिन् दिवसे इन्धनयुक्तानि यानानि विश्वविद्यालयस्य मुख्यद्वारात् बहिः संस्थाप्य अटित्वा एव परिसरे सर्वैः प्रवेशः कर्तव्यः। एवं सम्पूर्णदिवसे अटनेन शरीरचर्चा यथा भवति, तथैव इन्धनयुक्तयानानां व्यवहारः न्यूनः भवति। एवं वैश्विकौष्णायनह्रासाय विश्वविद्यालयस्य क्षुद्रः प्रयासोऽयम्।

इत्थम् अनेन विश्वविद्यालयेन हरितपरिपाटयः (Green Landscaping with Trees and Plants) परिपाल्यन्ते

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Provide link for additional information अतिरिक्तसूचनानां सन्धानम्। View Document

 

7.1.7 Average percentage of expenditure on green initiatives and waste management excluding salary component during the last five years.विगतपञ्चवर्षेषु वेतनाद् ऋते हारित्योपक्रमे, व्यर्थवस्तुप्रबन्धने च कृतस्य व्ययस्य प्रतिशततायाः मध्यमानम्-

Answer: 1.27

7.1.7.1 Total expenditure on green initiatives and waste management excluding salary component year-wise during the last five years (INR in lakhs)विगतपञ्चवर्षेषु वेतनाद् ऋते हारित्योपक्रमे, व्यर्थवस्तुप्रबन्धने च आहत्य कृतः वार्षिकव्ययः (लक्षशः) 

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
3 1.5 1.2 0.5 1.6

 

File DescriptionDocument
Green audit report हारित्योपक्रमस्य अङ्केक्षणप्रतिवेदनम्। View Document
Details of expenditure on green initiatives and waste management during the last five years (Data Template) विगतपञ्चवर्षेषु हारित्योपक्रमे, व्यर्थवस्तुप्रबन्धने च कृतस्य व्ययस्य विवरणम्। (दत्तांशप्रारूपम्) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

7.1.8 Differently abled (Divyangjan) Friendliness Resources available in the institution1. Physical facilities2. Provision for lift3. Ramp / Rails4. Braille Software/facilities5. Rest Rooms6. Scribes for examination7. Special skill development for differently abled students8. Any other similar facility (Specify)संस्थायाम् अन्यथाशक्तजनानाम् (दिव्याङ्गानाम्) अनुकूलसंसाधनानाम् उपलब्धिः।1. भौतिकसौविध्यानि2. उत्तोलनफलकव्यवस्था3. समतलोद्गमनी/ हस्तालम्बदण्डाः4. अन्धसहकृतितन्त्रांशः/सुविधाः5. विश्रान्तिप्रकोष्ठः6. परीक्षायाम् अनुलेखकः7. अन्यथाशक्तच्छात्रेषु विशिष्टकौशलस्य विकासः8. अन्याः समरूपाः सुविधाः (नामसहितो निर्देश:)

Answer: A. 5 and more of the above (अ. उपर्युक्तेषु पञ्च, ततोऽधिकानि वा)

File DescriptionDocument
Upload resources available in the institution for Divyangjan (Data Template) संस्थायाम् अन्यथाशक्तजने (दिव्याङ्गजने) साहाय्यकारि-साधनसम्पदाम् उपलब्धिसूचकं सन्धानम्। (दत्तांशप्रारूपम्) View Document
Upload any additional information अतिरिक्ताः सूचनाः View Document
Link to photos and videos of facilities for divyangjan अन्यथाशक्तजनानाम् (दिव्याङ्गानाम्) अनुकूलसंसाधनानाम् चित्राणां चलनचित्राणां च सन्धानं दीयताम् View Document

 

7.1.9 Number of specific initiatives to address locational advantages and disadvantages during the last five yearsविगतपञ्चवर्षेषु स्थानिकानि आनुकूल्यानि प्रातिकूल्यानि च मनसि निधाय प्रवर्तितानाम् उपक्रमाणां सङ्ख्या

Answer: 15

7.1.9.1 Number of specific initiatives to address locational advantages and disadvantages year-wise during the last five yearsविगतपञ्चवर्षेषु स्थानिकानि आनुकूल्यानि प्रातिकूल्यानि च मनसि निधाय प्रवर्तितानाम् उपक्रमाणां वार्षिकसङ्ख्या -

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
1 2 5 3 4

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Number of Specific initiatives to address locational advantages and disadvantages (Data Template) स्थानिकानि आनुकूल्यानि प्रातिकूल्यानि च मनसि निधाय प्रवर्तितानाम् उपक्रमाणां सङ्ख्या। (दत्तांशप्रारूपम्) View Document

 

7.1.10 Number of initiatives taken to engage with and contribute to local community during the last five years (Not mentioned elsewhere)विगतपञ्चवर्षेषु स्थानिकसमुदायेन सम्बन्धमनुवर्तयितुं, योगदानं कर्तुं च उपक्रान्तानाम् उपक्रमाणां सङ्ख्या (अन्यत्र अनुल्लिखितानाम्)

Answer: 15

7.1.10.1 Number of initiatives taken to engage with and contribute to local community year-wise during the last five yearsविगतपञ्चवर्षेषु स्थानिकसमुदायेन सम्बन्धमनुवर्तयितुं, योगदानं कर्तुं च उपक्रान्तानाम् उपक्रमाणां वार्षिकसङ्ख्या

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
3 6 1 2 3

 

File DescriptionDocument
Upload the report of the event कार्यक्रमस्य प्रतिवेदनम्। View Document
Upload any additional information अतिरिक्ताः सूचनाः View Document
Details of initiatives taken to engage with local community during the last five years (Data Template) गतपञ्चवर्षेषु स्थानिकसमुदायेन सम्बन्धमनुवर्तयितुं योगदानाय च कृतानाम् उपक्रमाणां विवरणम्। (दत्तांशप्रारूपम्) View Document

 

7.1.11 Existence code of Conduct Handbook exists for students, teachers, governing body, administration including Vice Chancellor / Director / Principal /Officials and support staff(Yes/No)कुलपति-निदेशक-प्राचार्य-अधिकारिप्रभृतीनां प्रशासनाधिकारिणां सह-कार्यकर्तृगणानां, छात्राणाम् अध्यापकानां, शासिपरिषन्निकायानां च मार्गदर्शनाय संस्थित-नीतिनियमावलीयुता करदीपिका वर्तते।(अस्ति/नास्ति)

Answer: Yes

File DescriptionDocument
URL to Handbook on code of conduct for students and teachers , manuals and brochures on human values and professional ethics छात्राणाम् अध्यापकानां, शासिपरिषन्निकायानां च मार्गदर्शनाय नीतिनियमावलीयुतायाः करदीपिकायाः सन्धानम्। View Document
Upload any additional information अतिरिक्ताः सूचनाः View Document

 

7.1.12 Display of core values in the institution and on its website(Yes/No)संस्थायां, संस्थायाः जालस्थाने प्रधानमूल्यानां प्रदर्शनम्(अस्ति/नास्ति)

Answer: Yes

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचना View Document
Provide URL of website that displays core values जालस्थानस्य सन्धानं यत्र प्रधानमूल्यानां प्रकाशनं विद्यते। View Document

 

7.1.13 The institution plans and organizes appropriate activities to increase consciousness about national identities and symbols; Fundamental Duties and Rights of Indian citizens and other constitutional obligations(Yes/No)भारतीयनागरिकेषु राष्ट्रियाणाम् अभिज्ञानानां, प्रतीकानां, मूलकर्तव्याधिकारयोः, अन्येषाञ्च संवैधानिकोत्तरदायित्वानां विषये संवेदनाम् अभिवर्धयितुं संस्था योग्यकार्यक्रमाणां योजनां निर्वर्तनञ्च करोति।(आम् / न)

Answer: Yes

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Details of activities organized to increase consciousness about national identities and symbols (Data Template) भारतीयनागरिकेषु राष्ट्रियाणाम् अभिज्ञानानां, प्रतीकानां, मूलकर्तव्याधिकारयोः, अन्येषाञ्च संवैधानिकोत्तरदायित्वानां विषये संवेदनाम् अभिवर्धयित View Document

 

7.1.14 Does the institution offer a course on Human Values and professional ethics on the basis of Vedic and Sanskrit literature.(Yes/No)संस्था वैदिकवाङ्मयं संस्कृतसाहित्यञ्च आधृत्य मानवीयमूल्यानि वृत्तिनीतिं चाधिकृत्य पाठ्यपत्रं प्रवर्तयति किम्।(प्रवर्तयति/न प्रवर्तयति)

Answer: Yes

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Provide link to Courses on Human Values and professional ethics on Institutional website वैदिकवाङ्मयं संस्कृतसाहित्यञ्च आधृत्य मानवीयमूल्यानि वृत्तिनीतिं चाधिकृत्य पाठ्यपत्राणां प्रवर्तनस्य संस्थायाः जालपुटस्य सन्धानम्। View Document

 

7.1.15 The institutional functioning is as per professional code prescribed / suggested by statutory bodies / regulatory authorities for different professions.(Yes/No)विविधवृत्तिप्राधिकाराणां परिनियमानुसारेण / संवैधानिकनिकायसंस्तुत्यनुसारेण संस्था कार्यं निर्वर्तयति।(आम्/न)

Answer: Yes

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Provide URL of supporting documents to prove institution functions as per professional code विविधवृत्तिप्राधिकाराणां परिनियमानुसारेण/ संवैधानिकनिकायसंस्तुत्यनुसारेण संस्था कार्यं निर्वर्तयतीत्युपस्थापयितुं सहायकाभिलेखानां सन्धानम्। View Document

 

7.1.16 Number of activities conducted for promotion of universal values (Truth, Righteous conduct, Love, Non-Violence and peace); national values, human values, national integration, communal harmony and social cohesion on the basis of Vedic and Sanskrit literature as well as for observance of fundamental duties during the last five yearsविगतपञ्चवर्षेषु वैदिकवाङ्मयं संस्कृतसाहित्यञ्च आधृत्य वैश्विकमूल्यानां (सत्यं, चारित्र्यं, प्रेम, अहिंसा, शान्तिश्च) राष्ट्रियमूल्यानां, मानवीयमूल्यानां, राष्ट्रियैकतायाः, नानासमुदायसहभावस्य, सामाजिकसमरसतायाः, मूलकर्तव्यानामनुपालनस्य च प्रोत्साहनाय प्रवर्तितानां कार्यक्रमाणां सङ्ख्या

Answer: 40

7.1.16.1 Number of activities conducted for promotion of universal values (Truth, Righteous conduct, Love, Non-Violence and peace); national values, human values, national integration, communal harmony and social cohesion as well as for observance of fundamental duties year-wise during the last five yearsविगतपञ्चवर्षेषु, वैदिकवाङ्मयं संस्कृतसाहित्यञ्च आधृत्य वैश्विकमूल्यानां (सत्यं, चारित्र्यं, प्रेम, अहिंसा, शान्तिश्च) राष्ट्रियमूल्यानां, मानवीयमूल्यानां, राष्ट्रियैकतायाः, नानासमुदायसहभावस्य, सामाजिक-समरसतायाः, मूलकर्तव्यानामनुपालनस्य च प्रोत्साहनाय प्रवर्तितानां कार्यक्रमाणां वार्षिकसङ्ख्या

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
2 9 4 8 17

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
University code of conduct for teachersअध्यापकानां कृते विश्वविद्यालयस्य आचारसंहिता View Document
University code of conduct for students छात्राणां कृते विश्वविद्यालयस्य आचारसंहिता View Document
Report on the student attributes facilitated by the University छात्राणां गुणार्जनाय विश्वविद्यालयस्य सहकारिताविषयकं प्रतिवेदनम्। View Document
List of activities conducted for promotion of universal value (Data Template) वैश्विकमूल्यानां संवर्धनाय आयोजितानां गतिविधीनां सूची। View Document
Handbooks, manuals and brochures on human values and professional ethics मानवीयमूल्यानि, वृत्तिनीतिं च अधिकृत्य प्रकाशिता हस्तपुस्तिका, दिग्दर्शिका, परिपत्रिका च View Document

 

7.1.17 Institution conducts Value based Moral Education Programmes based upon Ancient Indian Texts like Bhagavadgeeta, Ramayana etc, and organizes national festivals and birth / death anniversaries of the great Indian personalities.संस्था रामायण-भगवद्गीताप्रभृतीन् प्राचीनभारतीयग्रन्थान् आश्रित्य नैतिकशिक्षापाठ्यक्रमान् चालयति । राष्ट्रियमहोत्सवान्, विशिष्टानां गण्यानां भारतीयव्यक्तीनां वार्षिकं जन्मदिनं/पुण्यतिथिं च समायोजयति।

Answer:

प्राचीनभारतीयग्रन्थानां नैतिकशिक्षाःवैश्विकमूल्यानिसार्वत्रिकमूल्यशिक्षाराष्ट्रियमूल्य-राष्ट्रभक्तिशिक्षा च-

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन भारतीयप्राचीनपरम्परायाः संरक्षणपूर्वक-पाठ्यक्रमाः प्रचाल्यन्ते। संस्कृतविश्वविद्यालयत्वात् अत्र वेदानां,शास्त्राणां, दर्शनानामध्ययनमध्यापनञ्च प्रचलति। तेषु सर्वेषु शास्त्रेषु नैतिकशिक्षणम्, मूल्यशिक्षणमागच्छत्येव यथा - 'अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दयाभूतेष्वलोलुप्त्वं मार्दवं हीरचापलम्।। विश्वविद्यालयपरिसरे आवर्षं मूल्यवर्धनाय नीतिशिक्षायै नैके कार्यक्रमाः भवन्ति। अभ्यासक्रमेण सह सहाभ्यासिकाः प्रवृत्तयः स्पर्धाः व्याख्यानानि कार्यशालाः परिसंवादाः वाक्यार्थपरिषद्, युवमहोत्सवः पदवीदानसमारम्भः शास्त्रीयस्पर्धाः कण्ठपाठस्पर्धाः संस्कृतसप्ताहोत्सवः संस्कृतभाषया एवाध्ययनाध्यापनं राष्ट्रियमहोत्सवाः एतत्सर्वमावर्षं चलन्ति, अतः विविधैः मार्गैः छात्रेषु मूल्यशिक्षणस्य च सञ्चारः भवति ।

1. नैतिकशिक्षा (Moral Education)

सत्यम् (Truth)

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य अभ्यासक्रमे वेदोपनिषद्रामायणमहाभारतपुराणादीनि शास्त्राणि सन्ति यत्र 'सत्यं वद', 'सत्यं परं धीमहि' तद्वत् 'सत्यं ब्रूयात् प्रियं ब्रूयात्' तथा च श्रीरामचन्द्रस्य पवित्रं चरित्रमभ्यासक्रमेऽस्ति तेन छात्रेषु सत्यभाषणस्य सत्याचरणस्य गुणः विकसितः भवति। अनेन सह राष्ट्रियपर्वोत्सवेषु ०२ अक्टूबरदिनाङ्के महात्मागान्धिनः जयन्त्यां सत्य-अहिंसायाः आदर्शाः श्राव्यन्ते, निबन्धलेखनादयः स्पर्धाः भवन्ति ।

न्याये वर्तनम् (Righteous Conduct)

विश्वविद्यालयस्यास्य अभ्यासक्रमे न्याय्यात्पथः प्रविचलन्ति पदं न धीराः,उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः, इति ज्ञानदं नीतिशतकं श्रीकृष्णनीतित्वेन श्रीमद्भगवद्गीतासदृशाः ग्रन्थाः सन्ति । तेषां ग्रन्थानामध्ययनेन न्यायपूर्णेन व्यवहारेण कः लाभः भवति ? इति छात्राः विविधैः ग्रन्थैरधिगच्छन्ति

प्रेम (Affection)

वेदेषु पुराणेषु नैकानि सूक्तानि नैके प्रसङ्गाः कथाः आगच्छन्ति येषु परस्परं जीवदयापूर्णः प्रेमभावः सर्वेषु विकसितः भवेत् तादृशानि उदाहरणानि कथाश्च अभ्यासक्रमे समायान्ति पुनश्च युवमहोत्सवेऽपि छात्राणां परस्परः प्रणयभावः विकसितो भवेत् तदर्थम् आयोजनम् एतद् भवति।

अहिंसा (Non-Violence)

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य अभ्यासक्रमे प्रायः अध्यात्मग्रन्थाः शास्त्राणि च सन्ति येषु यमनियमासनप्राणायाम......... इत्यादियोगसूत्रैः अहिंसायाः महत्त्वं फलञ्च प्रतिपादितमस्ति। विशेषतः वेदव्यासविरचितः महाभारताख्यो ग्रन्थः शास्त्रि-आचार्यकक्षायामागच्छन्ति यस्य ध्येयवाक्यमेवास्ति 'अहिंसा परमो धर्मः’ एवञ्च 'अहिंसया परं रूपम्'। अनेन छात्रेषु अहिंसावृत्तेः विकासो भवति पुनश्च परोपकारः पुण्याय पापाय परपीडनमित्यत्र परपीडनमप्येका हिंसा एवास्तीति सम्यगधीत्य छात्राः अहिंसामार्गस्य बोधं सम्प्राप्य आचरणं कुर्वन्तः भवन्ति ।

 शास्त्राध्ययनस्य परमं चरमं च लक्ष्यं भवति शान्तिप्राप्तिः, इति हेतुत्वात् विश्वविद्यालयस्याभ्यासक्रेषु प्रायः सर्वेषु ग्रन्थेषु त्रिभिः तापैः शान्तिः भवेत् तादृशं ज्ञानं निहितमेवास्ति । विशेषतः शास्त्रीयाभ्यासक्रमे श्रीमद्भगवद्गीता आगच्छति तत्र त्यागाच्छान्तिरनन्तरम्', 'स शान्तिमधिगच्छति', 'अशान्तस्य कुतः सुखम् ?', 'ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छतिएतादृश्यः सूक्तयः अभ्यासक्रमे सन्ति तासामध्ययनं कृत्वा शान्तिप्राप्त्युपायै छात्राः शास्त्राणि पठन्ति। पुनश्च अस्माकं परम्परायामपि कार्यक्रमान्ते कर्मान्ते च ॐ शान्तिः शान्तिः शान्तिः इति वारत्रयमुच्यते ।

राष्ट्रियमूल्यानि (National Values)

विश्वविद्यालयपरिसरे पठतां छात्राणां जीवने राष्ट्रियमूल्यविकासः भवेत्तदर्थं वेदपुराणेतिहासविषयमाध्यमेन 'राष्ट्रदा राष्ट्र मे देहि' राष्ट्रसूक्तम्, भूमिसूक्तम्, राजभक्तिः, रामायण-महाभारतयोः युद्धकथा तथा च समग्रे वर्षे येषां क्रान्तिकारी-पुरुषाणां दिवसाः आगच्छन्ति तेन समं तन्महत्त्वं ज्ञात्वा छात्रेषु राष्ट्रियमूल्यविकासः देशभक्तिश्च वृद्धिमेति ।

मानवमूल्यानि (Human Values)

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्याभ्यासक्रमे ये ग्रन्थाः सन्ति तेषां ग्रन्थानां कविपरिचयेनैव मानवमूल्यानां विकासाय छात्राणां प्रवृत्तिर्भवति। यथा व्यास-वाल्मीकि-पाणिनि-पतञ्जलि-कालिदास-माघ-वराहमिहिर-भास्कराचार्य-कणाद-गौतम-महीधर-सायणादीनां ग्रन्थाध्ययनेन छात्रनिष्ठमानवमूल्येषु विकासो भवति। मानवमूल्यानां विकासाय शास्त्रीयग्रन्थेषु युधिष्ठिरः, नचिकेता, भरतः, हनुमान्, ध्रुवप्रह्लादौ तथैवाधुनिककालानुगुणं भगवान् शङ्कराचार्यः, डॉ. सर्वपल्ली राधाकृष्णन्, स्वामिविवेकानन्दः,  इत्यादीनां महापुरुषाणां जीवनचरित्राणि छात्राः पठन्ति ।

राष्ट्रिय-एकीकरणम् (National Intiegration)

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये संस्कृतग्रन्थैः सह इतिहास-अर्थशास्त्रादीनां ग्रन्थानामप्यध्ययनं भवति तत्र च इतिहासग्रन्थाधारेण राष्ट्रियएकीकरणस्य पाठः छात्रैः पठ्यते तद्वत् ३१ अक्तूबरदिवसविशेषे सरदारवल्लभभाई पटेलमहोदयानां दिवसाचरणेन राष्ट्रिय एकीकरणस्य बोधः छात्रैः प्राप्यते ।

साम्प्रदायिकसंवादितता सामाजिकैकता च (Communal Harmony & Social Cohesion)

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्याभ्यासक्रमे छात्रेषु भेदबुद्धिः न भवेत् परस्परं सद्भावः विकसितः भवेत् तदर्थं “समानी व आकूतिः समाना हृदयानि वः”, “वसुधैव कुटुम्बकम्,” “यत्र विश्वं भवत्येकनीडम्,” “परस्परं भावयन्तः श्रेयः परमवाप्स्यथ” एतादृशैर्वाक्यैरेव उच्चनीचभेदरहितेन ज्ञानेन छात्राणां संस्कृतभाषायां प्रवेशो भवति, पुनश्च एतान्येव वाक्यानि श्रुत्वा साम्प्रदायिकभेदात् विमुखो भवति । षड्‌शास्त्राणामध्ययनेन विविधग्रन्थाधारेण च सामाजिकैकतायाः ज्ञानं च प्राप्नोति ।

 

File DescriptionDocument
Provide link for additional information अतिरिक्तसूचनानां सन्धानम्। View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

7.1.18 The institution maintains complete transparency in its financial, academic, administrative and auxiliary functionsसंस्था स्वकीयेषु आर्थिक-शैक्षिक-प्राशासनिकेषु इतरेषु च कार्यक्रमेषु सम्पूर्णरूपेण पारदर्शिताम् अवलम्बते।

Answer:

Answer:-

आर्थिकपद्धतिः-

आर्थिकव्यवस्थायां पारदर्शिकतायाः निश्चितिः एवम्प्रकारेण क्रियते -

आर्थिकलेखापरीक्षणं बाह्यसंस्थाभ्यः नियमेन कार्यते ।

विकाससमितिः, क्रयसमितिः, तत्त्तत्- क्षेत्रविशेषज्ञैः च इत्येतेषां विविधसमितीनां माध्यमेन क्रयणं क्रियते ।

शैक्षणिकपद्धतिः-

  • शैक्षणिककार्यस्य पाठ्येतरकार्यक्रमाणां च दिनदर्शिकानिर्माणमपि क्रियते।
  • सत्रारम्भे शिक्षकाः मिलित्वा शैक्षणिकाध्यापनयोजनायाः निर्माणं कुर्वन्ति।
  • सर्वेषु शैक्षणिकोपक्रमेषु नामाङ्कनाद् आरभ्य समाप्तिं यावत् तेषां सर्वविधविकासदृष्ट्या छात्राः केन्द्रबिन्दवः भवन्ति ।
  • संस्थागतगुणवत्ता आश्वासनसमित्या (IQAC) शैक्षणिकलेखापरीक्षणकार्य नियमिततया कार्यते।
  • परीक्षापरिणामानां परिशीलनं क्रियते।

प्रशासनिकपद्धतिः -

  • विश्वविद्यालयप्रशासनव्यवस्था अत्यन्तपारदर्शिनी अस्ति।
  • प्रत्येकमपि जनः स्वस्य प्रशासनिकदायित्वस्य वहनं  साधुतया निर्वहति ।
  • कार्यालयजनेन सह व्यवहारविषये छात्राः जागरुकाः सन्ति।
  • सर्वेषां शिक्षकशिक्षकेतरकर्मचारिणां उपस्थितेः अङ्कनाय विश्वविद्यालयः बायोमेट्रिकव्यवस्थायाः उपयोगं करोति। सार्वजनिकावकाशानाम् आवली वर्षारम्भे एव सूचिता भवति।
  • प्रत्येक प्रक्रियायाः निर्वहणार्थं विश्वविद्यालयस्य मानकसञ्चालनप्रक्रिया निर्मिता अस्ति।

संस्थायाः सहाय्यककर्याणि -

  • कार्यशालाः, प्रशिक्षणवर्गः, शिक्षकाधिष्ठापनकार्यक्रमः, चर्चासत्राणि, विशेषज्ञसंवादाश्च इत्यादीनां सहाय्यककार्यक्रमाणाम् आयोजनं कठोरतया भवति । एषाम् आयोजनार्थम् अधोलिखितक्रमेण क्रियान्वयनं भवति।
  • विशिष्टविभागद्वारा प्रस्तावनिर्माणम्
  • कार्यपरिषदः माध्यमेन प्रशासनमाध्यमेन च आर्थिकमान्यता.।
  • कार्यक्रमस्य सञ्चालनम्।
  •  धनव्ययस्य आर्थिकविवरणसमर्पणम्।
  • कार्यक्रमस्य विवरणसमर्पणम्।
  • प्रमाणानां सत्यापनं अङ्कनं च कृत्वा जालस्थाने प्रकाशनम्
  • विश्वविद्यालयस्य काचित् समुपदेशकसमितिः अस्ति। या च वार्षिकोत्सवस्य, युवमहोत्सवस्य, प्रकल्पानां, कार्यशालानां, अतिथिभाषणानां, राष्ट्रियसेवायोजनायाः कार्यक्रमाणां च पूर्वयोजनां निरीक्षणं च करोति।

 

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः View Document
Provide link for additional information अतिरिक्तसूचनानां सन्धानम्। View Document

 

7.2.1 State at least two institutional best practices (as per NAAC format)रा.मू.प्र.परिषदः प्रपत्रानुसारेण संस्थायाः सर्वोत्तमं परिपाटिद्वयम् उल्लिख्यताम्।

Answer:

१. सर्वोत्तमपरिपाट्याः शीर्षकम् – भारतीयज्ञानपरम्परायाः पुनर्जागरणम्

२. परिपाटेः उद्दिष्टानि- अस्याः परिपाटेः उद्देश्यमस्ति यत्

  1. जनाः संस्कृतं प्रति समर्पिताः भविष्यन्ति।
  2. संस्कृतभाषायां शास्त्रेषु विहितवैज्ञानिकादिज्ञानं प्राप्स्यन्ति।
  3. भारतीयभाषावित्सु समरसतावृद्धिः भविष्यति।
  4. विश्वविद्यालयस्य अधिकाधिकव्यवहारे च संस्कृतमयता स्यात्।
  5. विश्वविद्यालयस्य प्राशासनिकक्रियाकलापेष्वपि संस्कृतमयता स्यात्।

३. सन्दर्भ:-

‘संस्कृतं नाम दैवी वाक्’ – अनेन ध्येयवाक्येन उद्देश्यसम्पूर्त्यर्थं विश्वविद्यालयेन संस्कृतभाषाप्रचाराय प्रसाराय च ज्ञानपरम्परायाः पुनर्जागरणमिति परिपाटिः कल्पिता वर्तते। सर्वप्राच्यविद्यारूपप्रतिष्ठिता भाषा इयं लोकोपकारिणी अस्ति। अस्यां भाषायां पारम्परिकविषयाः यथा वेदव्याकरणसाहित्यदर्शनपुराणादीनां सवैशिष्ट्यवर्णनं विद्यते। तथा साम्प्रतिकवैशिष्ट्यपरकविद्याऽपि समाहिता यथा खगोल-चिकित्सा-गणित-योगादयः।

  1. परिपाटिः-

आश्रमपद्धतिशिक्षायै उज्जयिनी प्राचीनकालादेव विश्वप्रतिष्ठिता अस्ति। अस्याम् उज्जयिन्यामेव संस्कृतभाषामूलकाचार्यस्य महर्षिपाणिनेः नामाधारितः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः संस्थापितः। यस्य मुख्योद्देश्यं संस्कृतसमर्पणम्। उद्देश्यस्यास्य पूर्णतायै विश्वविद्यालयेन स्वीकृताः आयामाः -

  1. प्रबुद्धजनसम्बादः – उज्जयिन्यां बहवः संस्कृतविद्वांसः सन्ति। अतः विश्वविद्यालस्य संस्कृतस्य च विकासाय स्थानीयप्रबुद्धजनैः सह विश्वविद्यालयस्य माननीयकुलपतिः तान् उपेत्य चर्चां कृत्वा संस्कृतविकाशविषयकं विचारं गृह्णाति। तदनुसारं विश्वविद्यालये संस्कृतस्य अध्ययनाध्यापनयोः व्यवस्थायां परिष्कारः कृतः।
  2. विश्वविद्यालयेन सञ्चाल्यमानाः कार्यक्रमाः – विश्वविद्यालयेन स्थापितेन संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसम्बर्धनकेन्द्रेण संस्कृतभाषाधारिता नैके कार्यक्रमाः सञ्चाल्यन्ते। यथा - सान्ध्यविद्यालयः, संस्कृतशिविराणि, ग्रीष्मकालीनछात्रप्रशिक्षणं, पुराणपठनम् इत्यादि।
  3. गुरुकुलसम्प्रदायेन शिक्षणपरिचयः – विश्वविद्यालये गुरुकुलसम्प्रदायेन अध्यापनं क्रियते। अत्रत्याः छात्राः उज्जयिनीस्थे गुरुशिष्यपरम्परावति गुरुकुले न्यायदर्शनस्य विशिष्टम् अध्यापनं कर्तुं न्यायशास्त्रपण्डितं डॉ. सन्दीपशर्माणमुपागत्य शास्त्राणि पठन्ति।
  4. शास्त्रार्थसभा – विश्वविद्यालये छात्राणां शास्त्रार्थकौशलवर्धनाय शास्त्रार्थसभायाः आयोजनं भवति।
  5. सांस्कृतिकभ्रमणम् – प्रतिवत्सरं विश्वपर्यटनदिवसे छात्राः शिक्षकाश्च संस्कृतवाङ्मये उल्लिखितानि पुरातात्त्विक-ऐतिहासिक-सांस्कृतिकस्थानानि द्रष्टुं यान्ति। तथा भारतीयेतिहासिकगौरवेण सह परिचिताः भवन्ति।
  6. संस्कृतप्रतिस्पर्धा – छात्रेषु संस्कृतं प्रति अभिरूचिवर्धनाय सरलमानकसंस्कृतमाश्रित्य विभिन्नाः संस्कृतभाषणादिस्पर्धाः आयोज्यन्ते। तेन छात्राणां संस्कृतसम्भाषणं प्रति आकर्षणम् उत्साहवर्धनञ्च भवति।
  7. वाग्वर्धिनीपरिषत् – छात्राणां वाक्कौशलविकासाय प्रतिमासं वाग्वर्धिनीसभायाः आयोजनं भवति। तत्र छात्राः विविधान् शास्त्रीयविषयान् उपस्थापयन्ति।
  8. दत्तकग्रामेषु संस्कृतशिविरम् – विश्वविद्यालयद्वारा प्रेमनगरं मानपुरम् इति ग्रामयोः निवासिनां संस्कृतं प्रति अभिरुचिसमुत्पादयनाय संस्कृतसम्भाषणं कर्तुं दक्षतासम्बर्धनाय संस्कृतस्य महत्त्वं ज्ञातुं च संस्कृतशिविरस्य आयोजनं क्रियते।
  9. शोधपत्रिकाप्रकाशनम् – विश्वविद्यालयः पाणिनीया इति नाम्नीं त्रैमासिकीं शोधपत्रिकां प्रकाशयति। यत्र शिक्षकाणां विद्यार्थिनाञ्च शोधनिबन्धाः प्रकाश्यन्ते। अनेन संस्कृते शोधनिबन्धलेखनस्य प्रवृत्तौ वृद्धिर्जायते।
  10. छात्रवृत्तिः – विश्वविद्यालये अध्ययनरतेभ्यः छात्रेभ्यः विविधैः संस्थानैः प्रदीयमाना छात्रवृत्तेः लाभः प्रदीयते। तत्र मध्यप्रदेशशासनस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य विश्वविद्यालयानुदानायोगस्य अन्येषां च शैक्षणिकसंस्थानां छात्रवृत्तयः छात्रैः लभ्यन्ते।
  1. साफल्यस्य प्रामाण्यम् –
    1. उपर्युक्तक्रियमाणैः क्रियाकलापैः विश्वविद्यालये कार्यरतानां सर्वेषां जनानां मुखे संस्कृतसम्भाषणं विलसति।
    2. शास्त्राणामध्ययनाध्यापनभाषा संस्कृतं वर्तते। तत्रापि सरलमानकसंस्कृतप्रयोगेण अध्यापकाः दृश्यश्रव्योपकरणैः स्वशास्त्रगततत्वान् रुचिपूर्वकमध्यापयन्ति।
    3. कक्षासु संस्कृतमयता निर्मिता वर्तते।
    4. शैक्षिकभवने, छात्रावासे, परिसरे च छात्राः अध्यापकाः परस्परं संस्कृतेन व्यवहरन्ति।
    5. शैक्षिकभवने द्वित्राः कार्यरताः लिपिकाः सेवकाश्चापि शनैः शनैः संस्कृतवातावरणप्रभावेण संस्कृतेन व्यवहारं कर्तुं प्रेरिताः। तेऽपि लघु-लघु संस्कृतवाक्यानां व्यवहारे प्रयोगं कुर्वन्ति।
    6. विश्वविद्यालयस्य वाहनचालकः श्रीमान् हर्ष-परौहामहोदयः आजीवनं संस्कृतेन वार्तालापाय व्रतं स्वीकृतवान्। स्वगृहस्य सत्यापनमपि तेन देवनागर्यां विहितम्।
    7. विश्वविद्यालयस्य सर्वेषां प्रश्नपत्राणाम् उत्तरपुस्तिकानां माध्यमभाषा संस्कृतमेव वर्तते।
    8. सर्वेषामपि कार्यक्रमाणां सञ्चालनं मुख्यातिथेः सारस्वतातिथेः विशिष्टातिथेः उद्बोधनानि प्रवचनानि भाषणानि व्याख्यानानि च संस्कृतेनैव भवन्ति।
    9. सर्वेऽपि शैक्षिककार्यक्रमाः सम्पूर्णतया संस्कृतेन प्रचाल्यन्ते।
    10. छात्राः विविधासु राष्ट्रियासु प्रादेशिकासु च संस्कृतशास्त्रस्पर्धासु भागं गृह्णन्ति पारितोषिकाश्च प्राप्नुवन्ति।
  2. सम्मुखीकृताः समस्याः आवश्यकानि संसाधनानि च –
    1.  आदौ संस्कृतेतरकार्यरतानां कर्मचारिणाम् अधिकारिणां च संस्कृतं वक्तुं काठिन्यमासीत् किन्तु मान्यस्य कुलपतेः प्रेरणया वातावरणप्रभावेण, संस्कृतसम्भाषणवर्गायोजनेन, शिबिरायोजनेन, कार्यक्रमाणां संस्कृतेन सञ्चालनेन, विदुषाम् आगमनेन भाषणेन, सूचनाफलकैः, परस्परं सद्भावयुक्तेन सम्भाषणेन, कार्यक्रमारम्भे गीयमानेन संस्कृतकुलगीतेन, कार्यक्रमान्ते पूर्णतामन्त्रेण च शनैः शनैः तेऽपि संस्कृतेन व्यवहारं भाषणञ्च कुर्वन्ति।
    2.  धैर्येण छात्रैः अध्यापकैः सह व्यवहारेण विश्वविद्यालये कार्यरताः लिपिकाः सेवकाः कर्मचारिणोऽपि संस्कृतेन व्यवहर्तुं प्रवृत्ताः सन्ति।
    3. नगरेषु जनपदेषु कृतकार्यक्रमैः संस्कृतवायुसञ्चारस्तु जातः नैके नागरिकाः संस्कृतसम्भाषणशिबिरप्रविष्टाः सन्तः संस्कृतेन व्यवहारं कर्तुं यतमानाः सन्ति।
    4. संस्कृतवातावरणेन अनेन संस्कृतमाध्यमेन अध्ययनाध्यापनेन बुद्धिमन्तः नैके छात्राः काव्यरचनाकौशलमपि लब्धबन्तः।
    5. इतोऽपि छात्रेषु कार्याकर्तृषु संस्कृतवातावरणनिर्माणाय अधिकाधिककार्ययोजनाः सम्पादनीयाः। वर्गे दृश्यश्राव्यसामग्रीणां (P.P.T) व्यवहारः वर्धनीयः। येन छात्राणां शिक्षणे कुतूहलं वर्धेत। बोधे च सौकार्यं स्यात्। तेन संस्कृतकथने उत्साहः वर्धेत। येन आचारे विचारे संस्कृतमेव अनुस्यूततया वर्तेत। तेन भावियुवानः संस्कृतयुक्ताः भवेयुः।
  3. टीप्पणी –

1 विश्वविद्यालयपरिसरे आचार्याः परस्परं संस्कृतेनैव सम्भाषन्ते।

2. छात्राणां वाग्व्यवहारे संस्कृतं स्यात् तदर्थं तैः सह सरलसंस्कृतेन आचार्याः व्यवहरन्ति।

3. पुस्तकालये सरलमानकसंस्कृतेन लिखिताः नैके लघुकथाग्रन्थाः छात्राणां संस्कृतभाषणकौशलवर्धनाय सन्ति।

4.एवं युवकेषु संस्कृतप्रेम वर्धेत चेत् एकस्मिन् काले सम्पूर्णायां उज्जियिन्याम् संस्कृतमयता स्यात् इति भविष्यत्परिकल्पनम्।

  1. सर्वोत्तमपरिपाटेः शीर्षकम्स्वच्छवातावरणे स्वस्थजीवनम्
  2. परिपाटेः उद्देश्यानि – अस्याः परिपाटेः उद्देश्यमस्ति यत्
  1. योगस्य शास्त्रीय गाभीर्यार्थबोधः भविष्यति।
  2. विकृतजीवचर्यायाः /दिनचर्यायाः निवारणं भविष्यति।
  3. छात्राः नागरिकाः स्वस्थाः भविष्यन्ति।
  4. हरितक्षेत्रसम्बर्धनेनैव शुद्धवातावरणस्य कल्पना भवति।
  1. सन्दर्भः

“योगसमाधिः” अनेन वेदव्यासवचनेन इयं धारणा बलवती भवति यत् “योगश्चित्तवृत्तिनिरोधः”। यतो हि चित्तवृत्तिनिरोधेन तपश्चर्यासामर्थ्यमायाति। तत्तु स्वस्थ वातावरणे एव सम्भवति। अतः महर्षिपाणिनिसंस्कृतविश्वविद्यालयः उपरोक्तचिन्तनेनैव स्वपरिसरे स्वच्छवातावरणसंस्थापितायै सन्नद्धोऽस्ति। अस्मिन् क्रमे विश्वविद्यालयः अधिकाधिकवृक्षरोपणकार्यक्रमे प्रोत्साहवर्धनं करोति। विश्वविद्यालयेन अनेन एकस्मिन् दिवसे एव सर्वाधिकवृक्षारोपणस्य वैश्विकोपलब्धिः प्राप्ता। येन परिणामेन विश्वविद्यालयीयपरिसरे सञ्चालितः निःशुल्कयोगप्रशिक्षणकार्यक्रमः सफलोऽस्ति। अत्र प्रशिक्षणाभ्यासकाले स्वस्थवातावरणेन अनन्यफलसिद्धिः अनुभूयते।

  1. परिपाटिः

वर्तमानसमाजे वैदेशिकरीतिमनुसृत्य स्वदेशीयाः युवानः स्वस्थजीवनचर्यायाम् अविश्वसन्तः अविन्यस्ताभ्यासे रताः आत्मघ्नातिनः एव भवन्ति। तान् तादृशजीवनात् प्रत्यावर्त्य भारतीययोगजीवने प्रावेशयितुम् विश्वविद्यालेन केचन पदक्षेपाः स्वीकृताः। सर्वादौ मनसः शान्तिः आवश्यिकी। तदर्थं योग्यं वातावरणं यथा स्यात् तदर्थमपि विश्वविद्यालयः प्रयासः कृतः। तेषु मुख्यतमाः -

  1. निःशुल्कयोगप्रशिक्षणम् – योगविभागेन सर्वेषां कृते निःशुल्कयोगप्रशिक्षणमारब्धम्। तत्र प्रत्यहं प्रातः सप्तवादनतः सर्वे योगासनेच्छवः आगन्तुं शक्नुवन्ति।
  2. निःशुल्कयोगचिकित्सा - योगविभागेन सर्वेषां कृते निःशुल्कयोगचिकित्सायाः व्यवस्था आरब्धा। यत्र अस्थिसंयोगादिषु उत्पन्ना पीडा योगद्वारेणैव निवार्यते।
  3. योगशिविरम् – विशिष्टदिवसेषु योगविभागपक्षतः योगशिविराणाम् आयोजनं क्रियते। तत्र अस्मद्विश्वविद्यालयस्य शिक्षकाः छात्राश्च योगप्रदर्शनमाध्यमेन योगासनानां फलं सर्वेषु प्रसारयन्ति।
  4. वृक्षारोपणकार्यक्रमः – हरितवातावरणनिर्माणाय विश्वविद्यालयेन विशिष्टेषु दिवसेसु वृक्षारोपणं करोति। विश्वविद्यालयस्य परिसरे सहस्राधिकाः ओषधिवृक्षाः गुल्माश्च सन्ति।
  5. प्लास्टिकमुक्तवातावरणम् – प्लास्टिकपदार्थः परिवेशस्य शत्रुरूपः। तस्य निवारणाय विश्वविद्यालयः प्लास्टिकमुक्तः परिसरः निर्मितः।
  6. मादकपदार्थमुक्तपरिसरः – अद्यतनीयाः युवानः मादकद्रव्यसेवनेन विपथगामिनः भवन्ति। विश्वविद्यालयच्छात्राः यथा तादृशाचरणात् दूरे तिष्टेयुः तदर्थं अस्माकं परिसरः मादकपदार्थविनिर्मुक्तः कृतः।
  7. ध्यानकेन्द्रम् – विक्षिप्तमनसा विद्यायाः ग्रहणमसम्भवमेव। छात्राणां मनःसयंयोगं यथा वर्धेत तदर्थं विश्वविद्यालयेन ध्यानकेन्द्रमपि संस्थापितम्।
  8. हरितदिवसः – प्रत्येकस्मिन् सप्ताहे बुधवासरं विश्वविद्यालयः हरितदिवसरूपेण परिपालयति। तस्मिन् दिवसे इन्धनयुक्तानि यानानि विश्वविद्यालयस्य मुख्यद्वारात् बहिः संस्थाप्य अटित्वा एव परिसरे सर्वैः प्रवेशः कर्तव्यः। एवं सम्पूर्णदिवसे अटनेन शरीरचर्चा यथा भवति, तथैव इन्धनयुक्तयानानां व्यवहारः न्यूनः भवति। एवं वैश्विकौष्णायनह्रासाय विश्वविद्यालयस्य क्षुद्रः प्रयासोऽयम्।
  9. यज्ञशाला – परिसरे यज्ञशालायाः सम्भवात् तत्र च विशिष्टदिनेषु यज्ञसम्पादनात् यज्ञधूमेन आवृते परिसरे सर्वेषां मनः शान्तमेव जायते। तत्र च वेदोद्घोषकाले सर्वे विश्वविद्यालयीयाः भागं गृह्णन्ति। तेन वैदिकमन्त्राणां कण्ठस्थीकरणमपि जायते।
  1. साफल्यस्य प्रामाण्यम् –
    1. प्रत्यहं प्रातः छात्राः योगासनं कर्तुमागच्छन्ति। स्वास्थ्यवन्तश्च भवन्ति।
    2. शिविरेषु जनानां सम्मर्द्दः शनैः शनैः वर्द्धते। एतेन योगं प्रति जनाः आकृष्टाः भवन्ति इति ज्ञायते।
    3. विविधासनादिभिः विक्षिप्तं मनः एकीभूतं भवति इति छात्राणां फलप्रकाशनेन सम्यक् दृश्यते।
    4. विविधावसरे परिसरे बहुविधवृक्षारोपणेन हरितपरिसरः सञ्जातः।
    5. 1200 संख्यकानां वृक्षाणाम् आरोपणे विश्वविद्यालयः वैश्विकप्रसस्तिं प्राप्तवान्।
    6. ओषधीयवृक्षारोपणेन वृक्षेभ्यः एव ओषधीद्रव्यप्राप्तौ प्राथमिकोपचारे तेषां प्रयोगः भवति।
    7. प्रत्येकस्मिन् बुधवासरे समग्रदिवसं यावत् अटनेन शरीरं बलयुक्तम् ओजोयुक्तं च भवति।
  2. सम्मुखीकृताः समस्याः आवश्यकानि संसाधनानि च –
    1. छात्राः उत्साहवन्तः सन्तः प्रत्यहं प्रातः योगासनं कर्तुमागच्छन्ति। छात्राणां संख्या अनुदिनं वर्धते इति दृश्यते।
    2. अस्माकं परिसरः हरितमयः इत्यत्र नास्ति संशयः। इतोऽपि विविधावसरे वृक्षारोपणं कर्तव्यं येन प्रायः सर्वविधाः वृक्षाः अस्माकं परिसरे भवेयुः।
    3. योगस्य सुफलं जनेषु प्रचारणीयम्। येन सर्वे जनाः योगासने रताः सन्तः आत्मोन्नतिं साधयन्ति।
  3. टीप्पणी

जनसंख्यावृद्धिकारणेन नागरिकाणां पार्श्वे भूभागावनतिः अनुभूयते इदानीम्। येन सर्वकारभूम्याः अनुपातमपि ह्रासोन्मुखी दृश्यते। येन विस्तृतसर्वकारीयभूमौ विभिन्नपरियोजनायाः कृते भूम्याः आवण्टनं भवन्नस्ति। एतादृशसमस्यायाः समाधानाय स्वच्छवातावरणनिर्माणाय च वनाच्छादितभूम्यानुपातवर्धनं भवेत्। एवमेव स्वस्थजीवनयापनाय शुद्धाहारविहारव्यवस्था शास्त्रेषु वर्णिता अस्ति। शुद्धाहारेणैव स्वस्थशरीरस्वस्थमनोवृत्तिश्च सम्भवति। इदानीं वैश्विकनीतिमनुसृत्य दीर्घोद्योगप्रणाली विकसिता सम्बर्धिता चास्ति। कृषिक्षेत्रे अन्नोत्पादनेऽपि अस्य विधेः प्रचुरप्रभावः अवलोक्यते। तेन नानाप्रकारेण नूतनव्याधिवृद्धिः अपि जायते। अतः कृषिक्षेत्रे पशुपालने च विशेषरूपेण औद्योगिकापेक्षया व्यक्तिकेन्द्रितकृषिनीतियनुसरणमपेक्षते। अनया नीत्या शुद्धाहारपरिकल्पना भवितुं शक्यते। तेन स्वस्थशरीरेण शास्त्रोक्तरीत्या योगसम्बर्धनमपि भविष्यति। तदा योगेन अस्य विश्वविद्यालयस्य स्वस्थनागरिकाणां परिकल्पना फलवती स्यात्।

 

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः View Document
Provide link for additional information अतिरिक्तसूचनानां सन्धानम्। View Document

 

7.3.1 Describe/Explain the performance of the institution in one area distinctive to its vision, priority and thrustसंस्थया स्वस्य दूरदृष्टिं, प्राथम्यं, प्रधानविषयञ्च मनसि निधाय एकस्मिन् विशिष्टक्षेत्रे स्वेन कृतस्य कार्यनिष्पादनस्य विवरणं दीयताम् ।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वैशिष्ट्यम्- समग्रभारते विद्यमानेभ्यः संस्कृतविश्वविद्यालयेभ्यः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः वैलक्षण्यं भजते। श्रीमहाकालस्य नगरीयं, जगद्गुरुश्रीकृष्णस्य विद्यास्थली, वीरविक्रमादित्यस्य राजधानीयं, यत्र कविकुलगुरुणा कालिदासेन गढकालिकादेव्याः समाराधना विहिता। अस्माद्धेतोः अस्मिन् विश्वविद्यालये इतरस्मात् विलक्षणता विद्यते। विश्वविद्यालयेन कार्यक्षेत्राणि-प्रमुखान्युद्दिष्टानि-अनुसंधानप्राथम्यं विश्वविद्यालयस्य अन्तर्दृष्टौ ध्येयेषु च सर्वादौ निर्दिष्टम्।

1.सर्वेषां कृते संस्कृतम् -

संपूर्णमध्यप्रदेशे विश्वविद्यालयस्यास्य अधिकारव्याप्तिः अस्ति। विश्वविद्यालयः सर्वत्र आधुनिकशिक्षणप्रवाहकारणेन  आधुनिकजिज्ञासूनां  विषयानाम् अवबोधनाय ज्योतिर्विज्ञानविभागेन ज्योतिषशास्त्रगततत्त्वानां सरलरीत्या अध्यापनं प्रसारश्च कार्यते। एतेषु सर्वेषु अभ्यासक्रमेषु प्राचीनभारतीयशास्त्राणाम् च संस्कृतस्यापि अन्तर्भावो भवति। एतद्विहाय विश्वविद्यालयद्वारा स्नातकस्नातकोत्तरपाठ्यक्रमाः निसर्गोपचारः पंचकर्म अभ्यासक्रमाः इत्यादयः प्रचाल्यन्ते।

2.भविष्यार्थे संस्कृतम्-

विश्वविद्यालयः आधुनिकविषयाणाम् अध्ययनार्थं संस्कृते अध्ययनसामग्रीनिर्माणार्थम् प्रयत्नरतः वर्तते। अनेन सह विश्वविद्यालयः योगचिकित्सा-वास्तुशास्त्रादेः अध्ययनस्य, नवनवीनक्षेत्रेषु संस्कृताध्ययनस्य च आवश्यकतां आविष्करोति। अनेन राष्ट्रेऽस्मिन् भविष्यत्काले संस्कृतस्य विकासस्य पन्थाः प्रसृतः भवेत्।

अस्यां दिशि विश्वविद्यालयेन स्नातकोत्तरशिक्षणं-- एम.ए.वास्तुशास्त्रम्, एम्.ए. ज्योतिर्विज्ञानम् तथा एम्.एस्.सी.योगशास्त्रं विश्वविद्यालये आरब्धम्। एभिः अभ्यासक्रमैः संस्कृतक्षेत्रे नूतनाः आधुनिकाश्चाध्ययनविषयाः प्राप्यन्ते।

विश्वविद्यालयः सर्वदा शास्त्रगतगूढतत्त्वाध्यापने विश्वसिति अत एव महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये -वेद-व्याकरण-ज्योतिष-दर्शन-संस्कृतसाहित्य-शिक्षाशास्त्रमित्यादीनाम् अभ्यासक्रमाणाम् अध्ययनं प्रचलति। पारम्परिक- स्नातक-स्नातकोत्तर अभ्यासक्रमाः विश्वविद्यालये अध्याप्यन्ते। बहुविद्याशाखीयाः अन्तर्विद्याशाखीयाश्च अभ्यासक्रमाः विश्वविद्यालयस्य विभागेषु प्रचलन्ति। सम्प्रति विश्वविद्यालयः शास्त्राणां अध्ययनाध्यापने छात्राणाम् आकर्षणे यशस्वी जातः।

विश्वविद्यालयस्य शोधविभागेभ्यः विद्यावारिधिः इति उपक्रमाः अपि सञ्चाल्यते। छात्रान् अध्ययने प्रेरयितुं विश्वविद्यालयः विद्यावारिधिछात्रेभ्यः छात्रवृत्तिम् प्रददाति। अत्र अध्ययनं कुर्वाणान् छात्रान् शास्त्राध्ययने प्रेरयितुं प्रतिमासं  छात्रवृत्तेः व्यवस्थां प्रददाति।

विश्वविद्यालयेन विविधेषु क्षेत्रेषु आत्मनिर्भरतां संपादयितुं नैके उपक्रमाः आरब्धाः।

3.सामाजिकैः सह सम्बन्धः-

विश्वविद्यालयः एकाकी कार्यं कर्तुम् न प्रभवति अतः सामाजिकसंबंधस्थापनार्थं विश्वविद्यालयः संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसंवर्धनकेन्द्रेण अनौपचारिकशिक्षणद्वारा असर्वकारिसंघटनया सह संलग्नीभवति। विश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसम्बर्धनकेन्द्रद्वारा नैकाः कार्यशालाः नैके अल्पकालीनाः उपक्रमाः परामर्शकेन्द्राणि च चाल्यन्ते।

विश्वविद्यालयस्य स्थानीयजनानाम् आवश्यकतां विज्ञाय  संचालकमंडलसहमतिना विश्वविद्यालयस्य समीपवर्तिनां रोगग्रस्तानां नागरिकाणां रोगशमनाय यद्वा स्वस्थनागरिकाणां स्वस्थतासंरक्षितार्थं प्रातःकाले योगाभ्यासः सञ्चालितः। उज्जयिन्नयां बहवः संस्कृतविद्वांसः सन्ति। अतः विश्वविद्यालयस्य संस्कृतस्य च विकासाय स्थानीयप्रबुद्धजनैः सह विश्वविद्यालयस्य माननीयकुलपतिः तान् उपेत्य चर्चां कृतवान्। तेषां विचारान् च ज्ञातवान्। तदनुसारं विश्वविद्यालये संस्कृतस्य अध्ययनाध्यापनयोः व्यवस्थायां परिष्कारः कृतः। अत्र पाणिनिप्राध्यापकपीठं स्थापितं विद्यते। तत्र नैके सामाजिकाः योगदानं कुर्वन्तः सन्ति। एवमेव विश्वविद्यालये वेंकटाचलम् पीठम् स्थापितं विद्यते। यस्य स्थापनस्य संचालनस्य च व्ययराशिः सामाजिकेन प्रदत्तः। अनेन प्रतिवर्षं संस्कृतस्य प्रचाराय प्रसाराय शास्त्रसंरक्षणाय च नैके कार्यक्रमाः आयोज्यन्ते।

4. स्वयञ्चालिता पारदर्शिका गतिशीला च प्रशासनव्यवस्था-

गतत्रिवर्षेभ्यः विश्वविद्यालयस्य शासनव्यवस्थायां पञ्चस्तरात्मिका वृद्धिर्जाता। छात्रसंख्या द्विगुणिता। अध्यापकानां विभागानाञ्च संख्या वृद्धिङ्गता। प्रशासनव्यवस्थया प्रशासनव्यवस्थां संवर्धयितुं सूचनासम्प्रेषणप्रौद्योगिकी-तंत्रज्ञानस्य उपयोजनम् आरब्धम्।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Link for additional information अतिरिक्तसूचनानां सन्धानम्। View Document