महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:

महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय

Maharshi Panini Sanskrit Evam Vedic Vishwavidyalaya

Formerly Maharshi Panini Sanskrit Vishwavidyalaya, A Public State University under Madhya Pradesh Act No. XV of 2008
Dewas Road, Ujjain, Madhya Pradesh (India) – 456010

कर्मचारी कॉर्नर

About NAAC

National Assessment and Accreditation Council or NAAC certification can be defined as a measure to evaluate and then guarantee a standard of education provided in higher institutions across the nation. The University Grant Commission (UGC) has issued a decree stipulating that every university and faculty must get certification by the council called National Assessment and Accreditation Council (NAAC).

In the pursuit of NAAC accreditation, institutions get an excellent opportunity to

  1. Multiply its productivity & efficiency
  2. Figure out the shortcomings & academic strengths
  3. Enhance teaching-learning processes
  4. Continuously improve the plan of action

Thus, the NAAC accreditation stands for a reliable methodology to maximize student & institutional success.

Picture1

NAAC Co-ordinator
Dr. Subham Sharma

Department Name Link
Department of Veda view
Department of Vyakarana view
Department of Sanskrit Sahitya view
Department of Jyotish view
Department of Vastu view
Department of Jyotirvigyan view
Department of Vishishta Sanskrit view
 Department of Darshana view
Department of Yoga view
Department of Education view
Department of SSPYVSK view

1.1.1 Curricula developed/ rare shastric texts adopted have relevance to the local/ national/ regional/ global developmental needs with learning objectives including programme outcomes, programme specific outcomes and course outcomes of all the programmes offered by the University.विकसिता पाठ्यचर्या/ स्वीकृता दुर्लभाः शास्त्रग्रन्थाः, स्थानीय-राष्ट्रिय-प्रादेशिक-वैश्विक-विकासस्य आवश्यकतया अधिगमोद्देश्यैः पाठ्यक्रमस्य परिणामैः सह निर्दिष्टपाठ्यक्रमस्य परिणामैः, विश्वविद्यालयेन प्रवर्तितानां सर्वेषां पाठ्यक्रमाणां च परिणामैः सङ्गतिं भजन्ते।

Answer:

पाठ्यक्रमस्य निर्माणम्, समुन्नतिः  (विकासश्च) -

        मध्यप्रदेशसर्वकारेण संस्थापितस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य मुख्यम् उद्देश्यं वर्तते संस्कृतवाङ्मये निहितस्य भारतीयज्ञानराशेः समाजं प्रति समानयनम्। अतः विश्वविद्यालयद्वारा स्थानीय-राष्ट्रिय-प्रादेशिक-वैश्विक-विकासस्य आवश्यकतानुगुणं काले काले पाठ्यक्रमस्य विकासो विहितः विधीयमानश्च वर्तते। सर्वैः जिज्ञासुभिः सुलभग्राह्यतया अध्येतुम् आनुकूल्यं विदधानोऽयं विश्वविद्यालयः मध्यप्रदेशस्य विविधानां महाविद्यालयानां स्वानुमोदनं चकार। एवं महाविद्यालयैः सह अस्मिन् विश्वविद्यालये वेदः, वेदाङ्गानि, योगविज्ञानम्, साहित्यम्, भारतीयभाषाः, समकालिकज्ञानप्रणाली एवं मानविकशास्त्रम्, शास्त्रीयज्ञानप्रणाली, भारतीयदर्शनानि, इति नानाशाखाभिः साम्प्रतिकीं सामाजिकसङ्गतिं भजमानाः पाठ्यक्रमाः प्रवर्तन्ते। सञ्चालितानां/ सञ्चाल्यमानानां शास्त्रि-आचार्य-डिप्लोमा-प्रमाणपत्रपाठ्यक्रमाणां परिणामाः उद्देश्यस्य यशस्वितायै सफलाः सन्ति। तत्र साफल्याय ‘पाठ्यक्रमेषु स्तरानुगुणं निर्दिष्टोद्देश्यानुगुणञ्च अङ्गीकृताः दुर्लभाः शास्त्रग्रन्थाः’ मुख्यं कारणं भवन्ति।

अध्यनयस्य उद्देश्यैः सह स्थानिक राष्ट्रिय-क्षेत्रीय-वैश्विकस्तरे विकासस्य सहकारिभूतानाम् आवश्यकतानाम् आपूर्त्यर्थं विश्वविद्यालयः पाठ्यक्रमाणां तथा अभ्यासविषयाणां च नियतरूपेण परिष्करणं नवीकरणं च करोति ।

पाठ्यचर्याविकासकार्यविधानानि-

  1. विभागीयमेलनम्
  2. अध्ययनमण्डलम्
  3. सङ्कायमण्डलम्
  4. विद्यारिषद्

पाठ्यचर्याभिवृद्धेः मानदण्डः

  1. समाजस्य वर्तमानकालीना अपेक्षा
  2. पाठ्यक्रमस्य प्रासङ्गिकता
  3. विषयस्य व्याप्तिः

उद्योगाभिवर्धकनिकषः

  1. भाषाधारितकार्यक्रमाः
  2. कौशलाधारितकार्यक्रमाः
  3. आवश्यकता-आपूरणयोग्य-कार्यक्रमाः
  4. शिक्षकप्रशिक्षणकार्यक्रमाः (शास्त्रिशिक्षाशास्त्री)

         उद्यमितायाः सामर्थ्यस्य अभिवृद्धयर्थं विश्वविद्यालयः स्थानिक-राष्ट्रिय-प्रादेशिकापेक्षायाः आपूर्त्यर्थं च बहुविधान् कार्यक्रमान् संरच्य अनुतिष्ठति । विश्वविद्यालयः स्वस्य परिसरे तथैव संबद्धमहाविद्यालयैः सह च समेत्य उद्यमिताभिवर्धनशक्तियुतान् पारम्परिकान् तथैव आधुनिकान् च कार्यक्रमान् आयोजयति । तद्यथा- पारम्परिककार्यक्रमेष्वन्तर्भूताः आचार्यव्याकरणम्, आचार्यसाहित्यम्, आचार्यवेदान्तदर्शनम्, आचार्यन्यायदर्शनम्, इत्येवमादयः अभ्यासक्रमाः छात्राणां भाषाकौशलस्य तथैव विषयदक्षतायाः च सम्पादकाः वर्तन्ते । एवं सम्पद्यमानं भाषाप्रावीण्यम् आधुनिके जगति समयेस्मिन् उद्यमितायाः प्रापकेषु राजमार्गेषु यथा माध्यम-अनुवादादिक्षेत्रेषु छात्राणां प्रवेशे सुललितमार्ग इति परिगण्यते । सद्यःवृत्तिमूलकाः अपि पाठ्यक्रमाः सन्ति यथा- एम्. ए. योगः, एम्. एस् सि. योगविज्ञानम्, योगशास्त्रे स्रातकोत्तरपदविका, वास्तुशास्त्रे स्नातकोत्तरपदविका इति येन एतादृशाः छात्राः अध्ययनस्य समाप्तावेव उद्योगप्राप्त्यर्थं योग्यतावन्तः भवन्ति । येन उद्योगप्राप्त्यर्थम् अतिशयितम् अन्वेषणं नापेक्षितं भवति ।

विकल्पाश्रितपद्धतिः/ ऐच्छिकपाठ्यपत्रप्रणाली (सी.बी.सी.एस.)

  • एषा प्रणाली छात्राणां कृते मूलैः वैकल्पिकैः अथवा कौशलाधारितपाठ्यक्रमैः युक्तैः निर्धारितपाठ्यक्रमैः पाठ्यक्रमचयनस्य अवसरं प्रददाति। पाठ्यक्रमाणां मूल्याङ्कनं ग्रेडिंग्-व्यवस्थया क्रियते। पारम्परिकसङ्ख्याव्यवस्थापेक्षयेयं प्रणाली श्रेष्ठास्ति। छात्रेभ्यः शैक्षिकप्रणालीयमवसरप्रदायिका वर्तते, यत् छात्राणां कृते स्वेच्छानुसारं पाठ्यक्रमान् विषयान् च ज्ञातुं अत्यधिकमवसरं प्रददाति ।

दुर्लभशास्त्रग्रन्थानां पाठ्यांशत्वेन समायोजनम्-

भारतीयवैदिकदार्शनिकज्ञानविज्ञानपरम्परायाः संरक्षणं विश्वविद्यालयस्य उद्देश्येष्वन्यतमं विद्यते। विश्वविद्यालयेन नानाविधैः  उपक्रमैरुपयुक्तोद्देश्यस्य  क्रियान्वयनं विद्यते।

  1. पाठ्यक्रमग्रन्थेषु दुर्लभतया समुपलब्धानां तथा नैकेषु विश्वविद्यालयेषु पाठ्यांशत्वेनाविद्यमानानां सुतरां संरक्षणयोग्यानां ग्रन्थानां पाठ्यक्रमे समायोजनं वर्तते।
  2. प्राचीनदुर्लभशास्त्रग्रन्थेभ्यः आधुनिकसमाजोपयोगिनां विषयाणां सङ्ग्रहणम्।

स्वीकृताः दुर्लभाः पाठ्यग्रन्थाः-

विश्वविद्यालयस्य पाठ्यक्रमेषु नैके दुर्लभग्रन्थाः पाठ्यांशे समायोजिताः सन्ति। तद्यथा- शुक्लयजुर्वेदे आचार्यपाठ्यक्रमे कात्यायनशुल्बसूत्रम्, साहित्ये शास्त्रितृतीयवर्षे भोजराजविरचितः शृङ्गारप्रकाशः, चम्पूरामायणञ्च निर्धारितं विद्यते। आधुनिकविदुषामपि केचन महत्त्वपूर्णाः किन्तु प्रचारन्यूनत्वात् सुदुर्लभग्रन्थाः अपि पाठ्यक्रमे रक्षिताः। यथा हि शास्त्री, बी.ए. आनर्स-संस्कृतपाठ्यक्रमे भावमाला, भृङ्गदूतम्, राघवाभ्युदयम्, इक्षुगन्धेत्यादयो ग्रन्थाः स्वीकृताः।

सर्वैरपि कार्यक्रमैः कार्यक्रमपरिणामाः, कार्यक्रमस्य विशिष्टपरिणामाः तथैव पाठ्यक्रमपरिणामैः सह शैक्षणिककार्यक्रमस्य उद्देश्यं सम्यक् परिभाषितमस्ति । सर्वस्मिन् अपि पाठ्यक्रमे पाठ्यक्रमसर्वेक्षणं (एल्. ओ.सी. एफ्.) नितान्तमादृतम् ।

  1. छात्राः यथा ज्ञानस्य वास्तविकक्षमतां सम्यगधिगन्तुं तद्दिशि स्वात्मानं प्रवर्तयितुं च क्षमतां सम्पादयेयुः तथा सक्रियाध्ययनसम्पादनम् ।
  2. संस्कृतसंभाषणकौशलाभिवृद्धिकरणेन छात्राणां सक्रियवातावरणस्य निर्मितिः ।
  3. शास्त्रीयनिगूढज्ञानस्य सम्यक् संरक्षणार्थं तथैव तादृशस्य महतः शास्त्रस्य सम्यगुपयोगार्थं च छात्रान् शास्त्रीयज्ञानगर्भपूर्णकुम्भत्वेन सम्पादनम् ।
  4. शास्त्रीयशोधकार्याय प्रोत्साहनम् ।
  5. हस्तलेखानां सम्पादनं तथा प्रकाशनम् ।
  6. संस्कृतभाषायाः तथैव भाषाशास्त्रीयाध्ययने प्रोत्साहनम् ।
  7. सकारात्मकशारीरिकमानसिक बौद्धिक स्वास्थ्यावाहनार्थं योगस्य विभिन्नाङ्गानामध्ययनम् ।
  8. संस्कृतभाषयैव मूलग्रन्थस्याध्ययनं न तु भाषान्तरीयकृतानुवादैः ।
  9. संस्कृतमाध्यमेन दार्शनिकविचारेषु वैविध्यमयविचाराणां धारायाः अवगमनम् अनुशीलनं वा ।
  10. योगसम्बद्धानां योगसहकृतानां चिकित्साविधानानाम् अध्ययनम् ।

भारतीयसौन्दर्यशास्त्रस्य विभिन्नशाखानां समधिगमः ।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

1.1.2 Percentage of programe where syllabus revision was carried out during the last five yearsविगतपञ्चवर्षेषु विहितस्य पाठ्यक्रमपुनरीक्षणस्य प्रतिशतता।

Answer: 25

1.1.2.1 How many Programmes were revised out of total number of Programmes offered year-wise during the last five yearsविगतपञ्चवर्षेषु सञ्चालिताः कति पाठ्यक्रमाः प्रतिवर्षं पुनरीक्षीताः?

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
12 7 0 7 0

 

1.1.2.2 Number of all Programmes offered by the institution year-wise during the last five yearsविगतपञ्चवर्षेषु संस्थायां कति पाठ्यक्रमाः प्रतिवर्षं सञ्चालिताः?

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
24 22 21 19 18

 

File DescriptionDocument
Minutes of relevant Academic Council/BOS meeting View Document
Details of Programme syllabus revision in last 5 years (Data Template) View Document
Any additional information View Document

1.2.1 Whether the University has designed and offered any Innovative Courses/ Courses in emerging area/ Sanskrit based courses including scientific and technical literature leading to both traditional and modern degrees (e.g. Shastri, B.Sc. etc) with combination of yoga/ Ancient and Modern Mathematics/ Economics/ Management/ Law/ Computer Science/ Theoretical Ayurveda/ Krishi-parashara/ Vrikshayurveda etc. If yes give details.विगतेभ्यः पञ्चभ्यः वर्षेभ्यः प्रवर्तितेषु सर्वेषु विविधायामवत्सु पाठ्यपत्रेषु (वैज्ञानिक-प्रौद्योगिक-साहित्यसमाश्रयेण शास्त्री/ बीएस्.सी-प्रभृति पारम्परिकाधुनिकोपाधिनाम्ना योगशास्त्रस्य प्राचीन-आधुनिकगणितयोः/ अर्थशास्त्रस्य/ प्रबन्धनशास्त्रस्य/ विधिशास्त्रस्य/ सङ्गणकविज्ञानस्य/ आयुर्वेदसिद्धान्तस्य (दर्शनस्य)/ कृषिपाराशरस्य/ वृक्षायुर्वेदस्य च सङ्घटनेन समारब्धानि नवीनपाठ्यपत्राणि तथा उदयमानविषयकपाठ्यपत्राणि/ संस्कृताश्रितपाठ्यपत्राणि) अभिनवपाठ्यपत्राणि।

Answer:

सामाजिकीं स्थितिं वीक्ष्य अपेक्षानुगुणं समये समये परिवर्त्यमाना शिक्षाव्यवस्था देशम् उन्नतिं प्रापयति। संस्कृतवाङ्मये विद्यमानानां मौलिकानां व्यक्तेः, समाजस्य, देशस्य, विश्वस्य च क्षेमवर्धकानां सर्वशान्तिप्रदानां च विषयाणां शैक्षिकविधिमाध्यमेन सह प्रदानाय महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः सङ्कल्पबद्धः वर्तते। विश्वविद्यालयस्य तदनुरूपाः गतिविधयः वर्तन्ते।

तत्र कौटिलीयार्थशास्‍त्रम् एम.ए संस्‍कृतपाठ्यक्रमे, आयुर्वेदसिद्धान्‍त:, एम. ए योगपाठ्यक्रमे वृक्षायुर्वेद:, एम.ए ज्‍योतिर्विज्ञानपाठ्यक्रमे, संगणकविज्ञानं शास्त्रिपरीक्षापाठयक्रमे च विशेषरूपेण स्‍थापिताः विद्यन्ते । एवमेव एतेषु पाठ्यक्रमेषु प्राचीनैः पाठ्यपत्रैः सह कालोचितानि कानिचन नवीनपाठ्यपत्राणि स्वीकृतानि वर्तन्ते। शास्त्रिपाठ्यक्रमे आचार्यपाठ्यक्रमे च सिद्धान्तज्यौतिषविषयके प्राचीनगणितसम्बन्धीनि पत्राणि भवन्ति। तत्र शास्त्रिपाठ्यक्रमे सिद्धान्तशिरोमणिः, सिद्धान्ततत्त्वविवेकः, केतकीयग्रहगणितम् इतीमानि पत्राणि भवन्ति। आचार्यपाठ्यक्रमे लीलावती, सरलत्रिकोणमितिः, रेखागणितम्, गोलपरिभाषा सूर्यसिद्धान्तः इतीमानि पत्राणि प्राचीनगणितसम्बन्धीनि सन्ति। गोलस्य स्थितिं ग्रहाणां गतिञ्च निर्दुष्टतया प्रतिपादयितुं ज्योतिर्विज्ञाने आश्रितस्य प्राचीनस्य गणितस्य परिचयः एतैः पाठ्यपत्रैः सम्पद्यते। ‘सिद्धान्तशिरोमणिः’ इति पत्रेण भारतीयगणितपद्धत्या ग्रहणकालस्य निर्णयः निर्दुष्टतया ज्ञातुं शक्यते। फलितज्योतिषविषयके प्राचीनगणितम् आश्रिते आचार्यपाठ्यक्रमे सूर्यसिद्धान्तः, भारतीयकुण्डलीविज्ञानम् इति पत्रे भवतः। भारतीयकुण्डलीविज्ञानम् इति पत्रे प्राचीनगणितमाश्रित्य कुण्डलीनिर्माणविधानं प्रतिपादितमस्ति।

संस्कृतच्छात्राणां सर्वशास्त्रेषु अबाधितगतिर्भवतु इति धिया महाभारतम्, रघुवंशमहाकाव्यम, किरातार्जुनीयम्, शिशुपालवधम्, नैषधीयचरितम्, तर्कसङ्ग्रहः, लघुजातकम्, षट्पञ्चाशिका, सारावली, जन्मपत्री विज्ञान रचना, पौरोहित्य कर्म प्रशिक्षक, ग्रहशान्तिपद्धति, पारिभाषिकपदार्थसंग्रहः, न्यायशास्त्र का इतिहास, पौरोहित्यकर्मपद्धति, ग्रहशान्तिपद्धतिः, स्मार्त यज्ञदीपिका इत्यादयः ग्रन्थाः आधुनिकविषयानामवगमनाय वैकल्पिकविषयत्वेन पाठ्यांशे स्वीकृताः। उज्जैनक्षेत्रस्य माहात्म्यसंरक्षणाय ब्राह्मणवटूनां योग्यतासम्पादनाय एते विषयाः अत्यन्तमुपयोगिनः भवन्ति।

अभिनवपाठ्यक्रमेषु M.Sc. Yoga, M.A. Vaastu, M.A. Yoga, इत्यादयः कार्यक्रमाः सञ्चाल्यमानाः सन्ति। एतादृशेषु आधुनिककार्यक्रमेषु हिन्दीभाषायां संस्कृतस्य गूढविषयाणां चर्चा सरलरूपेण कृता भवन्ति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Minutes of relevant Academic Council/BOS meeting(अध्ययनमण्डलस्य/विद्वत्परिषदः उपवेशनकार्यवृत्तम्) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

1.2.2 Percentage of Programmes in which Choice Based Credit System (CBCS)/ elective course system has been implemented (Preceeding academic year data)विकल्पाश्रितश्रेयोऽङ्कप्रणाल्या/ ऐच्छिकपाठ्यपत्रप्रणाल्या प्रवर्तितानां पाठ्यक्रमाणां प्रतिशतता। (प्रगतवर्षस्य दत्तांशः)

Answer: 87.5

1.2.2.1 Number of Programmes in which CBCS/ Elective course system implemented.विकल्पाश्रितश्रेयोऽङ्कप्रणाल्या/ ऐच्छिकपाठ्यपत्रप्रणाल्या प्रवर्तितानां पाठ्यक्रमाणां सङ्ख्या।

Answer: 21

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Minutes of relevant Academic Council/BOS meetings (अध्ययनमण्डलस्य/ विद्वत्परिषदः उपवेशनकार्यवृत्तम्) View Document
Institutional data (Data Template)( सांस्थानिकदत्तांशः देयः (दत्तांशप्रारूपम्) ) View Document

 

1.2.3 University provides the flexibility of bringing together the conventional face-to-face mode, MOOCs, online education and allow students to choose and combine the courses they are interested in. Provide details.विश्वविद्यालयेन प्रत्यक्षशिक्षणविधायाः सामूहिकमुक्तान्तर्जालपाठ्यक्रमस्य (MOOCs) अतितन्त्रीयशिक्षाणां च परस्परसमन्वयनाय नमनीयता प्रकल्पिता, येन स्वरुचिपूर्णानां पाठ्यक्रमाणां चयने संयोजने च च्छात्राः अनुमताः। क्रियान्वयनविवरणं देयम्।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये छात्राणां स्वरुचिपूर्णानां चयने संयोजने वा स्वातन्त्र्यम् प्रदत्तम्। शास्त्र/ विषयचयने NEP नेशनल एजुकेशन पॉलिसी 2020 इति नीत्या निर्मितेषु पाठ्यक्रमेषु विषयचयने छात्राणां स्वातन्त्र्यं कल्पितमस्ति विश्वविद्यालयेन। यथा- शास्त्रिपाठ्यक्रमे अधीतवेदान्तः छात्रः आचार्यपाठ्यक्रमे साहित्यं फलितज्योतिषम् अन्यद्वा शास्त्रं स्वीकर्तुं शक्नोति। एवम् शास्त्रिपाठ्यक्रमे अन्यतमं शास्त्रम् आचार्यपाठ्यक्रमे अन्यतमं शास्त्रं स्वीकर्तुं शक्यते इति शास्त्रचयने नमनीयता वर्तते।

एवमेव आचार्य / एम. ए. पाठ्यक्रमे वैकल्पिकपत्रे  मुख्यविषयाद् अतिरिक्तम् अन्यसङ्कायीयं विषयं ग्रहीत्वा अध्ययनस्य अवसरः दीयते। यथा- शास्त्रिपाठ्यक्रमे अधीतवेदान्तः छात्रः आचार्यपाठ्यक्रमे साहित्यं फलितज्योतिषम् अन्यद्वा शास्त्रं स्वीकर्तुं शक्नोति। एवम् शास्त्रिपाठ्यक्रमे अन्यतमं शास्त्रम् आचार्यपाठ्यक्रमे अन्यतमं शास्त्रं स्वीकर्तुं शक्यते इति शास्त्रचयने नमनीयता वर्तते।
अधितन्त्रिशिक्षणे शिक्षकैः पाठ्यांशानां PPT व्याख्यानानां आडियो/वीडियो तथा लेखाः अथ च युटुबमध्ये व्याख्यानानि संस्थाप्य तस्य लिंक वेवसाइटमध्ये दत्तमस्ति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Provide Link to MOOCs, online Platform(सामूहिकमुक्तान्तर्जालपाठ्यक्रमस्य अन्तर्जालानुबन्धः,) View Document

1.3.1 Institution integrates cross cutting issues as reflected in Sanskrit literature relevant to Gender, Environment and Sustainability, Human Values and Professional Ethics and traditional system of shastric learning into the Curriculum.संस्था संस्कृतसाहित्ये शास्त्रपरम्परायां च प्रतिफलितान् स्त्रीपुरुष-पर्यावरण-स्थिरता-मानवीयमूल्य-वृत्तिनीति-पारम्परिकशास्त्राधिगमप्रणालीविषयकान् सर्वत्रानुस्यूतांशान् पाठ्यचर्यायां समन्वयति।

Answer:

     संस्कृतसाहित्यस्य उपदेशसारः वर्तते “सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्”।। इति। वेदाः, शास्त्राणि च प्रभुसम्मिततया, पुराणानि मित्रसम्मिततया, काव्यानि कान्तासम्मिततया च जनान् उपदिशन्ति। अतः एतेषां संस्कृतवाङ्मयगतानां ग्रन्थानाम् अध्ययनस्य उपदेशप्राप्तिपूर्वकं तथा आचरणम् एव मुख्यं प्रयोजनम्। ततः जनाः परस्परं सामरस्येन जीवन्तः सामाजिकीं शान्तिं वर्धयेयुः।

    महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः वेदादित्रिविधमपि साहित्यम् आश्रित्य विविधाः पाठ्यचर्याः समचालयत्। पाठ्यक्रमेषु स्थितानि समता, स्थिरता, एकता, देशभक्तिः, अहिंसा, सत्यम्, अस्तेयः, शौचम्, इन्द्रियनिग्रहः इत्यादीनि मूल्यानि प्राकाश्यं नीतानि। दाम्पत्यधर्मः, राजधर्मः, पौरजानपदधर्मः, कौटुम्बिकाचाराः, पर्यावरणस्य महत्त्वम्, वृत्तिनीतिः इति नैके विषयाः पाठ्यचर्यायां समन्वयन्ति। तादृशाः सङ्क्षेपतः अत्र उल्लिख्यन्ते।

लैङ्गिक-जागरुकता/समानता

   विश्वविद्यालयः लैङ्गिकजागरुकतायै समानतायै च प्रतिबद्धो वर्तते। अत्र सञ्चाल्यमानेषु पाठ्यक्रेषु संस्कृतवाङ्मये वर्तमानाः एतत् विषयसन्दर्भाः विषयाः प्रतिबिम्बिताः भवन्ति।

पर्यावरणस्थिरता (Sustainability) -

    विश्वविद्यालयः पर्यावरणस्य स्थिरताविषये सर्वेषु हितधारकेषु संवेदनशीलतायाः सहनशक्तिः भवतु इति सर्वेषां सम्भाव्यसाधनानाम् अन्वेषणं करोति। सर्वेषु शिक्षणविभागेषु पर्यावरणस्य विविधाः आयामाः पाठ्यक्रमे सफलतया समावेशिताः सन्ति । प्राचीनभारतीयदर्शने, वैदिकशास्त्रेषु,शास्त्रीयग्रन्थेषु इत्यादिषु वर्णितमानवमूल्यानि व्यावसायिकनीतिशास्त्राणि च विश्वविद्यालयस्य पाठ्यक्रमे, एतासां योजनानां अग्रेसराय आनीतानि सन्ति। शास्त्री-आधारपाठ्यक्रमः पर्यावरणमनुसृत्य निर्धारितम्। येन पर्यावरणसंरक्षणाय जनजागृतिः दायित्वबोधश्च भविष्यति।

शास्त्राध्ययनस्य पारम्परिकपद्धतिः-

   पारम्परिकसंस्कृतग्रन्थानां गहनाध्ययनस्य उद्देश्यं कृत्वा सर्वैः विभागैः पाठ्यक्रमस्य परिकल्पना कृता अस्ति । मूलग्रन्थानां पठनेन शिक्षणप्रक्रियायां वास्तविकशैक्षणिकरुचिः वर्धते।

मानवीयमूल्यानि व्यावसायिकनीतयश्च –

   मानवीयमूल्ययुक्ताः निम्नलिखिताः ग्रन्थाः पाठ्यक्रमे विहिताः-

     शास्त्रिपाठ्यक्रमे साहित्यविषयस्य प्रथमप्रश्नपत्रे भतृहरेः नीतिशतकं निर्धारितं वर्तते। येन अध्ययनेन    छात्राः मानवीयतासम्पन्नाः शास्त्रानुगुणम् उचितानुचितबोधपूर्वकं सम्यग् व्यावसायिकवृत्तौ च समर्थाः भवन्ति। एवमेव आचार्यपाठ्यक्रमस्य अद्वैतवेदान्तविषये प्रथमसत्रार्द्धे श्रीमद्भगवद्गीतायाः त्रयोदशतमोऽध्यायः पाठ्यांशे विद्यते। यत्र छात्राः क्षेत्रक्षेत्रज्ञविभागयोगसंम्बन्धिविषयवर्णनेन मानवीयमूल्यमवगच्छन्ति। तत्रैव आचार्यतृतीयसत्रार्द्धपाठ्यक्रमे गीतायां मोक्षविषयकं, वस्तुतः त्यागस्वरूपं किम् इत्यादिवषयान् अवगच्छन्ति।

     शुक्लयजुर्वेदे ‘इषे त्वो र्जेत्वा’ इत्यादिमन्त्रेषु अस्तेयः गवादिपशुसंरक्षा, सज्जनसंख्यावृद्धिः। ‘इदमहम् अनृतात्सत्यमुपैमि’ इत्यादिमन्त्रेषु सत्यमार्गः। अद्वैतवेदान्ते कठोपनिषद् इति पत्रे यमनचिकेतसोः संवादेन आध्यात्मिकं मूल्यम्।

     चम्‍पूरामायणम्, नलचम्‍पू: इत्‍यादिग्रन्‍थेषु वर्णितानि मूल्‍यानि सर्वदर्शने योगसूत्रम् इति पत्रे भारतीययोगदर्शनस्य सर्वोपादेयता पुराणेतिहासे वाल्मीकिरामायणम् इति पत्रे राज्ञः प्रजापालने अवधेयाः अंशाः। अद्वैतवेदान्ते मुण्डकोपनिषद् इति पत्रे जीवब्रह्मणोः ऐक्यभावःविशेषतया: छात्रै: अवधेया: भवन्ति।

     साहित्ये अभिज्ञानशाकुन्तलम् इति पत्रे स्त्रीणां पुरुषाणां च समाधिकारः। महर्षेः कण्वस्य गुरुकुले महर्षेः मारीचस्याश्रमे च वसतां तपस्विन्यः मुनिकुमाराश्च इत्येतेषां स्त्रीपुरुषाणां सहाध्ययनम्। कन्यायाः निजमनोरथानुसारं पतिवरणम्। दम्पत्योः सामरस्येन जीवनम्। पौरोहित्ये श्राद्धविवेक इति पत्रे पूर्वजानां स्मरणम्।  अद्वैतवेदान्ते तैत्तिरीयोपनिषद् इति पत्रे अधिलोक-अधिज्यौतिष-अधिविद्य-अधिप्रज-अध्यात्मनामिकाः पञ्चमहासंहिताः। ईशावास्योपनिषद् इति पत्रे अधर्ममार्गस्य परित्यागः। आचार्यः पूर्वरूपम् अन्तेवास्युत्तररूपम्। विद्या सन्धिः। प्रवचनं सन्धानम्। इत्यादि-उपनिषद्वाक्यैः पाठ्यांशैः पारम्परिकशिक्षाप्रणालीपरिचयश्च वर्णितो विद्यते।

     वेदान्तसारः इति पत्रे आध्यात्मिकं मौल्यम्। पर्यावरणशिक्षा इति पत्रे प्रकृतिसंरक्षणम्, जलसंरक्षणम्, भूमिसंरक्षणम् च। अद्वैतवेदान्ते श्रीमद्भगवद्गीता इति पत्रे अहङ्कारपरित्यागः, आहारपद्धतिः, सत्त्वरजस्तमसां गुणानां स्वरूपम्, तत्प्रभावः च।

     किरातार्जुनीयम् इति पत्रे राजनैतिकविचाराः। व्याकरणशास्त्रम् इति पत्रे वैज्ञानिकविधिना उच्चारणप्रक्रियायाः ज्ञानं महत्त्वञ्च। रघुवंश इति पाठ्यांशेन सुभाषितैश्च सन्मार्गोपदेशः। इत्येतानि सार्वकालिकतया अत्यन्तोपादेयानि तत्त्वानि शास्त्रिपाठ्यक्रमे विद्यमानानि पाठ्यचर्यायाम् अनुस्यूततया समन्वयं लभन्ते।

     आचार्यपाठ्यक्रमे व्याकरणशास्त्रे शब्दसाधुत्वप्रक्रियाविज्ञानं, परिष्कारः, शब्दतत्त्वस्य ब्रह्मरूपत्वेन प्रतिपादनम्। न्यायदर्शने प्रामाणिकरीत्या द्रव्यगुणकर्मादीनां वर्णनम्, परमाणुतः द्वणुकादिक्रमेण सृष्टिप्रक्रिया निरूपणम्। प्रत्यक्षादिप्रमाणेन प्रमात्मकज्ञानोत्पत्तिप्रक्रिया। अद्वैतवेदान्ते छान्दोग्योपनिषद् इति पत्रे सत्यस्य अभिव्यक्तिमार्गः। अद्वैतसिद्धिः इत्यादिविषयाः आस्तिकतायाः स्थैर्यसम्पादकाः।

     एवं महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयद्वारा सञ्चालितेषु पाठ्यक्रमेषु, संस्कृतसाहित्ये विद्यमानाः मौलिकाः विषयाः, शास्त्रपरम्परया सिद्धाः समाजे अन्वयं लभमानाः अभ्युन्नतिकारिणश्च विषयाः युक्ताः सन्ति।

 

File DescriptionDocument
The list of courses where the above topics are included प्रधानानां पाठ्यपत्राणां सूची यत्र उपर्युक्तविषयाः योजिताः। View Document
Any additional information अतिरिक्ताः सूचनाः View Document
A description of courses which address Gender, Environment and Sustainability, Human Values and Professional Ethics, traditional system of shastric learning स्त्रीपुम्भिदासंवेदने, पर्यावरणस्य स्थिरतायाः विकासस्य मानवीयमूल्य-वृत्तिनीति-पारम्परिकशास्त्राध View Document

 

1.3.2 Number of value-added courses imparting transferable and life skills offered during the last five years.विगतपञ्चवर्षेषु प्रचालितानां स्थानान्तरार्हाणां जीवनकौशलप्रदानां मूल्यसंवर्धकानाञ्च पाठ्यपत्राणां सङ्ख्या।

Answer: 26

1.3.2.1 How many new value-added courses are added within the last 5 yearsविगतपञ्चवर्षेषु कति मूल्यसंवर्धक-पाठ्यपत्राणि योजितानि?

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
2 2 4 5 13

 

File DescriptionDocument
List of value added courses (Data Template) combined with 1.3.3 मूल्यसंवर्धकपाठ्यपत्राणां सूची दत्तांशप्रारूपाानुगुणं सांस्थानिकदत्तांशः 1.3.3 बिन्दुना युक्ता। View Document
Brochure or any other document relating to value added courses पञ्चदशतः विंशतिहोरापर्यन्तं ततोऽधिकं वा प्रचालितानां मूल्यसंवर्धकपाठ्यपत्राणां नामानि। View Document
Any additional information अतिरिक्ताः सूचनाः। View Document

 

Other Upload Files
1 View Document

 

1.3.3 Average Percentage of students enrolled in the courses under 1.3.2.1.3.2 बिन्दोः अनुरूपं जीवनकौशलप्रदे मूल्यसंवर्धके च पाठ्यपत्रे प्रविष्टानां छात्राणां प्रतिशतता।

Answer: 63.8

1.3.3.1 Number of students enrolled in value-added courses imparting transferable and life skills offered year-wise during the last five yearsविगतपञ्चवर्षेषु प्रचालितानां स्थानान्तरार्हाणां जीवनकौशलप्रदानां मूल्यसंवर्धक-पाठ्यपत्राणां प्रतिवर्षीया सङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
374 317 328 176 94

 

File DescriptionDocument
List of students enrolled (Data Template) combined with 1.3.2 प्रविष्टानां छात्राणां सूची (दत्तांशप्रारूपम्) 1.3.2 बिन्दुना युक्ता। View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

1.3.4 Percentage of students undertaking field projects/ internships/ training programmes/ summer assignments etc. (Preceeding academic year data)क्षेत्रकार्यपरियोजनासु अन्तःप्रशिक्षणेषु प्रशिक्षणपाठ्यक्रमेषु ग्रीष्मावकाशस्तकार्येषु गृहीतभागानां छात्राणां प्रतिशतता। (प्रगतवर्षस्य)

Answer: 19.48

1.3.4.1 Number of students undertaking field project or internshipsक्षेत्रकार्यपरियोजनासु ग्रीष्मावकाशादिषु कार्याणि कुर्वताम्/ अन्तःप्रशिक्षणं प्राप्नुवतां छात्राणां सङ्ख्या।

Answer: 90

File DescriptionDocument
List of Programmes and number of students undertaking field projects / internships (Data Template) पाठ्यक्रमाणां तथा क्षेत्रकार्यपरियोजनाः विरामकालीनकार्याणि कुर्वताम्/ अन्तःप्रशिक्षणं प्राप्नुवतां छात्राणां सूची (दत्तांशप्रारूपम्) View Document
Any additional information View Document

 

1.3.5 University Curriculum has units and sub-units of the modern subjects like History, Political Science, Education, Psychology, Economics and statistics etc. have contents from Sanskrit based knowledge and being taught in Sanskrit medium. Modern Sanskrit Literature is also included in the curriculum, Provide details.इतिहास-अर्थशास्त्र-शिक्षाशास्त्र-मनोविज्ञान-सङ्ख्याशास्त्र-समाजशास्त्र-राज्यशास्त्रेत्याद्याधुनिक-विषयभागोपभागा: अपि संस्कृतमाध्यमेन पाठ्यमाना: सन्ति। आधुनिकसंस्कृतसाहित्यमपि पाठ्यचर्यायामन्तर्भावितम्, विवरणं देयम्।

Answer:

संस्कृतमाध्यमेन पाठ्यमानाः भागोपभागाः-

    महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयद्वारा शास्त्रिपाठ्यक्रमः, आचार्यपाठ्यक्रमः, एम. ए. ज्योतिर्विज्ञानपाठ्यक्रमः, एम.ए. योगपाठ्यक्रमः एम.ए. संस्कृतपाठ्यक्रमः शिक्षाशास्त्रिपाठ्यक्रमः (बीए बीएड)  स्नातक-स्नातकोत्तरपत्रोपाधिपाठ्यक्रमः,  च सञ्चालिताः सन्ति। एतेषु पाठ्यक्रमेषु संस्कृतं/शास्त्रीयविषयैः सह आधुनिकाः विषयाः अपि युक्ताः वर्तन्ते। भारतीयज्ञानपरम्परायाः ज्ञानेन सह विश्वविद्यालयस्य छात्राः आधुनिकविषयेषु नवाचारेषु च विशिष्टं ज्ञानं प्राप्नुयुः, तेन समाजे स्वातन्त्र्येण कालोचितं योगदानं कर्तुं च ते प्रभवेयुः इति उद्देश्येन तान् आधुनिकानपि विषयान् स्वीकृत्य विन्यस्तः पाठ्यक्रमः सञ्चालितो वर्तते।

    शास्त्री, बी.ए आनर्स, तृतीयवर्षे संस्‍कृतपाठ्यक्रमे आधुनिक संस्‍कृतसाहित्यस्‍य समावेश: कृतो विद्यते।  तत्र  अप्पाशास्‍त्री, पण्डिता क्षमाराव, जानकीवल्‍लभशास्‍त्री, स्‍वामीरामभद्राचार्य, रेवाप्रसादद्विवेदी, मिथिलाप्रसादत्रिपाठी, राधावल्‍लभत्रिपाठी, राजेन्‍द्रमिश्रप्रभृतीनां कवीनां काव्‍यरचना: पाठ्यांशे स्‍वीकृता: सन्ति।  

    विश्वविद्यालयस्य पाठ्यक्रमस्य परिकल्पने विश्वविद्यालयस्य दृष्टिः (Mission) च सारभूतम् अस्ति। महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये कौशलप्रधानपाठ्यक्रमाणां महत्त्वं दीयते। नूतनपाठ्यक्रमानाणाम् अध्ययनेन कार्यजीवने पूर्णता भवति। नवीनशिक्षणकौशलेन व्यक्तिः सम्यक् कार्यं कर्तुं शक्नोति। एतेन छात्रः अधिकं आत्मविश्वासयुक्तः  व्यक्तिवादी भवति। नूतनविषयाणां शिक्षणेन संस्कृतछात्राणां उपलब्धिभावना, ज्ञानवृद्धिभावना, सृजनशीलता, आत्मविश्वासः च विकसिताः भवन्ति। कार्यक्रमसूचौ च पारम्परिक-आधुनिकमूल्यानां मिश्रणम् अस्ति। पर्यावरणशिक्षा,उद्यमिता-इतिहासः प्रबन्धनम्, मनोविज्ञानम्, अर्थशास्त्रम्, इत्यादयः विषयाः छात्राणां कृते पाठ्यन्ते। संस्कृतभाषायाः क्षेत्रं विस्तृतं यत् अन्ये विविधाः अध्ययनप्रवाहाः समाविष्टाः सन्ति।

     शास्त्री, बी.ए आनर्स, शास्त्रिशिक्षाशास्त्रीप्रभृतिषु पाठ्यक्रमेषु आधुनिकविषयाणां सन्निवेशः कृतो वर्तते।

 

File DescriptionDocument
List of units and sub-units of the modern subjects आधुनिक-विषयभागोपभागानां सूची। View Document
Any additional information अतिरिक्ताः सूचनाः View Document

1.4.1 Structured feedback received from1) Students2) Teachers3) Employers4) Alumni5) Parentsfor design and review of syllabus semester wise/year-wiseअर्धसत्रप्रणाल्याः, वार्षिकसत्रप्रणाल्याः वा पाठ्यांशसंरचनार्थं समीक्षार्थञ्च संरचिता प्रतिपुष्टिः स्वीक्रियते -१. छात्रेभ्यः२. अध्यापकेभ्यः३. वृत्तिदातृभ्यः४. पूर्वच्छात्रेभ्यः५. अभिभावकेभ्यः

Answer: A. Any 4 of the above (अ. उपरि निर्दिष्टेषु कानिचित् चत्वारि)

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information (Upload) अतिरिक्ताः सूचनाः (उपारोपणीयम्) View Document
Action taken report of the University on feedback report as stated in the minutes of the Governing Council, Syndicate, Board of Management (Upload) हितधारकाणां प्रतिपुष्टिविषयकं प्रतिवेदनं शासिपरिषदः कार्यवृत्तानुरूपं विश्वविद्यालयेन कृतकार्यस्य प्रतिवेद View Document
URL for stakeholder feedback report URL हितधारकाणां प्रतिपुष्टिविषयकं प्रतिवेदनम् View Document

 

1.4.2 Feedback processes of the institution may be classified as follows:संस्थायाः प्रतिपुष्टिप्रक्रिया अधोलिखितक्रमेण विभज्य दर्श्यते –

Answer: A. Feedback collected, analysed, action taken and available on website(अ. प्रतिपुष्टिः सङ्गृहीता, विश्लेषिता, क्रियान्विता च, जालस्थाने उपलभ्यते च।)

File DescriptionDocument
Upload Stakeholder feedback report, Action taken report of the university on it as minuted by the Governing Council, Syndicate, Board of Management. हितधारकाणां प्रतिपुष्टिविषयकं प्रतिवेदनं, शासिपरिषदः कार्यवृत्तानुरूपं विश्वविद्यालयेन क्रियान्वयस्य प्रतिवेदनम् उपारोपणीयम्। View Document
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
URL for feedback report हितधारकाणां प्रतिपुष्टिविषयकं प्रतिवेदनस्य सन्धानम्। View Document

 

1.4.3 The feedback thus obtained is• Discussed in the Statutory Bodies of the University like Academic Council/ Executive Council etc.• Is used for restructuring the curriculum• Discussed with Traditional scholars/ Peersइत्थं सङ्गृहीता प्रतिपुष्टिः -· विश्वविद्यालयस्य विद्वत्परिषदि/ शासिपरिषदि/ न्यायसभायाम्/ अन्येषु प्राधिकारेषु चर्चिता।· पाठ्यचर्यायाः पुनः निर्माणाय उपयुज्यते।· पारम्परिकैः विद्वद्भिः प्रवरगणैः सह चर्चिता।

Answer:

  •     महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः स्वकीयहितधारकेभ्यः प्रतिपुष्टिं सङ्गृह्य पाठ्यचर्यायाः निर्माणे प्रतिपुष्टेः प्रयोगं करोति।  अस्य विश्वविद्यालयकार्याणि विविधपरिषद्द्वारा प्रवर्तन्ते। विविधेभ्यः हितधारकेभ्यः युगानुरोधेन प्रतिपुष्टिं स्वीकर्तुं प्रतिपुष्टेः स्वरूपं निर्धारयितुं विशेषज्ञैः मार्गदर्शनं प्राप्तम्। विगतपञ्चवर्षाणां 2018 तः 2023 पर्यन्तं विविधसान्दर्भिकप्रश्नानुसारं विविधेभ्यः हितधारकेभ्यः युगानुरोधेन प्रतिपुष्टिं संकलय्य पाठ्यचर्यायामावश्यकतानुगुणं परिवर्तनानि विहितानि। प्रतिपुष्टेः प्रत्येकं हितधारकेभ्यः (छात्त्रेभ्यः,अध्यापकेभ्यः, पूर्वछात्त्रेभ्यः, नियोजकेभ्यः) प्राप्तस्य दत्तांशस्य विशुद्धिं विधाय पुनरावृत्तिदोषान् निवार्य वैज्ञानिकरीत्या व्यवस्थीकरणं कृतम्। प्राप्तदत्तांशानां विद्यापरिषदि चर्चां विधाय अनुमोदनं प्राप्तम्।
  •    विविधहितधारकेभ्यः प्राप्तस्य प्रतिपुष्टेः सम्बद्धविशेषज्ञैः साकं चर्चासत्रेषु विमर्शान् कृत्वा बहुमूल्यानि मन्तव्यानि, संस्तुतयः सङ्कलितानि। सर्वेषामपि मन्तव्यानां, संस्तुतीनां व्यावहारिकप्रयोगणां विश्वविद्यालयीयपाठ्यचर्यासु पाठ्येतरक्रियासु कर्तुं संस्थागतसर्वेष्वपि स्तरेषु चिन्तनं विहितम्। विविधहितधारकेभ्यः प्राप्तप्रतिपुष्टेः प्रयोगं विविधनीतिनिर्माणकार्येषु साहाय्यं करोति। विविधहितधारकेभ्यः प्राप्तप्रतिपुष्टिरस्माकं  युगानुरूपपरिवर्तनानि संशोधनानि सूचयति।
  •    विविधहितधारकेभ्यः प्राप्तप्रतिपुष्टिः राष्ट्रिय-अध्यापक-शिक्षा-परिषदः(NCTE) निर्णयमनुसृत्य शिक्षाशास्त्रि-क्रियान्वयनं कर्तुं सूचयति। विविधहितधारकेभ्यः प्राप्तप्रतिपुष्टिः निर्णयान् शास्त्रिकक्षासु क्रियान्वयनं कर्तुं सूचयति। विविधहितधारकेभ्यः प्राप्तप्रतिपुष्ट्यनुगुणं- शास्त्रिकक्षासु संगणकविज्ञानपाठ्यक्रमः छात्त्रेभ्यः अनिवार्यरूपेण योजितः।
  •   विविधहितधारकेभ्यः प्राप्तप्रतिपुष्ट्यनुगुणं शास्त्रिकक्षासु पर्यावरणविज्ञानपाठ्यक्रमः छात्त्रेभ्यः योजितः। छात्त्रेषु पर्यावरणस्य जागरूकता सम्पादनाय, वायु-जल-ध्वनिप्रदूषणं दूरीकर्तुं सतर्कता समुत्पादनाय पर्यावरणविज्ञानपाठ्यक्रमः प्रासङ्गिकः वर्तते।
  •    विद्यापरिषदः उपवेशने विविधहितधारकेभ्यः (अध्यापक-छात्त्र-पूर्वछात्त्र-वृत्तिदातृभ्यः) प्राप्तप्रतिपुष्टेः चर्चा कृता। ततः परिषदः सर्वे सदस्याः स्वकीयमतानि स्थापितवन्तः। उपवेशने निर्दिष्टेषु बिन्दुषु चर्चा विहिता। एतत्परिपाटीम् अनुसृत्य गतपर्याये पाठ्यक्रमाणां नवीकरणम्, परिवर्तनम्, परिवर्धनम्, इत्यादयः विषयाः अध्ययनमण्डलस्य पुरतः उपास्थाप्यन्ते। अपेक्षानुगुणं कार्यपरिषदः अनुशंसां स्वीकृत्य कार्यान्वयः कृतः। परिषदः निर्णयानुसारं तन्निर्देशमनुसृत्य विश्वविद्यालयः कार्यमकरोत्।
  •  विविधहितधारकेभ्यः प्राप्तस्य प्रतिपुष्टेः विश्लेषणं व्यावहारिकसंस्तुतयश्च अध्‍ययनमण्‍डले, संकायमण्‍डले, विद्यापरिषदि, कार्यपरिषदि, प्रेष्यते विचार्यते च। शैक्षिकानि प्राशासनिकानि, आनुसन्धानिकानि, प्राकाशनिकानि च कार्याणि विश्वविद्यालयस्य प्रगतेः साक्षात् सूचकानि भवन्ति। क्रियाशीलाः इमाः परिषदः निर्दिष्टानां कार्याणां निर्वाहे विशिष्टम् अनुभवम् आवहन्ति। विविधहितधारकेभ्यः (अध्यापकेभ्यः,छात्त्रेभ्यः,पूर्वछात्त्रेभ्यः,नियोजकेभ्यः) प्राप्तप्रतिपुष्टेः इमाः परिषदः प्रयोगं कुर्वन्ति।
  •   विविधहितधारकेभ्यः (अध्यापकेभ्यः,छात्त्रेभ्यः,पूर्वछात्त्रेभ्यः,नियोजकेभ्यः) प्राप्तप्रतिपुष्टेः निर्णयाय विद्यापरिषद् एव मुख्या भवति। तस्याः परिषदः अङ्गीकारात्परं प्रतिपुष्टेः निर्णीतस्य प्रकल्पस्य क्रियान्वयः क्रियते। शैक्षणिकपुरोगतिं प्राप्य विश्वविद्यालयः अन्यसंस्थाभिः सह स्पर्धितुम् ईहते। प्रतिपुष्टेः प्रयोगः पाठ्यक्रमरचनादिषु शैक्षिककार्येषु अविलम्बं लक्ष्यपूर्तये अध्ययनमण्डलं रचयितुम् इयं परिषत् प्रोत्साहयति अनुमन्यते च। अध्ययनमण्डलद्वारा अङ्गीकृतं निर्णयं परिशीलयति। अपेक्षानुगुणं परिष्कारं सूचयति। शैक्षणिकनिर्णयाः पूर्णतया छात्रकेन्द्रिताः छात्रप्रियाश्च भवेयुः, तदर्थं विद्यापरिषत् सततं तत्परा भवति। परिषदः कार्यतन्त्रस्य लक्ष्यं भवति अधीतशास्त्राः स्पर्धात्मके जगति अनतिश्रमेण उद्योगं लभेरन् इति।
  •    विद्यापरिषद् अध्ययनमण्डलम्, संकायमण्‍डलं च विश्वविद्यालयस्य शैक्षणिकीं कार्यप्रणालीं सम्‍पादयन्ति। विश्वविद्यालयस्य सर्वाङ्गिकविकासे एतेषां कार्ययोजना, काले अङ्गीक्रियमाणः निर्णयः, स्थाने दीयमाना प्रतिपुष्टिः च विशिष्टां भूमिकां वहति। विविधहितधारकेभ्यः (अध्यापकेभ्यः, छात्त्रेभ्यः, पूर्वछात्त्रेभ्यः, नियोजकेभ्यः) प्राप्तस्य प्रतिपुष्टेः प्रयोगः समाजस्य अध्येतृणां च अपेक्षाः सूक्ष्मं विज्ञाय शैक्षिकनिर्णयानां क्रियान्वयः कर्तव्यः। यतः स एव परिसरेषु परिणामजनकः। बी.ए.बी.एड. शिक्षाशास्त्रिपाठ्यक्रमस्य  च शैक्षिककार्याणि विश्वविद्यालयस्य विद्यापरिषद् अनयोः संस्थयोः नियमान् परिशीलयति। तदविरोधेन विश्वविद्यालयस्योद्देश्यं साधयितुं कार्ययोजनाङ्करोति।
  •  महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य  प्रत्येकविभागीयछात्रेभ्यः भौतिकमाध्यमेनापि  प्रतिपुष्टेः संग्रहणं कृतमस्ति। इत्थं स विविधहितधारकेभ्यः (अध्यापकेभ्यः,छात्त्रेभ्यः,पूर्वछात्त्रेभ्यः,नियोजकेभ्यः) प्राप्तस्य प्रतिपुष्टेः प्रयोगः विशिष्टछात्त्त्रेभ्यः विश्वविद्यालयकल्याणाय कल्पते। विद्यापरिषदः अध्ययनमण्डलस्‍य च विविधहितधारकेभ्यः प्राप्तस्य प्रतिपुष्ट्याधारेणैव विश्वविद्यालयः पाठ्यपत्रं निर्धारयति। शास्त्रिपाठ्यक्रमे च अनिवार्यपत्रत्वेन उद्यमिताविकास: इति योजितम्। अद्यत्वे उद्यमिता विकास: सर्वत्र औद्योगोकक्षेत्रेषु अनिवार्यतयापेक्षितमस्ति। तेन संस्कृतपदवीधराणामौद्योगिकक्षेत्रे उद्योगावसराय विस्तारोभवत्।
  •    शास्त्रिपाठ्यक्रमे पर्यावरणमिति पत्रं योजितम्। समाजस्य प्रतिपुष्ट्यनुसारं विद्यापरिषदः क्रियान्वयनस्येदमन्यदुदाहरणम्। अस्य पत्रस्याध्ययनेन बहूनि प्रयोजनानि वर्तन्ते। पर्यावरणस्य सन्तुलनारक्षणम्, प्रदूषणनियन्त्रणम्, शुद्धवायोः जलस्य च महत्त्वमित्यादीन् अनेकान् विषयान् अध्येतारः अवगच्छन्ति। पत्रमिदं सस्यारोपणे प्रेरणां ददाति, वृक्षच्छेदनाद् निवृत्तौ प्रेरणां ददाति। आत्मानं परितः स्वच्छतायाः रक्षणे उत्साहं वर्धयति। विश्वविद्यालयपरिसरे सुन्दरोद्यानस्य निर्माणं प्रोत्साहयति। हरिद्वनोद्देशः परिसरे सर्वेषां सदस्यानां मनसः उल्लासं वर्धयति।
  •    CBCS System - एषा प्रणाली छात्राणां कृते मूलैः वैकल्पिकैः अथवा कौशलाधारितपाठ्यक्रमैः सह युक्तात् निर्धारितपाठ्यक्रमात् पाठ्यक्रमचयनस्य अवसरं प्रददाति। पाठ्यक्रमाणां मूल्याङ्कनं ग्रेडिंग्-व्यवस्थायाः अनुसरणं कृत्वा जायते। पारम्परिकसङ्ख्याव्यवस्थायाः अपेक्षया इदं श्रेष्ठम् अस्ति। छात्रेभ्यः अवसरप्रदायकं इदं शैक्षिकं प्रतिरूपम् वर्तते यच्छात्राणां कृते स्वेच्छानुगुणं पाठ्यक्रमान् विषयान् च ज्ञातुं महत् अवसरं प्रददाति। अस्य बृहत्तमः लाभः अस्ति यत् छात्राय स्वरुचिम् आधारीकृत्य कार्यक्रमान्/पाठ्यक्रमान् चयनं कर्तुं स्वतन्त्रतां ददाति। तथा स्नातक-स्नातकोत्तर-अध्ययनकाले अन्तर्विषय-बहुविषयक-पाठ्यक्रमं कर्तुं समर्थयति। विकल्पापेक्षया अधिकं स्वतन्त्रतां ददाति। छात्राः यस्य पाठ्यक्रमस्य अध्ययनं कर्तुम् इच्छन्ति तस्यैव पठनावसरः अस्यां प्रणाल्यां वर्तते।

 

File DescriptionDocument
Upload the Minutes of the Academic Council/ Executive Council etc. विद्वद्परिषदादीनां निर्णयान् उपारोपयतु View Document
Any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document